View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.113 युद्धकांड - त्रयोदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयोदशाधिकशततमस्सर्गः ।

रावणंनिहतंदृष्टवाराघवेणमहात्मना ।
अंतःपुराद्विनिष्पेतूराक्षस्यश्शोककर्शिताः ॥ 1 ॥

वार्यमाणास्सुबहुशोवेष्टंत्यःक्षितिपांसुषु ।
विमुक्तकेश्यश्शोकार्तागावोवत्सहतायथा ॥ 2 ॥

उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः ।
प्रविश्यायोधनंघोरंविचिन्वंत्वोहतंपतिम् ॥ 3 ॥

आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः ।
परिपेतुःकबंधांकांमहींशोणितकर्दमाम् ॥ 4 ॥

दृष्ट्वा समागतं देवी हनूमंतं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत्तदा ॥ 5 ॥

ददृशुस्तामहाकायंमहावीर्यंमहाद्युतिम् ।
रावणंनिहतंभूमौनीलांजनचयोपमम् ॥ 6 ॥

ताःपतिंसहसादृष्टवाशयानंरणपांसुषु ।
निपेतुस्तस्यगात्रेषुछिन्नावनलताइव ॥ 7 ॥

बहुमानात्परिष्वज्यकाचिदेवंरुरोद ह ।
चरणौकाचिदालंब्यकाचित्कंठेऽवलंब्य च ॥ 8 ॥

उत्क्षिप्य च भुजौकाचिद्भूमौसुपरिवर्तते ।
हतस्यवदनंदृष्टवाकाचिन्मोहमुपागमत् ॥ 9 ॥

काचिदंकेशिरःकृत्वारुरोदमुखमीक्षती ।
स्नापयंतीमुखंबाष्पैस्तुषारैरिवपंकजम् ॥ 10 ॥

एवमार्ताःपतिंदृष्टवारावणंनिहतंभुवि ।
चुक्रुशुर्भहुधाशोकाद्भूयस्ताःपर्यदेवयन् ॥ 11 ॥

येनमित्रासितःशक्रोयेनवित्रासितोयमः ।
येनवैश्रवणोराजापुष्पकेणवियोजितः ॥ 12 ॥

गंधर्वाणामृषीणां च सुराणां च महात्मनाम् ।
भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः ॥ 13 ॥

असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा ।
भयंयो न विजानातितस्येदंमानुषाद् भयम् ॥ 14 ॥

अवध्योदेवतानांयस्तथादानवराक्षसाम् ।
हतःसोऽयंरणेशेतेमानुषेणपदातिना ॥ 15 ॥

यो न शक्यस्सुरैर्हंतुं न यक्षैर्नासुरैस्तथा ।
सोऽयंकश्चिदिवासत्त्वोमृत्युंमर्त्येनलंभितः ॥ 16 ॥

एवंवदंत्योरुरुदुस्तस्यतादुःखिताःस्त्रियः ।
भूयएव च दुःखार्ताविलेपुश्चपुनःपुनः ॥ 17 ॥

अशृण्वतातुसुहृदांसततंहितवादिनाम् ।
मरणायहृतासीताराक्षसाश्चनिपातिताः ॥ 18 ॥

एतास्सममिदानींतेवयमात्मा च पातितः ।
ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः ॥ 19 ॥

धृष्टंपरुषितोमोहत्त्वयात्मवथकांक्षिणा ।
दिनिर्यातितातेस्वासतीतारामायमैथिली ॥ 20 ॥

ननस्स्याद्व्यसनंघोरमिदंमूलहरंमहत् ।
वृत्तकामोभवेद्भ्रातारामोमित्रकुलंभवेत् ॥ 21 ॥

वयंचाध्विवाःसर्वाःसकमा न च शत्रवः ।
त्वयापुनर्नृशंशंसेनसीतांसंरुंधताबलात् ॥ 22 ॥

राक्षसावयमात्मा च त्रयंतुल्यंनिपातितम् ।
न कामकारःकामंवातवराक्षसपुंगव ।
दैवंचेष्टयतेसर्वंहतंदैवेनहन्यते ॥ 23 ॥

वानराणांविनाशोऽयंराक्षसानां च तेरणे ।
तवचैवमहाबाहो दैवयोगादुपागतः ॥ 24 ॥

नैवार्थेन न कामेनविक्रमेण न चाज्ञया ।
शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता ॥ 25 ॥

ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।
अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयोदशाधिकशततमस्सर्गः ॥




Browse Related Categories: