View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.113 युद्धकाण्ड - त्रयोदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयोदशाधिकशततमस्सर्गः ।

रावणन्निहतन्दृष्टवाराघवेणमहात्मना ।
अन्तःपुराद्विनिष्पेतूराक्षस्यश्शोककर्शिताः ॥ 1 ॥

वार्यमाणास्सुबहुशोवेष्टन्त्यःक्षितिपांसुषु ।
विमुक्तकेश्यश्शोकार्तागावोवत्सहतायथा ॥ 2 ॥

उत्तरेणविनिष्क्रम्यद्वारेणसहराक्षसैः ।
प्रविश्यायोधनङ्घोरंविचिन्वन्त्वोहतम्पतिम् ॥ 3 ॥

आर्यपुत्रेतिवादिन्योहानाथेति च सर्वशः ।
परिपेतुःकबन्धाङ्काम्महींशोणितकर्दमाम् ॥ 4 ॥

दृष्ट्वा समागतं देवी हनूमन्तं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत्तदा ॥ 5 ॥

ददृशुस्तामहाकायम्महावीर्यम्महाद्युतिम् ।
रावणन्निहतम्भूमौनीलाञ्जनचयोपमम् ॥ 6 ॥

ताःपतिंसहसादृष्टवाशयानंरणपांसुषु ।
निपेतुस्तस्यगात्रेषुछिन्नावनलताइव ॥ 7 ॥

बहुमानात्परिष्वज्यकाचिदेवंरुरोद ह ।
चरणौकाचिदालम्ब्यकाचित्कण्ठेऽवलम्ब्य च ॥ 8 ॥

उत्क्षिप्य च भुजौकाचिद्भूमौसुपरिवर्तते ।
हतस्यवदनन्दृष्टवाकाचिन्मोहमुपागमत् ॥ 9 ॥

काचिदङ्केशिरःकृत्वारुरोदमुखमीक्षती ।
स्नापयन्तीमुखम्बाष्पैस्तुषारैरिवपङ्कजम् ॥ 10 ॥

एवमार्ताःपतिन्दृष्टवारावणन्निहतम्भुवि ।
चुक्रुशुर्भहुधाशोकाद्भूयस्ताःपर्यदेवयन् ॥ 11 ॥

येनमित्रासितःशक्रोयेनवित्रासितोयमः ।
येनवैश्रवणोराजापुष्पकेणवियोजितः ॥ 12 ॥

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ।
भयंयेनरणेदत्तंसोऽयंशेतेरणेहतः ॥ 13 ॥

असुरेभ्यःसुरेभ्योवापन्नगेभ्योऽपिवातथा ।
भयंयो न विजानातितस्येदम्मानुषाद् भयम् ॥ 14 ॥

अवध्योदेवतानांयस्तथादानवराक्षसाम् ।
हतःसोऽयंरणेशेतेमानुषेणपदातिना ॥ 15 ॥

यो न शक्यस्सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।
सोऽयङ्कश्चिदिवासत्त्वोमृत्युम्मर्त्येनलम्भितः ॥ 16 ॥

एवंवदन्त्योरुरुदुस्तस्यतादुःखिताःस्त्रियः ।
भूयएव च दुःखार्ताविलेपुश्चपुनःपुनः ॥ 17 ॥

अशृण्वतातुसुहृदांसततंहितवादिनाम् ।
मरणायहृतासीताराक्षसाश्चनिपातिताः ॥ 18 ॥

एतास्सममिदानीन्तेवयमात्मा च पातितः ।
ब्रुवाणोऽपिहितंवाक्यमिष्टोभ्राताविभीषणः ॥ 19 ॥

धृष्टम्परुषितोमोहत्त्वयात्मवथकाङ्क्षिणा ।
दिनिर्यातितातेस्वासतीतारामायमैथिली ॥ 20 ॥

ननस्स्याद्व्यसनङ्घोरमिदम्मूलहरम्महत् ।
वृत्तकामोभवेद्भ्रातारामोमित्रकुलम्भवेत् ॥ 21 ॥

वयञ्चाध्विवाःसर्वाःसकमा न च शत्रवः ।
त्वयापुनर्नृशंशंसेनसीतांसंरुन्धताबलात् ॥ 22 ॥

राक्षसावयमात्मा च त्रयन्तुल्यन्निपातितम् ।
न कामकारःकामंवातवराक्षसपुङ्गव ।
दैवञ्चेष्टयतेसर्वंहतन्दैवेनहन्यते ॥ 23 ॥

वानराणांविनाशोऽयंराक्षसानां च तेरणे ।
तवचैवमहाबाहो दैवयोगादुपागतः ॥ 24 ॥

नैवार्थेन न कामेनविक्रमेण न चाज्ञया ।
शक्यादैवगतिर्लोकेनिवर्तयितुमुद्यता ॥ 25 ॥

ततः शुभतरं वाक्यमुवाच पवनात्मजम् ।
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयोदशाधिकशततमस्सर्गः ॥




Browse Related Categories: