View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.14 युद्धकाण्ड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्दशस्सर्गः ।

निशाचरेन्द्रस्यनिशम्यवाक्यंसकुम्भकर्णस्यचगर्जितानि ।
विभीषणोराक्षसराजमुख्यमुवाचवाक्यंहितमर्थयुक्तम् ॥ 1 ॥

न्तरभोगराशिश्चिन्ताविषस्सुस्मिततीक्ष्णदंष्ट्रः ।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायस्सीतामहाहिस्तवकेनराजन् ॥ 2 ॥

यावन्नलङ्कांसमभिद्रवन्तिवलीमुखाःपर्वतकूटमात्राः ।
दष्ट्रायुधाश्चैवनखायुधाश्चप्रदीयतान्दाशरथायमैथिली ॥ 3 ॥

यावन्नगृह्णन्तिशिरांसिबाणारामेरिताराक्षसपुङ्गवानाम् ।
वज्रोपमावायुसमानवेगाःप्रदीयतान्दाशरथायमैथिली ॥ 4 ॥

नकुम्भकर्णेन्द्रजितौचराजंस्तथामहापार्श्वमहोदरौवा ।
निकुम्भकुम्भौचतथाऽतिकायःस्थातुन्नशक्तायुधिराघवस्य ॥ 5 ॥

जीवंस्तु रामस्य न मोक्स्यसे त्वम् ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।
न वासवस्याङ्कगतो न मृत्यो ।
र्नभो न पातालमनुप्रविष्टः ॥ 6 ॥

निशम्यवाक्यन्तुविभीषणस्यततःप्रहस्तोवचनम्बभाषे ।
ननोभयंविद्मनदैवतेभ्योनदानवेभ्योऽप्यथवाकुतश्चित् ॥ 7 ॥

नयक्षगन्धर्वमहोरगेभ्योभयन्नसङ्ख्येपतगोरगेभ्यः ।
कथन्नुरामाद्भविताभयन्नोनरेन्द्रपुत्रात्समरेकदाचित् ॥ 8 ॥

प्रहस्तवाक्यन्त्वहितन्निशम्यविभीषणोराजहितानुकाङ्क्षी ।
ततोमहार्थंवचनम्बभाषेधर्मार्थकामेषुनिविष्टबुद्धिः ॥ 9 ॥

प्रहस्तः राजाचमहोदरश्चत्वङ्कुम्भकर्णश्चयथाऽर्थजातम् ।
ब्रवीतरामम्प्रतितन्नशक्यंयथागतिस्स्वर्गमधर्मबुद्धेः ॥ 10 ॥

वधस्तुरामस्यमयात्वयाचप्रहस्तसर्वैरपिराक्षसैर्वा ।
कथम्भवेदर्थविशारदस्यमहार्णवन्तर्तुमिवाप्लवस्य ॥ 11 ॥

धर्मप्रधानस्य महारथस्य ।
इक्स्वाकुवंशप्रभवस्य राज्ञः ।
पुरोऽस्य देवाश्च तथाविधस्य ।
कृत्येषु शक्तस्य भवन्ति मूढाः ॥ 12 ॥

तीक्ष्णानतायत्तवकङ्कपत्रादुरासदाराघवविप्रमुक्ताः ।
भित्वाशरीरम्प्रविशन्तिबाणाःप्रहस्ततेनैवविकत्थसेत्वम् ॥ 13 ॥

भित्त्वानतावत्प्रविशन्तिकायम्प्राणान्तिकास्तेऽशनितुल्यवेगाः ।
शिताश्शराराघवविप्रमुक्ताःप्रहस्ततेनैवविकत्थसेत्वम् ॥ 14 ॥

नरावणोनातिबलस्त्रिशीर्षोनकुम्भकर्णोऽस्यसुतोनिकुम्भः ।
नचेन्द्रजिद्दाशरधिम्प्रसोढुन्त्वंवारणेशक्रसमंसमर्थः ॥ 15 ॥

देवान्तकोवापिनरान्तकोवातथातिकायोऽतिरथोमहात्मा ।
आकम्पनश्चाद्रिसमानसारःस्थातुन्नशक्तायुधिराघवस्य ॥ 16 ॥

अयञ्चराजाव्यसनाभिभूतोमित्रैरमित्रप्रतिमैर्भवद्भिः ।
अन्वास्यतेराक्षसनाशनार्थेतीक्ष्णःप्रकृत्याह्यसीक्षयकारी ॥ 17 ॥

अनन्तभोगेनसहस्रमूर्थ्नानागेनभीमेनमहाबलेव ।
बलात्परिक्षिप्तमिमम्भवन्तोराजानमुत्क्षिप्यविमोचयन्तु ॥ 18 ॥

यावद्धिकेशग्रहणातसुहृद्भिः समेत्यसर्वैःपरिपूर्णकामैः ।
निगृह्यराजापरिरक्षितव्योभूतैर्यथाभीमबलैर्गृहीतः ॥ 19 ॥

सुवारिणाराघवसागरेणप्रच्छाद्यमानस्तरसाभवद्भिः ।
युक्तस्त्वयन्तारयितुंसमेत्यकाकुत्स्थपातालमुखेपतन्सः ॥ 20 ॥

इदम्पुरस्यास्यसराक्षसस्यराज्ञश्चपथ्यंससुहृज्जनस्य ।
सम्यग्घिवाक्यंस्वमतम्ब्रवीमिनरेन्द्रपुत्रायददामपत्नीम् ॥ 21 ॥

परस्यवीर्यंस्वबलञ्चबुध्वास्थानङ्क्षयञ्चैवतथैववृद्धिम् ।
तथास्वपक्षेप्यनुमृश्यबुध्वावदेत् क्षमंस्वामिहितंसमन्त्री ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्दशस्सर्गः ॥




Browse Related Categories: