श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनाशीतितमस्सर्गः ।
निर्गतंमकराक्षंतेदृष्टवावानरपुंगवाः ।
आप्लुत्यसहसासर्वेयोद्धुकामाव्यवस्थिताः ॥ 1 ॥
ततःप्रवृत्तंसुमहत्तद्युद्धंरोमहर्षणम् ।
निशाचरैःप्लवंगानांदेवानांदानवैरिव ॥ 2 ॥
वृक्षशूलनिपातैश्चशिलापरिघपातनैः ।
अन्योन्यंमर्दयंतिस्मतदाकपिनिशाचराः ॥ 3 ॥
शक्तिखडगगदाकुंतैस्तोमरैश्चनिशाचराः ।
पट्टसैर्भिंढिपालैश्चबाणपातैःसमंततः ॥ 4 ॥
पाशमुद्गरदंडैश्चनिखातैश्चापरेस्तथा ।
कदनंकपिसिंहानांचक्रुस्तेरजनीचराः ॥ 5 ॥
बाणौघैरर्दिताश्चापिखरपुत्रेणवानराः ।
संभ्रांतमनसस्सर्वेदुद्रुवुर्भयपीडिताः ॥ 6 ॥
तांदृष्टवाराक्षसास्सर्वेद्रवमाणान्वलीमुखान् ।
नेदुस्तेसिम्हवद्दृष्टाराक्षसाजितकाशिनः ॥ 7 ॥
विद्रवत्सुतदातेषुवानरेषुसमंततः ।
रामस्तान्वारमायासशरवर्षेणराक्षसान् ॥ 8 ॥
रितान्राक्षसांदृष्टवामकराक्षोनिशाचरः ।
क्रोधानलसमाविष्टोवचनंचेदमब्रवीत् ॥ 9 ॥
तिष्ठराम मयासार्धंद्वंद्वयुद्धंददामिते ।
त्याजयिष्यामितेप्राणान् धनुर्मुक्सैशशितैश्शरैः ॥ 10 ॥
यत्तदादंडकारण्येपितरंहतवान्मम ।
तदग्रतःस्वकर्मस्थंदृष्टवारोषोऽभिवर्धते ॥ 11 ॥
दह्यंतेधृशमंगानिदुरात्मन्ममराघव ।
यन्मयासि न दृष्टस्त्वंतस्मिन् कालेमहावने ॥ 12 ॥
दिष्ट्यासिदर्शनंराम ममत्वंप्राप्तवानिह ।
कांक्षितोऽसिक्षुधार्तस्यसिंहस्येवेतरोमृगः ॥ 13 ॥
अद्यमद्बाणवेगेनप्रेतराडिवषयंगतः ।
येत्वयानिहताःशूराःसहतैश्चसमेष्यसि ॥ 14 ॥
बहुनात्रकिमुक्तेनशृणुराम वचोमम ।
पश्यंतुसकलालोकास्त्वा, मांचैवरणाजिरे ॥ 15 ॥
अस्त्रैर्वागदयावापिबाहुभ्यांवामहाहवे ।
अभ्यस्तंयेनवाराम तेनैवयुधिवर्तताम् ॥ 16 ॥
मकराक्ष्वचश्श्रुत्वारामोदशरथात्मजः ।
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ 17 ॥
कत्थसेकिंवृथारक्षो बहून्यसदृशानिते ।
न रणेशक्यतेजेतुंविनायुद्धेनवाग्भलात् ॥ 18 ॥
चतुर्दशसहस्राणिरक्षसांत्वत्पिता च यः ।
त्रिशिरादूषणश्चापिदंडकेनिहतामया ॥ 19 ॥
स्वाशितास्तवमांसेनगृध्रगोमायुवायसाः ।
भविष्यंत्यद्यवैपाप तीक्ष्णतुंडनखांकुराः ॥ 20 ॥
राघवेणैवमुक्तस्तुमकराक्षोमहाबलः ।
बाणौघानमुचत्तस्मैराघवायरणाजिरे ॥ 21 ॥
तान्शरान् शरवर्षेणरामश्चिच्छेदनैकधा ।
निपेतुर्भुवितेछिन्नारुक्मपुंखास्सहस्रशः ॥ 22 ॥
तद्युद्धमभवत्तत्रसमेत्यान्योन्यमोजसा ।
खरराक्षसपुत्रस्यसूनोर्धशरथस्य च ॥ 23 ॥
जीमूतयोरिवाकाशेशब्दोज्यातलयोस्तदा ।
धनुर्मुक्तःस्वनोत्कृष्टश्श्रूयते च रणाजिरे ॥ 24 ॥
देवदानवगंधर्वाःकिन्नराश्चमहोरगाः ।
अंतरिक्षगतास्सर्वेद्रष्टुकामास्तदद्भुतम् ॥ 25 ॥
विद्धमन्योन्यगात्रेषुद्विगुणंवर्धतेपरम् ।
कृतप्रतिकृतान्योन्यंकुरुतांतौरणाजिरे ॥ 26 ॥
राममुक्तांस्तुबाणौघान् राक्षसस्त्वच्छिनद्रणे ।
रक्षोमुक्तांस्तुरामोवैनैकथाप्राच्छिनच्छरैः ॥ 27 ॥
बाणौघैर्विततास्सर्वादिशश्चप्रदिशस्तथा ।
संछन्नावसुधाचैवसमंतान्नप्रकाशते ॥ 28 ॥
तःक्रुद्धोमहाबाहुर्धनुच्शिच्छेदरक्षसः ।
अष्टाभिरथनाराचैस्सूतंविव्याधराघवः ॥ 29 ॥
भित्त्वारथंशरैरामोहत्वाआश्वानपातयत् ।
विरथोवसुधास्थश्चमकराक्षोनिशाचरः ॥ 30 ॥
तत्तिष्ठद्वसुधांरक्षश्शूलंजग्राहपाणिना ।
त्रासनंसर्वभूतानांयुगांताग्निसमप्रभम् ॥ 31 ॥
दुरवापं महच्छूलंरुद्रदत्तंभयंकरम् ।
जाज्वल्यमानमाकाशेसंहारास्त्रमिवापरम् ॥ 32 ॥
यंदृष्टवादेवताःसर्वाभयार्ताविद्रुतादिशः ।
विभ्राम्यतुमहच्छूलंप्रज्वलंतन्निशाचरः ॥ 33 ॥
स क्रोधाप्राहिणोत्तस्मैराघवायमहात्मने ।
तमापतंतंज्वलितंखरपुत्रकराच्च्युतम् ॥ 34 ॥
बाणैत्रिभिराकाशेशूलंचिच्छेदराघवः ।
सच्छन्नोनैकथाशूलोदिव्यहाटकमंडितः ॥ 35 ॥
व्यशीर्यतमहोल्केवरामबाणार्दितोभुवि ।
च्छूलंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ॥ 36 ॥
साधुसावधितिभूतानिव्याहरंतिनभोगताः ।
तंदृष्टवानिहतंशूलंमकराक्षोनिशाचरः ॥ 37 ॥
मुष्टिमुद्यम्यकाकुत्स्थंतिष्ठतिष्ठेतिचाब्रवीत् ।
सःतंदृष्टवाऽपतंतंवैप्रहस्यरघुनंदनः ॥ 38 ॥
पावकास्त्रंततोरामस्संदधेतुशरासने ।
तेनास्त्रणहतंरक्षःकाकुत्थ्सेनतदारणे ॥ 39 ॥
संचिन्नहृदयंतत्रपपात च ममार च ।
दृष्टवातेराक्षसास्सर्वेमकराक्षस्यपातनम् ॥ 40 ॥
लंकामेवप्रधावंतरामबाणभयार्दिताः ।
दशरथनृपसूनुबाणवेगैःरजनिचरंनिहतंखरात्मजंतम् ।
ददृशुरथदेवताःप्रहृष्टागिरिमववज्रहतंक्षितौकीर्णम् ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनाशीतितमस्सर्गः ॥