श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वाधिकशततमस्सर्गः ।
शक्त्याविनिहतन्दृष्टवारावणेनबलीयसा ।
लक्ष्मणंसमरेशूरंरूधिरौघपरिप्लुतम् ॥ 1 ॥
स दत्त्वातुमुलंयुद्धंरावणस्यदुरात्मनः ।
विसृजन्नेवबाणौघान् सुषेणमिदमब्रवीत् ॥ 2 ॥
एषरावणवीर्येणलक्ष्मणःपतितोभुविः ।
सर्पवच्चेष्टतेवीरोभूमौशोकमुदिरीयन् ॥ 3 ॥
शोणितार्द्रमिमंवीरम्प्राणैःप्रियतरम्मम ।
पश्यतोममकाशक्तिर्योद्धुम्पर्याकुलात्मनः ॥ 4 ॥
अ यं स समरश्लाघीभ्रातामेशुभलक्षणः ।
यदिपञ्चत्वमापन्नःप्राणैर्मेकिंसुखेनवा ॥ 5 ॥
लज्जतीवहिवीर्यम्भ्रश्यतीवकराद्धनुः ।
सायकाव्यवसीदन्तिदृष्टिर्भाष्पवशङ्गता ॥ 6 ॥
अवसीदन्तिगात्राणिस्वप्नयानेनृणामिव ।
चिन्तामेवर्ततेतीव्रामुमूर्षापि च जायते ॥ 7 ॥
भ्रातरन्निहतन्दृष्टवारावणेनदुरात्मना ।
विष्टनन्तन्तुदुःखार्तम्मर्मण्यभिहतम्भृशम् ॥ 8 ॥
राघवोभ्रातरन्दृष्टवाप्रियम्प्राणम्बहिश्चरम् ।
दुःखेनमहताविष्टोध्यानशोकपरायणः ॥ 9 ॥
परंविषादमापन्नोविललापाकुलेन्द्रियः ।
भ्रातरन्निहतन्दृष्टवालक्ष्मणंरणपांसुषु ॥ 10 ॥
विजयोऽपिहिमेशूर न प्रियायोपकल्पते ।
अचक्षुर्विषयश्चन्द्रःकाम्प्रीतिञ्जनयिष्यति ॥ 11 ॥
किम्मेयुद्धेनकिम्प्राणैर्युद्धकार्यं न विद्यते ।
यत्रायन्निहतश्शेतेरणमूर्धनिलक्ष्मणः ॥ 12 ॥
यथैवमांवनंयान्तमनुयातिमहाद्युतिः ।
अहमप्युपयास्यामितथैवैनंयमक्षयम् ॥ 13 ॥
इष्टबन्धुजनोनित्यम्मां स नित्यमनुव्रतः ।
इमामवस्थाङ्गमितोराक्षसैःकूटयोधिभिः ॥ 14 ॥
देशेदेशेकलत्राणिदेशेदेशे च बान्दवाः ।
तन्तुदेशं न पश्यामियत्रभ्रातासहोदरः ॥ 15 ॥
इत्येवंविलपन्तन्तंशोकविह्वलितेद्रनियम् ।
विवेष्टमानङ्करुणमच्छवसन्तम्पुनःपुनः ॥ 16 ॥
राममाश्वासयनवीरसुषेनोवाक्यमब्रवीत किनुराज्येनदुर्धर्षलक्ष्मणेनविनामम ।
कथंवक्ष्याम्यहन्त्वम्बांसुमित्राम्पुत्रवत्सलाम् ॥ 17 ॥
न मृथोयम्महाबाहो लक्ष्मणोलक्षमिवर्धनः ।
न चास्यविक्रतंवक्त्रानापिशस्वासं न निष्प्रभम् ॥ 18 ॥
सुप्रभंसुप्रसन्नं च मुखमस्यनिरीक्ष्यताम् ॥ 19 ॥
पद्मपत्रतलौहस्तौसुप्रसन्ने च लोचने ।
ऐ वं न विद्यतेरूपङ्गतासूनांविशम्पते ॥ 20 ॥
माविषादम्मृकृथावीरसप्राणोऽयमरिन्दम ।
आ ख्यासतितुप्रसुप्तस्यस्रस्तगात्रस्यभूतले ॥ 21 ॥
सोच्छवासंहृदयंवीरकम्पमानम्मुहुर्मुहुः ।
एवमुक्त्वामहाप्राज्ञःसुषेणोराघवंवचः ॥ 22 ॥
समीपस्थमुवाचेदंहनूमन्तम्महाकपिम् ।
सौम्य शीघ्रमितोगत्वाशैलमौषधिपर्वतम् ॥ 23 ॥
पूर्वन्तुकथितोयोऽसौवीर जाम्बवताशुभः ।
दक्षिणेशिखरेजातामोषधिमानय ॥ 24 ॥
सवर्णकरणीन्नाम्नासावर्ण्यकरणीन्तथा ।
सञ्जीवकरणींवीरसन्धानीं च महौषधीम् ॥ 25 ॥
सञ्जीवनार्धंवीरस्यलक्ष्मणस्यमहात्मनः ।
इत्येवमुक्तोहनुमान्गत्वाचौषथिपर्वतम् ॥ 26 ॥
चिन्तामभ्यगमछ्रचीमानजानं स्ता महौषधीः ।
तस्यबुद्धिः समुत्पन्नामारुतेरमितौजसः ॥ 27 ॥
इदमेवगमिष्यामिगृहीत्वाशिखरङ्गिरेः ।
अस्मिंस्तुशिखरेजातामोषधिन्तांसुखावहाम् ॥ 28 ॥
प्रतर्केणावगच्छामिसुषेणोह्यवमब्रवीत् ।
अगृह्ययदिगच्छामिविशल्यकरणीमहम् ॥ 29 ॥
कालात्ययेनदोषःस्याद्वैक्लब्यं च महद्भवेत् ।
इतिसञ्चिन्त्यहनूमान्गत्वाक्षिप्रम्महाबलः ॥ 30 ॥
आसाद्यपर्वतश्रेष्ठम्प्रक्रम्यगिरेश्शिरः ।
फुल्लनानातरुगणंसमुत्पाट्यमहाबलः ॥ 31 ॥
गृहीत्वाहरिशार्दूलोहस्ताभ्यांसमतोलयत् ।
सनीलमिवजीमूतन्तोयपूर्णन्नभस्तलात् ॥ 32 ॥
उत्पपातगृहीत्वातुहनूमान् शिखरङ्गिरेः ।
समागम्यमहावेगःसन्न्यस्यशिखरङ्गिरेः ॥ 33 ॥
विश्रम्यकिञ्चिद्धनुमान्सुषेणमिदमब्रवीत् ।
ओषधीर्नावगच्छामिताअहंहरिपुङ्गव ॥ 34 ॥
तदिदंशिखरङ्कृत्स्नङ्गिरेस्तस्याहृतम्मया ।
एवङ्कथयमानन्तुप्रशस्यपवनात्मजम् ॥ 35 ॥
सुषेणोवानरश्रेष्ठोजग्राहोत्पाट्यचौषधीः ।
विस्मितास्तुबभूवुस्तेसर्वेवानरपुङ्गवाः ॥ 36 ॥
दृष्टवाहनूमतःकर्मसुरैरपिसुदुष्करम् ।
ततःसङ्क्षोदयित्वातामोषधिंवानरोत्तमः ॥ 37 ॥
लक्ष्मणस्यददौनस्तस्सुषेणस्सुमहाद्युतिः ।
विशल्यस्ससमाघ्रायलक्ष्मणःपरवीरहा ॥ 38 ॥
विशल्योविरुजश्शीघ्रमुदतिष्ठन्महीतलात् ।
तमुत्थितन्तुहरयोभूतलात्प्रेक्ष्यलक्ष्मणम् ॥ 39 ॥
साधुसावधितिसुप्रीतालक्ष्मणम्प्रत्यपूजयन् ।
एह्येहीत्यब्रवीद्रामोलक्ष्मणम्परवीरहा ॥ 40 ॥
सस्वजेस्नेहगाढं च बाष्पपर्याकुलेक्षणः ।
ब्रवीच्छपरिष्वज्यसौमित्रिंराघवस्तदा ॥ 41 ॥
दिष्ट्यात्वांवीरपश्यामिमरणात्पुनरागतम् ।
न हिमेजीवितेनार्थस्सीतयाविजयनेवा ॥ 42 ॥
कोहिमेवदतेनार्धस्त्वयिपञ्चत्वमागते ।
इत्येवंवदतस्तस्यराघवस्यमहात्मनः ॥ 43 ॥
भिन्नश्शिथिलयावाचालक्ष्मणोवाक्यमब्रवीत् ।
ताम्प्रतिज्ञाम्प्रतिज्ञायपुरासत्यपराक्रम ॥ 44 ॥
लघुःकश्चिदिवासत्त्वोनैवंवक्तुमिहार्हसि ।
न हिप्रतिज्ञाङ्कुर्वन्तिवितथांसत्यवादिनः ॥ 45 ॥
लक्षणंहिमहत्त्वस्यप्रतिज्ञापरिपालनम् ।
नैराश्यमुपगन्तुं च नालन्तेमत्कृतेऽनघ ॥ 46 ॥
वधेनरावणस्याद्यप्रतिज्ञामनुपालय ।
नजीवन्यास्यतेशत्रुस्तवबाणपथङ्गतः ॥ 47 ॥
नर्दतस्तीक्षणदंष्ट्रस्यसिंहस्येवमहागजः ।
अहन्तुवधमिच्छामिशीघ्रमस्यदुरात्मनः ॥ 48 ॥
यावदस्तं न यात्येषकृतकर्मादिवाकरः ।
यदिवधमिच्छसिरावणस्यसङ्ख्येयदि च कृतांहितवेच्छसिप्रतिज्ञाम् ।
यदितवराजसुताभिलाषआर्यकुरु च वचोममशीघ्रमद्यवीर ॥ 49 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वाधिकशततमस्सर्गः ॥