View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.45 युद्धकाण्ड - पञ्चचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चचत्वारिंशस्सर्गः ।

सतस्यगतिमन्विच्छन्राजपुत्रःप्रतापवान् ।
दिदेशातिबलोरामोदशवानरयूथपान् ॥ 1 ॥

द्वौसुषेणस्यदायादौनीलञ्चप्लवगर्षपम् ।
अङ्गदंवालिपुत्रञ्चशरभञ्चतरस्विनम् ॥ 2 ॥

विनतञ्जाम्बवन्तञ्चसानुप्रस्थम्महाबलम् ।
ऋषभञ्चर्षभस्कन्थमादिदेशपरन्तपः ॥ 3 ॥

तेसम्प्रहृष्टाहरयोभीमानुद्यम्यपादपान् ।
आकाशंविविशुस्सर्वेमार्गमाणादिशोदशः ॥ 4 ॥

तेषांवेगवतांवेगमिषुभिर्वेगवत्तरैः ।
अस्त्रवित्परमास्तैरैस्तुवारयामासरावणिः ॥ 5 ॥

तम्भीममार्गमाणादिशोदशःवेगाहरयोनाराचैःक्षतविग्रहाः ।
अन्धकारेनददृशुर्मेघैस्सूर्यमिवावृतम् ॥ 6 ॥

रामलक्ष्मणयोरेवसर्वदेहभिदश्शरान् ।
भृशमावेशयामासरावणिस्समितिञ्जयः ॥ 7 ॥

निरन्तरशीरीरौतुतावुभौरामलक्ष्मणौ ।
क्रुद्धेनेन्द्रजितावीरौपन्नगैश्शरताङ्गतैः ॥ 8 ॥

तयोःक्षतजमार्गेणसुस्रावरुधिरम्बहु ।
तावुभौचप्रकाशेतेपुष्पिताविवकिंशुकौ ॥ 9 ॥

ततःपर्यन्तरक्ताक्षोभिन्नाञ्जनचयोपमः ।
रावणिर्भ्रातरौवाक्यमन्तर्धानगतोऽब्रवीत् ॥ 10 ॥

युध्यमानमनालक्षयंशक्रोऽपित्रिदशेश्वरः ।
द्रष्टुमासादितुंवापिनशक्तःकिम्पुनर्युवाम् ॥ 11 ॥

प्रावृताविषुजालेनराघवौकङ्कपत्रिणा ।
एषरोषपरीतात्मानयामियमसादनम् ॥ 12 ॥

एवमुक्त्वातुधर्मज्ञौभ्रातरौरामलक्ष्मणौ ।
निर्बिभेदशितैर्बाणैःप्रजहर्षननादच ॥ 13 ॥

भिन्नाञ्जनचयश्यामोविष्फार्यविपुलन्धनुः ।
भूयोभूयश्शरान्घोरान् विससर्जमहामृथे ॥ 14 ॥

ततोमर्मसुमर्मज्ञोमज्जयननिशितान् शरान् ।
रामलक्ष्मणयोर्वीरोननदाचमुहुर्मुहुः ॥ 15 ॥

बद्धौतुशरशब्देनतावुभौरणमूर्धनि ।
निमेषान्तरमात्रेणनशेकतुदीक्षितुम् ॥ 16 ॥

ततोविभिन्नसर्वाङ्गौशरशल्याचितावुभौ ।
ध्वजाविवमहेन्द्रस्यरज्जुमुक्तौप्रकम्पितौ ॥ 17 ॥

तौसम्प्रचलितौवीरौमर्मभेदेनकर्शितौ ।
निपेततुर्महेष्वासौजगत्याञ्जगतीपती ॥ 18 ॥

तौवीरशयनेवीरौशयानौरुधिरोक्षितौ ।
शरवेष्टितसर्वाङ्गैवार्तौपरमपीडितौ ॥ 19 ॥

न ह्य् अविद्धं तयोर् गात्रं बभूव अन्गुलं अन्तरम् ।
न अनिर्भिन्नं न च अस्तब्धं आ कर अग्राद् अजिह्मगैः ॥ 20 ॥

तौतुक्रूरेणनिहतौरक्षसाकामरूपिणा ।
असृक्सुस्रुवतुस्तीव्रञ्जलम्प्रस्रवणाविव ॥ 21 ॥

पपातप्रथमंरामोविद्धोमर्मसुमार्गणैः ।
क्रोधादिन्द्रजितायेनपुराशक्रोविनिर्जितः ॥ 22 ॥

रुक्मपुङ्खैःप्रसन्नाग्रैरधोगतिभिराशुगैः ।
नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ॥ 23 ॥

विव्याधवत्सदन्तैश्चसिंहदंष्ट्रैःक्षुरैस्तथा ।
सवीरशयनेशिश्येविज्यमादायकार्मुकम् ॥ 24 ॥

भिन्नमुष्टिपरीणाहन्त्रिणतंरुक्मभूषितम् ।
बाणपातान्तरेरामम्पतितम्पुरुषर्षभम् ॥ 25 ॥

सतत्रलक्ष्मणोदृष्टवानिराशोजीवितेऽभवत् ।
रामङ्कमलपत्राक्षंशरबन्धपरिक्षतम् ॥ 26 ॥

शुशोचभ्रातरन्दृष्टवापतितन्धरणीतले ।
हरयश्चापितन्दृष्टवासन्तापम्परमङ्गताः ॥ 27 ॥

शोकार्ताश्चुक्रशुर्घोरमश्रुपूरितलोचनाः ।
बद्धौतुवीरौपतितौशयानौतेवानरास्सम्परिवार्यतस्थुः ।
समागतावायुसुतप्रमुख्याविषादमार्ताःपरमञ्चजग्मुः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशस्सर्गः ॥




Browse Related Categories: