View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.61 युद्धकाण्ड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकषष्टितमस्सर्गः ।

ततोरामोमहातेजाधनुरादायवीर्यवान् ।
किरीटिनम्महाकायङ्कुम्भकर्णन्ददर्श ह ॥ 1 ॥

तन्दृष्टवाराक्षसश्रेष्ठम्पर्वताकारदर्शनम् ।
क्रममाणमिवाकाशम्पुरानारायणम्प्रभुम् ॥ 2 ॥

सतोयाम्बुदसङ्काशङ्काञ्चनाङ्गदभूषणम् ।
दृष्टवापुनःप्रदुद्रवावानराणाम्महाचमूः ॥ 3 ॥

विद्रुतांवाहिनीन्दृष्टवावर्धमानं च राक्षसम् ।
सविस्मयमिदंरामोविभीषणमुवाच ह ॥ 4 ॥

कोऽसौपर्वतसङ्काशःकिरीटीहरिलोचनः ।
लङ्कायान्दृश्यतेवीरःसविद्युदिवतोयदः ॥ 5 ॥

पृथिव्याङ्केतुभूतोऽसौमहानेकोऽत्रदृश्यते ।
यन्दृष्टवावानरास्सर्वेविद्रवन्तिततस्ततः ॥ 6 ॥

आचक्षवसुमहान् कोऽसौरक्षोवायदिवाऽसुरः ।
न मयैवंविधम्भूतन्दृष्टपूर्वङ्कदाचन ॥ 7 ॥

सम्पृष्टोराजपुत्रेणरामेणाक्लिष्टकर्मणा ।
विभीषणोमहाप्राज्ञःकाकुत्थ्समिदमब्रवीत् ॥ 8 ॥

येनवैवस्वतोयुद्धेवासवश्चपराजितः ।
सैषविश्रवसःपुत्रःकुम्भकर्णःप्रतापवान् ॥ 9 ॥

अस्यप्रमाणसदृशोराक्षसाऽन्यो न विद्यते ।
एतेनदेवायुधिदानवाश्चयक्षाभुजङ्गाःपिशिताशनाश्च ।
गन्धर्वविद्याधरकिन्नरैश्चसहस्रशोराघवसम्प्रभग्नाः ॥ 10 ॥

शूलपाणिंविरूपाक्षङ्कुम्भकर्णम्महाबलम् ।
हन्तुं न शेकुस्त्रिदशाःकालोऽयमितिमोहिताः ॥ 11 ॥

प्रकृत्याह्येषतेजस्वीकुम्भकर्णोमहाबलः ।
अन्येषांराक्षसेन्द्राणांवरदानकृतम्बलम् ॥ 12 ॥

एतेनजातमात्रेणक्षुधार्तेनमहात्मना ।
भक्षितानिसहस्राणिसत्त्वानांसुबहून्यपि ॥ 13 ॥

तेषुसम्भक्षयमाणेषुप्रजाभयनिपीडिताः ।
यान्तिस्मशरणंशक्रन्तमप्यर्थन्न्यवेदयन् ॥ 14 ॥

सकुन्भकर्णङ्कुपितोमहेन्द्रोजघानवज्रेणशितेनवज्री ।
सशक्रवज्राभिहतोमहात्माचचालकोपाच्चभृशन्ननाद ॥ 15 ॥

तस्यनानद्यमानस्यकुम्भकर्णस्यरक्षसः ।
श्रुत्वानिनादंवित्रस्ताःभूमिभूयोवितत्रसे ॥ 16 ॥

तत्रकोपान्महेन्द्रस्यकुम्भकर्णोमहाबलः ।
विकृष्यैरावताद्धन्तञ्जघानोरसिवासवम् ॥ 17 ॥

कुम्भकर्णप्रहारार्तोविजज्वाल स वासवः ।
ततोविषेदुस्सहसादेवाब्रह्मर्षिदानवाः ॥ 18 ॥

प्रजाभिस्सहशक्रश्चययौस्थानंस्वयम्भुवः ।
कुम्भकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः ॥ 19 ॥

प्रजानाम्भक्षणञ्चापिधर्षणं च दिवौकसाम् ।
आश्रमध्वंसनञ्चापिपरस्त्रीहरणम्भृशम् ॥ 20 ॥

एवम्प्रजायदित्वेषभक्षयिष्यतिनित्यशः ।
अचिरेणैवकालेनशून्योलोकोभविष्यति ॥ 21 ॥

वासवस्यवचश्श्रुत्वासर्वलोकपितामहः ।
रक्षांस्यावाहयामासकुम्भकर्णन्ददर्श ह ॥ 22 ॥

कुम्भकर्णंसमीक्ष्यैववितत्रासप्रजापतिः ।
दृष्टवाविश्वास्यचैवैनंस्वयम्भूरिदमब्रवीत् ॥ 23 ॥

ध्रुवंलोकविनाशायपौलस्त्येनासिनिर्मितः ।
तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे ॥ 24 ॥

ब्रह्मशापाभिभूतोऽथनिपपाताग्रतःप्रभोः ।
ततःपरमसम्भ्रान्तोरावणोवाक्यमब्रवीत् ॥ 25 ॥

विवृद्धःकाञ्चनोवृक्षःफलकालेनिकृत्यते ।
न नप्तारंस्वकन्न्यायंशप्तुमेवम्प्रजापते ॥ 26 ॥

न मिथ्यावचनश्चत्वंस्वप्स्यत्येष न संशयः ।
कालस्तुक्रियतामस्यशयनेजागरेतथा ॥ 27 ॥

रावणस्यवचश्श्रुत्वास्वयम्भूरिदमब्रवीत् ।
शयिताह्येषषण्मासानेकाहञ्जागरिष्यति ॥ 28 ॥

एकेनाह्ना त्वसौ वीरश्च रन् भूमिं बुभुक्षितः ।
व्यात्तास्यो भक्षयेल्लोकान् सम्वृद्ध इव पावकः ॥ 29 ॥

सोऽसौव्यसमापन्नःकुम्भकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्चराजासम्प्रतिरावणः ॥ 30 ॥

स एषनिर्गतोवीरःशिबिराद्भीमविक्रमः ।
वानरान्भृशसङ्कृद्धोभक्षयन्परिधावति ॥ 31 ॥

कुम्भकर्णंसमीक्ष्यैवहरयोऽद्यप्रविद्रुतुः ।
कथमेनंरणेक्रुद्धंवारयिष्यन्तिवानराः ॥ 32 ॥

उच्यन्तांवानराःसर्वेयन्त्रमेतत्समुच्छ्रितम् ।
इतिविज्ञायहरयोभविष्यन्तीहनिर्भयाः ॥ 33 ॥

विभीषणवचश्श्रुत्वाहेतुमत्सुमुखेरितम् ।
उवाचराघवोवाक्यन्नीलंसेनापतिन्तदा ॥ 34 ॥

गच्छसैन्यानिसर्वाणिव्यूह्यतिष्ठस्वपावके ।
द्वाराण्यादायलङ्कायाश्चर्याश्चाप्यथसङ्क्रमान् ॥ 35 ॥

शैलशृङ्गाणिवृक्षांश्चशिलाश्चाप्युपसंहर ।
तिष्ठन्तुसायुधास्सर्वेसायुधाश्शैलपाणयः ॥ 36 ॥

राघवेणसमादिष्टोनीलोहरिचमूपतिः ।
शशासवानरानीकंयथावत्कपिकुञ्जरः ॥ 37 ॥

ततोगवाक्षश्शरभोहनूमानङ्गदस्तथा ।
शैलशृङ्गाणिशैलाभागृहीत्वाद्वारमभ्ययुः ॥ 38 ॥

रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।
पादपैरर्दयवनीरावानराःपरवाहिनीम् ॥ 39 ॥

ततोहरीणान्तदनीकमुग्रंरराजशैलोद्यतदीप्तहस्तम् ।
गिरेःसमीपानुगतंयथैवहन्महाम्भोधरजालमुग्रम् ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकषष्टितमस्सर्गः ॥




Browse Related Categories: