श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुःषष्टितमस्सर्गः ।
तदुक्तमतिकायस्यबलिनोबाहुशालिनः ।
कुम्भकर्णस्यवचनंश्रुत्वोवाचमहोदरः ॥ 1 ॥
कुम्भकर्णकुलेजातोधृष्टःप्राकृतदर्शनः ।
अवलिप्तो न शक्नोषिकृत्यंसर्वत्रवेदितुम् ॥ 2 ॥
स्थानंवृद्धिं च हानि च देशकालविभागवित् ।
आत्मनश्चपरेषां च बुध्यतेराक्षसर्षभः ॥ 3 ॥
यत्तुशक्यम्बलवताकर्तुम्प्राकृतबुद्धिना ।
अनुपासितवृद्धेनकःकुर्यात्तादृशन्नरः ॥ 4 ॥
यांस्तुधर्मार्थकामांस्त्वम्ब्रवीषिपृथगाश्रयान् ।
अवबोद्धुंस्वभावेतान्नहिलक्षणमस्तितान् ॥ 5 ॥
कर्मचैवहिसर्वेषाङ्कारणानाम्प्रयोजकम् ।
श्रेयःपापीयसाञ्चात्रफलम्भवतिकर्मणाम् ॥ 6 ॥
निश्श्रेयसफलावेवधर्मार्थावितरावपि ।
अधर्मानर्थयोःप्राप्तिःफलं च प्रत्यवायिकम् ॥ 7 ॥
ऐहलौकिकपारक्यङ्कर्मपुम्भिर्निषेव्यते ।
कर्माण्यपितुकल्यानिलभतेकाममास्थितः ॥ 8 ॥
तत्रक्लुप्तमिदंराज्ञाहृदिकार्यम्मतं च नः ।
शत्रौहिसाहसंयत्स्यात्किमिवात्रापनीयते ॥ 9 ॥
एकस्यैवाभियानेतुहेतुर्यःकथितस्त्वया ।
तत्राप्यनुपपन्नन्तेवक्ष्यामियदसाधु च ॥ 10 ॥
येनपूर्वञ्जनस्थानेबहवोऽतिबलाहताः ।
राक्षसाराघवन्तन्त्वङ्कथमेकोजयिष्यसि ॥ 11 ॥
येपुरानिर्जितास्तेनजनस्थानेमहौजसः ।
राक्षसांस्तान्पुरेसर्वान्भीतानद्यापिपश्यसि ॥ 12 ॥
तंसिंहमिवसङ्क्रुद्धंरामन्दशरथात्मजम् ।
सर्पंसुप्तमिवबुद्ध्यप्रबोधयितुमिच्छसि ॥ 13 ॥
ज्वलन्तन्तेजसानित्यङ्क्रोधेन च दुरासदम् ।
कस्तम्मृत्युमिवासह्यमासादयितुमर्हति ॥ 14 ॥
संशयस्थमिदंसर्वंशत्रोःप्रतिसमासने ।
एकस्यगमनन्तत्र न हिमेरोचतेभृशम् ॥ 15 ॥
हीनार्थस्तुसमृद्धार्थङ्कोरिपुम्प्राकृतंयथा ।
निश्चित्यजीवितत्यागेवशमानेतुमिच्छति ॥ 16 ॥
यस्यनास्तिमनुष्येषुसदृशोराक्षसोत्तम ।
कथमाशंससेयोद्धुन्तुल्येनेन्द्रविवस्वतोः ॥ 17 ॥
एवमुक्त्वातुसम्रब्दःकुम्भकर्णम्महोदरः ।
उवाचरक्षसाम्मध्येरावणंलोकरावणम् ॥ 18 ॥
लब्ध्वापुनस्त्वंवैदेहीङ्किमर्थंसम्प्रजल्पसि ।
यदीच्छसितदासीतावशगातेभविष्यति ॥ 19 ॥
दृष्टःकश्चदुपायोमेसीतोपस्थानकारकः ।
रुचितश्चेत्स्वयाबुध्याराक्षसेन्द्र तंशृणु ॥ 20 ॥
अहन्द्विजिह्वस्सम्ह्रादीकुम्भकर्णोवितर्दनः ।
पञ्चरामवधायैतेनिर्यान्त्वित्यवघोषय ॥ 21 ॥
ततोगत्वावयंयुद्धन्दास्यामस्तस्ययत्नतः ।
जेष्यामोयदितेशत्रून्नोपायैःकृत्यमस्तिनः ॥ 22 ॥
अथजीवतिनश्शत्रुर्वयं च कृतसम्युगाः ।
ततस्तदभिपत्स्यामोमनसायत्समीक्षितम् ॥ 23 ॥
वयंयुद्धादिहेष्यामोरुधिरेणसमुक्षिताः ।
विदार्यस्वतनुम्बाणैरामनामाङ्कितैश्शितैः ॥ 24 ॥
भक्षितोराघवोऽस्माभिर्लक्ष्मणश्चेतिवादिनः ।
तवपादौग्रहीष्यामस्त्वन्नःकामम्प्रपूरय ॥ 25 ॥
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ।
तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥ 26 ॥
प्रीतोनामततोभूत्वाभृत्यानान्त्वमरिन्दम ।
भोगांश्चपरिवारांश्चकामांश्चवसुदापय ॥ 27 ॥
ततोमाल्यानिवासांसिवीराणामनुलेपनम् ।
पेयं च बहुयोधेभ्यस्स्वयं च मुदितःपिब ॥ 28 ॥
ततोऽस्मिन् बहुलीभूतेकौलीनेसर्वतोगते ।
भक्षितस्ससुहृद्रामोराक्षसैरितिविश्रुते ॥ 29 ॥
प्रविश्याश्वास्यचापित्वंसीतांरहसिसान्त्वय ।
धनधान्यैश्चकामैश्चरत्नैश्चानाम्प्रलोभय ॥ 30 ॥
अनयोपधयाराजन् भयशोकानुबन्धया ।
अकामात्वद्वशंसीतानष्टनाथाभविष्यति ॥ 31 ॥
ञ्जनीयम्हिभर्तारंविनष्टमवगम्यसा ।
नैराश्यात् स्त्रीलघुत्वाच्चत्वद्वशम्प्रतिपत्स्यते ॥ 32 ॥
सापुरासुखसम्वृद्धासुखार्हादुःखकर्शिता ।
त्वय्यधीनंसुखञ्ज्ञात्वासर्वथोगमिष्यति ॥ 33 ॥
एतत्सुनीतम्ममदर्शनेनरामंहिदृष्टवैभवेदनर्धः ।
इहैवतेसेत्स्यतिमोत्सुकोभूर्महानयुद्धेनसुखस्यलाभः ॥ 34 ॥
अदृष्टसैन्योह्यनवाप्तसंशयोरिपूनयुद्धेनजयन् जनाधिप ।
यशश्चपुण्यं च महन्महीपतेश्रशियं च कीर्तिं च चिरम् ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुःषष्टितमस्सर्गः ॥