श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्विसप्ततितमस्सर्गः ।
अतिकायंहतंश्रुत्वालक्ष्मणेनमहौजसा ।
उद्वेगमगमद्राजावचनञ्चेदमब्रवीत् ॥ 1 ॥
धूम्राक्षःपरमामर्षीधन्वीशस्त्रभृतांवरः ।
अकम्पनःप्रहस्तश्चकुम्भुकर्णस्तथैव च ॥ 2 ॥
एतेमहाबलावीराराक्षसायुद्धकाङ्क्षिणः ।
जेतारःपरसैन्यानाम्परैर्नित्यापराजिताः ॥ 3 ॥
निहतास्तेमहावीर्यारामेणाक्लिष्टकर्मणा ।
राक्षसास्सुमहाकायानानाशस्त्रविशारदाः ॥ 4 ॥
अन्ये च बहवश्शूरामहात्मानोनिपातिताः ।
प्रख्यातबलवीर्येणपुत्रेणेन्द्रजितामम ॥ 5 ॥
यौहितौभ्रातरौतदावीरौबद्धौदत्तवरैश्शरैः ।
यन्नशक्यंसुरैस्सर्वैरसुरैर्वामहाबलैः ॥ 6 ॥
मोक्तुन्तद्बन्धनङ्घोरंयक्षगन्धर्वकिन्नरैः ।
तन्नजानेप्रभावैर्वामाययामोहनेनवा ॥ 7 ॥
शरबन्धाद्विमुक्तौतौभ्रातरौरामलक्ष्मणौ ।
येयोधानिर्गताश्शूराराक्षसाममशासनात् ॥ 8 ॥
तेसर्वेनिहतायुद्धेवानरैस्सुमहाबलैः ।
तम्नपश्याम्यहंयुद्धेयोऽद्यरामंसलक्ष्मणम् ॥ 9 ॥
शासयेत्सबलंवीरंससुग्रीवविभीषणम् ।
अहोसुबलवान् रामोमहदस्त्रबलं च वै ॥ 10 ॥
यस्यविक्रममासाद्यराक्षसानिधनङ्गताः ।
अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ॥ 11 ॥
अशोकवनिकायाञ्चयत्रसीताऽभिरक्ष्यते ।
निष्क्रामोवाप्रवेशोवाज्ञातव्यस्सर्वदैवनः ॥ 12 ॥
यत्रयत्रभवेद्गुल्मस्तत्रतत्रपुनःपुनः ।
सर्वतश्चापितिष्ठध्वंस्स्वैः परिवृताबलैः ॥ 13 ॥
द्रष्टव्यं च पदन्तेषांवानराणान्निशाचराः ।
प्रदोषेवार्धरात्रेवाप्रत्यूषेवापिसर्वत ॥ 14 ॥
नावज्ञातेषुकर्तव्यावानरेषुकदाचन ।
द्विषताम्बलमुद्युक्तमापतकतिंस्थितंसदा ॥ 15 ॥
ततस्तेराक्षसास्सर्वेश्रुत्वालङ्काधिपस्यतत् ।
वचनंसर्वमातिष्ठन् यथावत्तुमहाबलाः ॥ 16 ॥
स तान् सर्वान् हिसन्दिश्यरावणोराक्षसाधिपः ।
मन्युशल्यंवहन् दीनःप्रविवेशस्वमालयम् ॥ 17 ॥
ततस्ससन्दीपितकोपह्निर्निशाचराणामधिपोमहाबलः ।
तदेवपुत्रव्यसनंविचिन्तयन्मुहुर्मुहुश्चैवतदाव्यनिश्श्वसत् ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्विसप्ततितमस्सर्गः ॥