View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.73 युद्धकाण्ड - त्रिसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिसप्ततितमस्सर्गः ।

ततोहतान्राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्रहतावशिष्टास्तेरावणायत्वरिताश्शशंसुः ॥ 1 ॥

ततोहतांस्तान् सहसानिशम्यराजामुमोहपरिप्लुताक्षः ।
पुत्रक्षयम्भ्रातृवधं च घोरंविचिन्त्यराजाविपुलम्प्रदध्यौ ॥ 2 ॥

ततस्तुराजानमुदीक्ष्यदीनंशोकार्णवेसम्परिपुप्लुवानम् ।
रथर्षभोराक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदम्बभाषे ॥ 3 ॥

न तात मोहम्परिगन्तुमर्हसियत्रेन्द्रजिजजीवतिराक्षसेन्द्र ।
नेन्द्रारिबाणाभिहतोहिकश्चित्प्राणान् समर्थस्समरेऽभिपातुम् ॥ 4 ॥

पश्याद्यरामंसहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषम्भूमितलेशयानंशितैश्शरैराचितसर्वगात्रम् ॥ 5 ॥

इमाम्प्रतिज्ञांशृणुशक्रशत्रोःसुनिश्चिताम्पौरुषदैवयुक्ताम् ।
अद्यैवरामंसहलक्ष्मणेनसन्तर्पयिष्यामिशरैरमोघैः ॥ 6 ॥

अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्चवैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तुमेविक्रममप्रमेयंविष्णोरिवोग्रम्बलियज्ञवाटे ॥ 7 ॥

स एवमुक्त्वात्रिदशेन्द्रशत्रुरापृच्छयराजानमदीनसत्त्वः ।
समारुरोहानितुल्यवेगंरथङ्खरश्रेष्ठसमाधियुक्तम् ॥ 8 ॥

तमास्थायमहातेजारथंहरिरथोपमम् ।
जगामसहसातत्रयत्रयुद्धमरिन्दमः ॥ 9 ॥

तम्प्रस्थितम्महात्मानमनुजग्मुर्महाबलाः ।
सम्हर्षमाणाबहनोधनुष्प्रवरपाणयः ॥ 10 ॥

गजस्कन्धगताःकेचित्केचित्प्रवरवाजिभिः ।
व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजङ्गमैः ॥ 11 ॥

वराहैश्श्वापदैस्सिंहैर्जम्बुकैःपर्वतोपमैः ।
काकहंसमयूरैश्चराक्षसाभीमविक्रमाः ॥ 12 ॥

प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः ।
भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधा ॥ 13 ॥

स शङ्खनिनदैःपूर्णैर्भेरीणाञ्चापिनिस्स्वनैः ।
जगामत्रिदशेन्द्रास्तूयमानोनिशाचरैः ॥ 14 ॥

स शङ्खशशिवर्णेनछत्रेणरिपुसूदनः ।
रराजप्रतिपूर्णेननभश्चन्द्रमसायथा ॥ 15 ॥

अवीज्यतततोवीरोहैमैर्हेमविभूषितैः ।
चारुचामरमुख्यैश्चमुख्यस्सर्वधनुष्मताम् ॥ 16 ॥

स तुदृष्टवाविनिर्यान्तम्बलेनमहातावृतम् ।
राक्षसाधिपतिश्रशीमान् रावणःपुत्रमब्रवीत् ॥ 17 ॥

त्वमप्रतिरथःपुत्रत्वयावैवासवोजितः ।
किम्पुनर्मानुषन्धृष्यन्निहनिष्यसिराघवम् ॥ 18 ॥

तथोक्तोराक्षसेन्द्रेणप्रत्यगृह्णान्महाशिषः ।
तस्त्विन्द्रजितालङ्कासूर्यप्रतिमतेजसा ॥ 19 ॥

रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता ।
सम्प्राप्यमहातेजायुद्धभूमिमरिन्दमः ॥ 20 ॥

स्थापयामासरक्षांसिरथम्प्रतिसमन्ततः ।
ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः ॥ 21 ॥

जुहावराक्षसश्रेष्ठोमन्त्रवद्विधिवत्तदा ।
सहविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः ॥ 22 ॥

जुहुवेपावकन्तत्रराक्षनेन्द्रःप्रतापवान् ।
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ॥ 23 ॥

लोहितानि च वासांसिस्रुवङ्कार्ष्णायसन्तथा ।
सतत्राग्निंसमास्तीर्यशरपत्रैस्सतोमरैः ॥ 24 ॥

हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ।
सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ॥ 25 ॥

हविस्तत्प्रतिजग्राहपावकस्स्वयमास्थितः ।
सोऽस्त्रमाहारयामासब्राह्ममिन्द्ररिपुस्तदा ॥ 26 ॥

धनुश्चात्मरथञ्चैवसर्वन्तत्राभ्यमन्त्रयत् ।
तस्मिन्नाहूयमानेस्त्रेहूयमाने च पावके ॥ 27 ॥

सार्धङ्ग्रहेन्दुनक्षत्रैर्वितत्रासनभस्थ्सलम् ।
स पावकम्पावकदीप्ततेजाहुत्वामहेन्द्रप्रतिमप्रभावः ।
स चापबाणासिरथाश्वसूतःखेऽन्तर्दधेऽत्मानमचिन्त्यरूपः ॥ 28 ॥

ततोहयरथाकीर्णम्पताकाध्वजशोभितम् ।
निर्ययौराक्षसबलन्नर्दमानंययुत्सया ॥ 29 ॥

तेशरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः ।
तोमरैरङ्कुशैश्चापिवानरान् जघ्नुराहवे ॥ 30 ॥

रावणिस्तुततस्सङ्कृद्धस्तान्निरीक्ष्यनिशाचरान् ।
हृष्टाभवन्तोयुध्यन्तुवानराणाञ्जिघांसया ॥ 31 ॥

ततस्तेराक्षसास्सर्वेनर्धन्तोजयकाङ्क्षिणः ।
अभ्यवर्षंस्ततोघोरान्वानरान् शरवृष्टिभिः ॥ 32 ॥

स तुनालीकनाराचैर्गदाभिर्मुसलैरपि ।
रक्षोभिस्सम्वृतस्सङ्ख्येवानरान् विचकर्त ह ॥ 33 ॥

तेवध्यमानास्समरेवानराःपादपायुधाः ।
अभ्यवर्षन्तसहसारावणिंशैलपादपैः ॥ 34 ॥

इन्द्रजित्तुतदाक्रुद्धोमहातेजामहाबलः ।
वानराणांशरीराणिव्यधमद्रावणात्मजः ॥ 35 ॥

शरेणैकेन च हरीन्नवपञ्च च सप्त च ।
बिभेदसमरेक्रुद्धोराक्षसान् सम्प्रहर्षयन् ॥ 36 ॥

स शरैस्सूर्यसङ्काशैश्शातकुम्भविभूषितैः ।
वानरान् समरेवीरःप्रममाथसुदुर्जयः ॥ 37 ॥

तेभिन्नगात्रास्समरेवानराश्शरपीडिताः ।
पेतुर्मथितसङ्कल्पास्सुरैरिवमहासुराः ॥ 38 ॥

तन्तपन्तमिवादित्यङ्घोरैर्बाणगभस्तिभिः ।
अभ्यधावन्तसङ्कृद्धास्सम्युगेवानरर्षभाः ॥ 39 ॥

ततस्तुवानरास्सर्वेभिन्नदेहाविचेतसः ।
व्यथिताविद्रवन्तिस्मरुधिरेणसमुक्षिताः ॥ 40 ॥

रामस्यार्थेपराक्रम्यवानरास्त्यक्तजीविताः ।
नर्दन्तस्तेऽभिवृत्तास्तुसमरेसशिलायुधाः ॥ 41 ॥

तेद्रुमैःपर्वताग्रैश्चशिलाभिश्चप्लवङ्गमाः ।
अभ्यवर्षन्तसमरेरावणिम्पर्यवस्थिताः ॥ 42 ॥

तद्रुमाणांशिलानां च वर्षम्प्राणहरम्महत् ।
व्यपोहतमहातेजारावणिस्समितिञ्जयः ॥ 43 ॥

ततःपावकसङ्काशैश्शरैराशीविषोपमैः ।
वानराणामनीकानिबिभेदसमरेप्रभुः ॥ 44 ॥

अष्टादशशरैस्तीक्ष्णैस्सविदद्वागन्धमादनम् ।
विव्याथनवभिश्चैवनलन्दूरादवस्थितम् ॥ 45 ॥

सप्तभिस्तुमहावीर्योमैन्दम्मर्मविदारणैः ।
पञ्चभिर्विशिखैश्चैवगजंविव्याथसंयुगे ॥ 46 ॥

जाम्बवन्तन्तुदशभिर्नीलन्त्रिंशद्भिरेव च ।
सुग्रीवमृषभञ्चैवसोऽङ्गदन्द्विविधन्तथा ॥ 47 ॥

घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।
अन्यानपितदामुख्यान्वानरान् बहुभिश्शरैः ॥ 48 ॥

अर्दयामाससङ्कृद्धःकालानगिरिवमूर्छितः ।
सशरैस्सूर्यसङ्काशैस्सुमुक्सैशशीघ्रगामिभिः ॥ 49 ॥

वानराणामनीकानिनिर्ममन्थमहारणे ।
आकुलांवानरींसेनांशरजालेनमोहिताम् ॥ 50 ॥

हृष्टस्सपरयाप्रीत्याददर्शक्षतजोक्षिताम् ।
वानरेवमहातेजाराक्षसेन्द्रात्मजोबली ॥ 51 ॥

संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् ।
ममर्दवानरानीकमिन्द्रजित्त्वरितोबली ॥ 52 ॥

स्वसैन्यमुत्सृज्यसमेत्यतूर्णम्महारणेवानरवाहिनीषु ।
अदृश्यमानश्शरजालमुग्रंववर्षनीलाम्बुधरोयथाम्बु ॥ 53 ॥

तेशक्रजिद्बाणविशीर्णदेहामायाहताविस्वरमुन्नदन्तः ।
रणेनिपेतुर्हरयोऽद्रिकल्पायथेन्द्रवज्राभिहतानगेन्द्राः ॥ 54 ॥

तेकेवलंसन्ददृशुशशिताग्रान्बाणान्रणेवानरवाहिनीषु ।
मायानिगूढन्तुसुरेन्द्रशत्रुं न चावृतंराक्षसमभ्यपश्यन् ॥ 55 ॥

ततस्सरक्षोधिपतिर्महात्मासर्वादिशोबाणगणैशशिताग्रैः ।
प्रच्छादयामासरविप्रकाशैर्विपादयामास च वानरेन्द्रान् ॥ 56 ॥

स शूलनिस्त्रिंशपरश्वधानिव्याविध्यदीप्तानलसन्निभानि ।
सविस्फुलिङ्गोज्ज्वलपावकानिववर्षतीव्रम्प्लवगेन्द्रसैन्ये ॥ 57 ॥

ततोज्वलनसङ्काशैश्शरैर्वानरयूथपाः ।
ताडिताश्शक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः ॥ 58 ॥

तेन्योन्यमभिसर्पन्तोनिनदन्तश्चविस्वरम् ।
राक्षसेन्द्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः ॥ 59 ॥

उदीक्षमाणागगनङ्केचिन्नेत्रेषुताडिताः ।
शरैर्विविशुरन्योन्यम्पेतुश्चजगतीतले ॥ 60 ॥

हनूमन्तं च सुग्रीवमङ्गदङ्गन्धमादनम् ।
जाम्बवन्तंसुषेणं च वेगदर्शिनमेव च ॥ 61 ॥

मैन्दं च द्विविदन्नीलङ्गवाक्षङ्गजगोमुभौ ।
केसरिंहरिलोमानंविद्युद्धंष्ट्रं च वानरम् ॥ 62 ॥

स बाणवर्षैरभिवर्ष्यमाणो ।
धारानिपातानिव तान्विचिन्त्य ।
समीक्षमाणः परमाद्भुतश्री ।
रामस्तदा लक्ष्मणमित्युवाच ॥ 63 ॥

प्रसैश्शूलैश्शितैर्बाणैरिन्द्रजिन्मन्त्रसम्हितैः ।
विव्याधहरिशार्दूलान् सर्वांस्तान्राक्षसोत्तमः ॥ 64 ॥

स वैगदाभिर्हरियूथमुख्यान्निर्भिद्यबाणैस्तपनीयवङ्खैः ।
ववर्षरामंशरवृष्टिजालैस्सलक्ष्मणम्भास्कररमशिकल्पैः ॥ 65 ॥

स बाणवर्षैरभिवृष्यमाणोधारानिपातानिवतानच्नित्य ।
समीक्षमाणःपरमाद्भुतश्रीरामतदालक्ष्मणमित्युवाच ॥ 66 ॥

असौपुनर्लक्ष्मणराक्षसेन्द्रोब्रह्मास्त्रमाश्रित्यसुरेन्द्रशत्रुः ।
निपातयित्वाहरिसैन्यमुग्रमस्मान्शरैरर्दयतिप्रसक्तः ॥ 67 ॥

स्वयम्भुवादत्तवरोमहात्मा ।
समाहितोन्तर्हितभीमकायः ।
कथन्नुशक्योयुधिनष्टदेहोनिहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ 68 ॥

मन्येस्वयम्भुर्भगवानच्नित्योयस्यैतदस्त्रम्प्रभवश्चयोऽस्य ।
बाणावपातास्त्वमिहाद्यधीमन्मयासहाव्यग्रमनास्सहस्व ॥ 69 ॥

प्रच्छादयत्येषहिराक्षसेन्द्रस्सर्वाधिशस्सायकवृष्टिजालैः ।
एतच्चसर्वम्पतिताग्य्रशूरं न भ्राजतेवानरराजसैन्यम् ॥ 70 ॥

आवान्तुदृष्टवापतितौविसञ्ज्ञौनिवृत्तयुद्दौगतरोषहर्षे ।
ध्रुवम्प्रवेक्ष्यत्यमरारिवासमसौसमादायरणाग्रलक्ष्मीम् ॥ 71 ॥

ततस्तुताविन्द्रजिदस्त्रजालैर्भभूवतुस्तत्रतथाविशस्तौ ।
स चापितौतत्रविदर्शयित्वाननादहर्षाद्युधिराक्षसेन्द्रः ॥ 72 ॥

सतत्तदावानरसैन्यमेवंरामं च सङ्ख्येसहलक्ष्मणेन ।
विषादयित्वासहसाविवेशपुरीन्दशग्रीवभुजाभिगुप्ताम् ॥ 73 ॥

सन्स्तूयमानस्सतुयातुधानैः ।
पत्रे च सर्वंहृषितोऽभ्युवाच ॥ 74 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमस्सर्गः ॥




Browse Related Categories: