View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.81 युद्धकांड - एकाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकाशीतितमस्सर्गः ।

विज्ञायतुमनस्तस्यराघवस्यमहात्मनः ।
स निवृत्याहवात्तस्मात् प्रविवेशपुरींततः ॥ 1 ॥

सोऽनुस्मृत्यवधंतेषांराक्षसानांतरस्विनाम् ।
क्रोधताम्रेक्षणश्शूरोनिर्जगामाहाद्युतिः ॥ 2 ॥

स पश्चिमेवद्वारेणनिर्ययौराक्षसैर्वृतः ।
इंद्रजित्सुमहावीर्यःपौलस्त्योदेवकंटकः ॥ 3 ॥

इंद्रजित्तुततोदृष्टवाभ्रातरौरामलक्ष्मणौ ।
रणायाभ्युद्यतौवीरौमायांप्रादुष्करोत्तदा ॥ 4 ॥

इंद्रजित्तुरथेस्थाप्यसीतांमायामयींतदा ।
बलेनमहतावृत्यतस्यावधमरोचयत् ॥ 5 ॥

मोहनार्थंतुसर्वेषांबुद्धिंकृत्वासुदुर्मतिः ।
हंतुंसीतांव्यवसितोवानराभिमुखोययौ ॥ 6 ॥

तम्दृष्टवात्वभिनिर्यांतंसर्वेतेकाननौकसः ।
उत्पेतुरभिसंक्रुद्धाश्शिलाहस्तायुयुत्सवः ॥ 7 ॥

हनूमान् पुरतस्तेषांजगामकपिकुंजरः ।
प्रगृह्यसुमहच्छृंगंपर्वतस्यदुरासदम् ॥ 8 ॥

स ददर्शहतानंदांसीतामिंद्रजितोरथे ।
एकवेणीधरांदीनामुपवासकृशाननाम् ॥ 9 ॥

परिक्लिष्टैकवसनाममृजांराघवप्रियाम् ।
रजोमलाभ्यामालिप्तैस्सर्वगात्रैर्वरस्त्रियम् ॥ 10 ॥

तांनिरीक्ष्यमुहूर्तंतुमैथिलीत्यध्यवस्यतु ।
बभूवाचिरदृष्टाहितेनसाजनकात्मजा ॥ 11 ॥

अब्रवीत्तांतुशोकार्तांनिरानंदांतपस्विनीम् ।
दृष्टवारथोस्थितांदृष्ट्वाराक्षसेंद्रसुतश्रिताम् ॥ 12 ॥

कंसमर्थितमस्येतिचिंतयन्समहाकपिः ।
सहतैर्वानरश्रेष्ठैरभ्यधावतरावणिम् ॥ 13 ॥

तद्वानरबलंदृष्टवारावणिःक्रोधमूर्छितः ।
कृत्वाविकोशंनिस्त्रिंशंमूर्ध्निसीतामकर्षयत् ॥ 14 ॥

तांस्त्रियंपश्यतांतेषांताडयामासरावणिः ।
क्रोशंतींरामरामेतिमाययायोजितांरथे ॥ 15 ॥

गृहीतमूर्धजांदृष्टवाहनुमान् दैन्यमागतः ।
शोकजंवारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ॥ 16 ॥

तांदृष्टवाचारुसर्वांगींरामस्यमहिषींप्रियाम् ।
अब्रवीत्पुरुषंवाक्यंक्रोधाद्रक्षोधिपात्मजम् ॥ 17 ॥

दुरात्मन्नात्मनाशायकेशपक्षेपरामृशः ।
ब्रह्मर्षीणांकुलेजातोराक्षसींयोनिमाश्रितः ॥ 18 ॥

धिक्त्वांपापसमाचारंयस्यतेमतिरिदृशी ।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥ 19 ॥

अनार्यस्येदृशंकर्मघृणातेनास्तिनिर्घृण ।
च्युतागृहाच्चराज्याच्चरामहस्ताच्चमैथिली ॥ 20 ॥

किंतवैषापराद्धाहियदेनांहंतुमिच्छसि ।
सीतांहत्वातु न चिरंजीविष्यसिकथंचन ॥ 21 ॥

वधार्हकर्मणानेनममहस्तगतोह्यसि ।
येच स्त्रीघातिनांलोकालोकवध्यैषुकुसतिताः ॥ 22 ॥

इहजीवितमुत्सृज्यप्रेत्यतान्प्रतिपत्स्यसे ।
तिब्रुवाणोहनुमान् सायुधैर्हरिभिर्वृतः ॥ 23 ॥

अभ्यदावत् ससुंकृद्धोराक्षसेंद्रसुतंप्रति ।
पतंतंमहावीर्यंतदनीकंवनौकसाम् ॥ 24 ॥

रक्षसांभीमकोपानामनीकंतुन्यवारयत् ।
सःतांबाणसहस्रेणविक्षोभ्यहरिवाहिनीम् ॥ 25 ॥

हनूमंतंहरिश्रेष्ठमिंद्रजित् प्रत्युवाच ह ।
सुग्रीवस्त्वं च रामश्चयन्निमित्तमिहागताः ॥ 26 ॥

तांवधिष्यामिवैदेहीमद्यैवतवपश्यतः ।
इमांहत्वाततोरामंलक्ष्मणंत्वां च वानर ॥ 27 ॥

सुग्रीवं च वधिष्यामितंचानार्यंविभीषणम् ।
न हंतव्याःस्त्रियश्चेतियद् ब्रवीषिप्लवंगम ॥ 28 ॥

पीडाकरममित्राणांयत्स्यात्कर्तव्यमेवतत् ।
तमेवमुक्त्वारुदतींसीतांमयामयीं च ताम् ॥ 29 ॥

शितधारेणखंगेननिजघानेंद्रजित्स्वयम् ।
यज्ञोपवीतमार्गेणभिन्नातेनतपस्विनी ॥ 30 ॥

सापृथिव्यांपृथुश्रोणीपपातप्रियदर्शना ।
त्तामिंद्रजित् स्त्रियंहत्वाहनूमंतमुवाच ह ॥ 31 ॥

मयारामस्यपश्येमांकोपेन च ।
एषाविशस्तावैदेहीनिष्फलोवःपरिश्रमः ॥ 32 ॥

ततःखडगेनमहताहत्वातामिंद्रजित् स्वयम् ।
हृष्टस्सरथमास्थायननाद च महास्वनम् ॥ 33 ॥

वानराश्शुश्रुवुश्शब्दमदूरेप्रत्यवस्थिताः ।
व्यादितास्यस्यनदतस्तद्दुर्गंसंश्रितस्यतु ॥ 34 ॥

तथातुसीतांविनिहत्यदुर्मतिःप्रहृष्टचेतास्सबभूवरावणिः ।
तंहृष्टरूपंसमुदीक्ष्यवानराविषण्णरूपास्सहसाप्रददुद्रुवुः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकाशीतितमस्सर्गः ॥




Browse Related Categories: