View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.81 युद्धकाण्ड - एकाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकाशीतितमस्सर्गः ।

विज्ञायतुमनस्तस्यराघवस्यमहात्मनः ।
स निवृत्याहवात्तस्मात् प्रविवेशपुरीन्ततः ॥ 1 ॥

सोऽनुस्मृत्यवधन्तेषांराक्षसानान्तरस्विनाम् ।
क्रोधताम्रेक्षणश्शूरोनिर्जगामाहाद्युतिः ॥ 2 ॥

स पश्चिमेवद्वारेणनिर्ययौराक्षसैर्वृतः ।
इन्द्रजित्सुमहावीर्यःपौलस्त्योदेवकण्टकः ॥ 3 ॥

इन्द्रजित्तुततोदृष्टवाभ्रातरौरामलक्ष्मणौ ।
रणायाभ्युद्यतौवीरौमायाम्प्रादुष्करोत्तदा ॥ 4 ॥

इन्द्रजित्तुरथेस्थाप्यसीताम्मायामयीन्तदा ।
बलेनमहतावृत्यतस्यावधमरोचयत् ॥ 5 ॥

मोहनार्थन्तुसर्वेषाम्बुद्धिङ्कृत्वासुदुर्मतिः ।
हन्तुंसीतांव्यवसितोवानराभिमुखोययौ ॥ 6 ॥

तम्दृष्टवात्वभिनिर्यान्तंसर्वेतेकाननौकसः ।
उत्पेतुरभिसङ्क्रुद्धाश्शिलाहस्तायुयुत्सवः ॥ 7 ॥

हनूमान् पुरतस्तेषाञ्जगामकपिकुञ्जरः ।
प्रगृह्यसुमहच्छृङ्गम्पर्वतस्यदुरासदम् ॥ 8 ॥

स ददर्शहतानन्दांसीतामिन्द्रजितोरथे ।
एकवेणीधरान्दीनामुपवासकृशाननाम् ॥ 9 ॥

परिक्लिष्टैकवसनाममृजांराघवप्रियाम् ।
रजोमलाभ्यामालिप्तैस्सर्वगात्रैर्वरस्त्रियम् ॥ 10 ॥

तान्निरीक्ष्यमुहूर्तन्तुमैथिलीत्यध्यवस्यतु ।
बभूवाचिरदृष्टाहितेनसाजनकात्मजा ॥ 11 ॥

अब्रवीत्तान्तुशोकार्तान्निरानन्दान्तपस्विनीम् ।
दृष्टवारथोस्थितान्दृष्ट्वाराक्षसेन्द्रसुतश्रिताम् ॥ 12 ॥

कंसमर्थितमस्येतिचिन्तयन्समहाकपिः ।
सहतैर्वानरश्रेष्ठैरभ्यधावतरावणिम् ॥ 13 ॥

तद्वानरबलन्दृष्टवारावणिःक्रोधमूर्छितः ।
कृत्वाविकोशन्निस्त्रिंशम्मूर्ध्निसीतामकर्षयत् ॥ 14 ॥

तांस्त्रियम्पश्यतान्तेषान्ताडयामासरावणिः ।
क्रोशन्तींरामरामेतिमाययायोजितांरथे ॥ 15 ॥

गृहीतमूर्धजान्दृष्टवाहनुमान् दैन्यमागतः ।
शोकजंवारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ॥ 16 ॥

तान्दृष्टवाचारुसर्वाङ्गींरामस्यमहिषीम्प्रियाम् ।
अब्रवीत्पुरुषंवाक्यङ्क्रोधाद्रक्षोधिपात्मजम् ॥ 17 ॥

दुरात्मन्नात्मनाशायकेशपक्षेपरामृशः ।
ब्रह्मर्षीणाङ्कुलेजातोराक्षसींयोनिमाश्रितः ॥ 18 ॥

धिक्त्वाम्पापसमाचारंयस्यतेमतिरिदृशी ।
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥ 19 ॥

अनार्यस्येदृशङ्कर्मघृणातेनास्तिनिर्घृण ।
च्युतागृहाच्चराज्याच्चरामहस्ताच्चमैथिली ॥ 20 ॥

किन्तवैषापराद्धाहियदेनांहन्तुमिच्छसि ।
सीतांहत्वातु न चिरञ्जीविष्यसिकथञ्चन ॥ 21 ॥

वधार्हकर्मणानेनममहस्तगतोह्यसि ।
येच स्त्रीघातिनांलोकालोकवध्यैषुकुसतिताः ॥ 22 ॥

इहजीवितमुत्सृज्यप्रेत्यतान्प्रतिपत्स्यसे ।
तिब्रुवाणोहनुमान् सायुधैर्हरिभिर्वृतः ॥ 23 ॥

अभ्यदावत् ससुङ्कृद्धोराक्षसेन्द्रसुतम्प्रति ।
पतन्तम्महावीर्यन्तदनीकंवनौकसाम् ॥ 24 ॥

रक्षसाम्भीमकोपानामनीकन्तुन्यवारयत् ।
सःताम्बाणसहस्रेणविक्षोभ्यहरिवाहिनीम् ॥ 25 ॥

हनूमन्तंहरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह ।
सुग्रीवस्त्वं च रामश्चयन्निमित्तमिहागताः ॥ 26 ॥

तांवधिष्यामिवैदेहीमद्यैवतवपश्यतः ।
इमांहत्वाततोरामंलक्ष्मणन्त्वां च वानर ॥ 27 ॥

सुग्रीवं च वधिष्यामितञ्चानार्यंविभीषणम् ।
न हन्तव्याःस्त्रियश्चेतियद् ब्रवीषिप्लवङ्गम ॥ 28 ॥

पीडाकरममित्राणांयत्स्यात्कर्तव्यमेवतत् ।
तमेवमुक्त्वारुदतींसीताम्मयामयीं च ताम् ॥ 29 ॥

शितधारेणखङ्गेननिजघानेन्द्रजित्स्वयम् ।
यज्ञोपवीतमार्गेणभिन्नातेनतपस्विनी ॥ 30 ॥

सापृथिव्याम्पृथुश्रोणीपपातप्रियदर्शना ।
त्तामिन्द्रजित् स्त्रियंहत्वाहनूमन्तमुवाच ह ॥ 31 ॥

मयारामस्यपश्येमाङ्कोपेन च ।
एषाविशस्तावैदेहीनिष्फलोवःपरिश्रमः ॥ 32 ॥

ततःखडगेनमहताहत्वातामिन्द्रजित् स्वयम् ।
हृष्टस्सरथमास्थायननाद च महास्वनम् ॥ 33 ॥

वानराश्शुश्रुवुश्शब्दमदूरेप्रत्यवस्थिताः ।
व्यादितास्यस्यनदतस्तद्दुर्गंसंश्रितस्यतु ॥ 34 ॥

तथातुसीतांविनिहत्यदुर्मतिःप्रहृष्टचेतास्सबभूवरावणिः ।
तंहृष्टरूपंसमुदीक्ष्यवानराविषण्णरूपास्सहसाप्रददुद्रुवुः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकाशीतितमस्सर्गः ॥




Browse Related Categories: