श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनत्रिंशदधिकशततमस्सर्गः ।
बहूनिनामवर्षाणिगतस्यसुमहद्वनम् ।
शृणोम्यहम्प्रीतिकरम्ममनाथस्यकीर्तनम् ॥ 1 ॥
कल्याणीबतगाथेयंलौकिकीप्रतिभातिमे ।
एतिजीवन्तमानन्दोनरंवर्षशतादपि ॥ 2 ॥
राघवस्यहरीणां च कथमासीत्समागमः ।
कस्मिन् देशेकिमाश्रित्यतत्त्वमाख्याहिपृच्छतः ॥ 3 ॥
स पृष्टोराजपुत्रेणबृश्यांसमुपवेशितः ।
आचचक्षेततस्सर्वंरामस्यचरितंवने ॥ 4 ॥
यथाप्रव्राजितोरामोमातुर्दत्तौवरौतव ।
यथापुत्रशोकेनराजादशरथोमृतः ॥ 5 ॥
यथादूतैस्त्वमानीतस्तूर्णंराजगृहात्प्रभो ।
त्वयायोध्याम्प्रविष्टेनयथाराज्यं न चेप्सितम् ॥ 6 ॥
चित्रकूटगिरिङ्गत्वाराज्येनामित्रकर्शनः ।
निमन्त्रितस्त्वयाभ्राताधर्ममाचरतासताम् ॥ 7 ॥
स्थितेनराज्ञोवचनेयथाराज्यंविसर्जितम् ।
आर्यस्यमादुकेगृह्ययथासिपुनरागतः ।
य ॥ 8 ॥
सर्वमेतन्महाबाहोयथावद्विदितन्तव ।
त्वयिप्रतिप्रयातेतुयद्वृत्तन्तन्निबोधमे ॥ 9 ॥
अपयातेत्वयितदासमुद्भ्रान्तमृगद्विजम् ।
परिध्युईनमिवात्यर्थन्तद्वनंसमपद्यत ॥ 10 ॥
तदथस्तिमृदितङ्घोरंसिंहव्याघ्रमृगाकुलम् ।
प्रविवेशाथविजनं स महद्दण्डकावनम् ॥ 11 ॥
तेषाम्पुरस्ताद्भलवान् गच्छताङ्गहनेवने ।
विनदन् सुमहानादंविराधःप्रत्यदृश्यत ॥ 12 ॥
तमुत्क्षिप्यमहानादमूर्ध्वबाहुमधोमुखम् ।
निखातेप्रक्षिपन्तिस्मवदन्तमिवकुञ्जरम् ॥ 13 ॥
तत्कृत्वादुष्करङ्कर्मभ्रातरौरामलक्ष्मणौ ।
सायाह्नेशरभङ्गस्यरम्यमाश्रममीयतुः ॥ 14 ॥
शरभङ्गेदिवम्प्राप्तेरामस्सत्यपराक्रमः ।
अभिवाद्यमुनीन्सर्वान्जनस्थानमुपागमत् ॥ 15 ॥
ततःपश्चाच्छूर्पणखानामरामपार्शमुपागता ।
ततोरामेणसन्दिष्टोलक्ष्मणस्सहसोत्थितः ॥ 16 ॥
प्रगृह्यखङ्गञ्चिच्छेदकर्णनासेमहाबलः ।
चतुर्दशसहस्राणिजनस्तान्निवासिनाम् ॥ 17 ॥
हतानिवसतातत्रराघवेणमहात्मना ।
एकेनसहसङ्गम्यरामेणरणमूर्धनि ॥ 18 ॥
अह्नश्चतुर्थभागेननिःशेषाराक्षसाःकृताः ।
मबलामहावीर्यास्तपसोविघ्नकारिणः ॥ 19 ॥
निहताराघवेणाजौदण्डकारण्यवासिनः ।
राक्षसाश्चविनिष्पिष्टाःखरश्चनिहतोरणे ॥ 20 ॥
दूषणञ्चाग्रतोहत्वात्रिशिरास्तदनन्तम् ।
तस्तेनार्दिताबालारावणंसमुपागता ॥ 21 ॥
रावणानुचरोघोरोमारीचोनामराक्षसः ।
लोभयामासवैदेहीम्भूत्वारत्नमयोमृगः ॥ 22 ॥
साराममब्रवीदृष्टवावैदेसीगृह्यतामिति ।
अयम्मनोहरःकान्तआश्रमोनोभविष्यति ॥ 23 ॥
ततोरामोधनुष्पाणिर्मृगन्तमनुधावति ।
स तञ्जघानधावन्तंशरेणानतपर्वणा ॥ 24 ॥
अथसौम्य दशग्रीवोमृगंयातेतुराघवे ।
लक्ष्मणेचापिनिष्क्रान्तेप्रविवेशाश्रमन्तदा ॥ 25 ॥
जग्राहतरसासीताङ्ग्रहःखेरोहिणीमिव ।
त्रातुकामन्ततोयुद्धेहत्वागृध्रञ्जटायुषम् ॥ 26 ॥
प्रगृह्यसहसासीताञ्जगामाशु स राक्षसः ।
तस्त्वद्भुतसङ्काशास्स्थिताःपर्वतमूर्धनि ॥ 27 ॥
सीताङ्गृहीत्वागच्छन्तंवानराःपर्वतोपमाः ।
ददृशुर्मिस्मिताकारारावणंराक्षसाधिपम् ॥ 28 ॥
ततशीघ्रतरङ्गत्वातद्विमानम्मनोजवम् ।
आरुह्यसहवैदेह्यापुष्पकं स महाबलः ॥ 29 ॥
प्रविवेशतदालङ्कांरावणोराक्षसेश्वरः ।
तांसुवर्णपरिष्कारेशुभेमहतिवेश्मनि ॥ 30 ॥
प्रवेश्यमैथिलींवाक्यैस्सान्त्वयामासरावणः ।
तृणवद्भाषितन्तस्यतं च नैरृतपुङ्गवम् ॥ 31 ॥
अचिन्तयन्तीवैदेहीह्यशोकवनिकाङ्गता ।
न्यवर्तततदारामोमृगंहत्वातदावने ॥ 32 ॥
निवर्तमानःकाकुत्स्थोदृष्टवागृध्रं स विव्यथे ।
गृध्रंहतन्तदादृष्टवारामःप्रियतरम्पितुः ॥ 33 ॥
मार्गमाणस्तुवैदेहींराघवंसहलक्ष्मणः ।
गोदावरीमन्वचरद्वनोद्धेशांश्चपुष्पितान् ॥ 34 ॥
आसेदतुर्महारण्येकबन्धन्नामराक्षसम् ।
ततःकबन्दवचनाद्रामस्सत्यपराक्रमः ॥ 35 ॥
ऋष्यमूकगिरिङ्गत्वासुग्रीवेणसमागतः ।
तयोस्समागमःपूर्वम्प्रीत्यहार्दोव्यजायत ॥ 36 ॥
भ्रात्रानिरस्तःक्रुद्धेनसुग्रीवोवालिनापुरा ।
इतरेतरसंवादात्प्रगाढःप्रणयस्तयोः ॥ 37 ॥
रामस्स्वबाहुवीर्येणस्वराज्यम्प्रत्यपादयत् ।
वालिनंसमरेहत्वामहाकायम्महाबलम् ॥ 38 ॥
सुग्रीवस्स्थापितोराज्येसहितस्सर्ववानरैः ।
रामायप्रतिजानीतेराजपुत्य्रास्तुमार्गणम् ॥ 39 ॥
अदिष्टावानरेन्द्रेणसुग्रीवेणमहात्मना ।
दशकोट्यःप्लवङ्गानांसर्वाःप्रस्थापिताःदिशः ॥ 40 ॥
तेषान्नोविप्रनष्टानांविन्ध्येपर्वतसत्तमो ।
भृशंशोकानितप्तानाम्महान्कालो त्यवर्तत ॥ 41 ॥
भ्रातातुगृध्रराजस्यसम्पातिर्नामवीर्यवान् ।
समाख्यातिस्मवसतींसीतांरावणमन्दिरे ॥ 42 ॥
सोहन्दुःखपरीतानान्दुःखन्तद् ज्ञातीनान्नुदन् ।
आत्मवीर्यंसमास्थाययोजनानांशतम्प्लुतः ॥ 43 ॥
तत्राहमेकामद्राक्षमशोकवनिकाङ्गताम् ।
कौशेयवस्त्राम्मलिनान्निरनन्दान्दृढव्रताम् ॥ 44 ॥
तयासमेत्यविधिवत् पृष्टवासर्वमनिन्दिताम् ।
अभिज्ञानम्मयादत्तंरामनामाङ्गुलीयकम् ॥ 45 ॥
अभिज्ञानम्मणिंलब्द्वाचरितार्धो हमागतः ।
मया च पुनरागम्यरामस्याक्लिष्टकर्मणः ॥ 46 ॥
अभिज्ञानम्मयादत्तमर्चिष्मान् स महामणिः ।
श्रुत्वाताम्मैथिलींरामस्त्वाशशंसे च जीवितम् ॥ 47 ॥
जीवितान्तमनुप्राप्तःपीत्वामृतमिवातुरः ।
उद्योजयिष्यन्नुद्योगन्दध्रेकामंवधेमनः ॥ 48 ॥
जिघांसुरिवलोकान्तेसर्वान्लोकान्विभावसुः ।
ततस्समुद्रमासाद्यनलंसेतुमकारयत् ॥ 49 ॥
अतरत्कपिवीराणां वाहिनी तेन सेतुना ।
प्रहस्तम्वधीन्नीलःकुम्भकर्णन्तुराघवः ॥ 50 ॥
लक्ष्मणोरावणसुतंस्वयंरामस्तुरावणम् ।
सशक्रेणसमागम्ययमेनवरुणेन च ॥ 51 ॥
महेश्वरस्वयम्भूभ्यां तथा दशरथेन च ।
तैश्चदत्तवर्श्रीमानृषिभिश्चसमागतैः ॥ 52 ॥
सुरर्षिभिश्चकाकुत्स्थोवरान्लेभेपरन्तपः ।
सतुदत्तवरःप्रीत्यावानरैश्चसमागतः ॥ 53 ॥
पुष्पकेनविमानेनकिष्किनष्धामभ्युपागमत् ।
तङ्गङ्गाम्पुनारासाद्यवसन्तम्मुनिसन्निधौ ॥ 54 ॥
अविघ्नम्पुष्ययोगेनश्वोरामन्द्रष्टुमर्हसि ।
ततस्सवाक्यैर्मधुरैर्हनुमतोनिशम्यहृष्टोभरतःकृताञ्जलिः ।
उवाचवाणीम्मनसःप्रहर्षणीञ्चिरस्यपूर्णःखलुमेमनोरथः ॥ 55 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनत्रिंशदधिकशततमस्सर्गः ॥