श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षष्ठस्सर्गः ।
लङ्कायान्तुकृतङ्कर्मघोरन्दृष्टवाभयावहम् ।
राक्षसेन्द्रोहनुमताशक्रेणेवमहात्मना ॥ 1 ॥
अब्रवीद्राक्षसान् सर्वान्ह्रियाकिञ्चिदवाङ्मुखः ।
धर्षिताचप्रविष्टाचलङ्कादुष्प्रसहापुरी ॥ 2 ॥
तेनवानरमात्रेणदृष्टासीताचजानकी ।
प्रासादोधर्षितश्चैत्यःप्रवराराक्षसाहताः ॥ 3 ॥
आविलाचपुरीलङ्कासर्वाहनुमताकृता ।
किङ्करिष्यामिभद्रंवोकिंवायुक्तमनन्तरम् ॥ 4 ॥
उच्यतान्नस्समर्थंयत्कृतञ्चसुकृतम्भवेत् ।
मन्त्रमूलञ्चविजयम्प्रवदन्तिमनस्विनः ॥ 5 ॥
तस्मद्वैरोचयेमन्त्रंरामम्प्रतिमहाबलाः ।
त्रिविधाःपुरुषालोकेउत्तमाधममध्यमाः ॥ 6 ॥
तेषान्तुसमवेतानाङ्गुणदोषौवदाम्यहम् ।
मन्त्रिभिर्हितसंयुक्तैस्समर्थैर्मन्त्रनिर्णये ॥ 7 ॥
मित्रैर्वापिसमानार्थैर्बान्धवैरपिवाधिकैः ।
सहितोमन्त्रियित्वायःकर्मारम्भान्प्रवर्तयेत् ॥ 8 ॥
दैवेचकुरुतेयत्नन्तमाहुःपुरुषोत्तमम् ।
कोऽर्थंविमृशेदेकोधर्मेप्रकुरुतेमनः ॥ 9 ॥
कःकार्याणिकुरुतेतमाहुर्मध्यमन्नरम् ।
गुणदोषौवनिशिचत्य त्यक्त्यादैवव्यपाश्रयम् ॥ 10 ॥
करिष्यामीतियःकार्यमुपेक्षेत्सनराधमः ।
यथेमेपुरुषानित्यमुत्तमाधममध्यमाः ॥ 11 ॥
वम्मन्त्राऽहिविज्ञेयाउत्तमाधममध्यमः ।
ऐकमत्यमुपागम्यशास्त्रदृष्टेनचक्षुषा ॥ 12 ॥
मन्त्रिणोयत्रनिरतास्तमाहुर्मन्त्रमुत्तमम् ।
बह्व्योऽपिमतीर्गत्वामन्त्रिणामर्थनिर्णये ॥ 13 ॥
पुनर्यत्रैकताम्प्राप्तस्समन्त्रोमध्यमस्स्मृतः ।
अन्योन्यमतिमास्थाययत्रसम्प्रतिभाष्यते ॥ 14 ॥
न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।
तस्मात् सुमन्त्रितं साधु भवन्तो मन्त्रि सत्तमाः ॥ 15 ॥
कार्यंसम्प्रतिपद्यन्तामेतत्कृत्यम्मतम्मम ।
वानराणांहिधीराणांसहस्रैःपरिवारितः ॥ 16 ॥
रामोऽभ्येतिपुरीलङ्कामस्माकमुपरोधकः ।
तरिष्यतिचसुव्यक्तंराघवस्सागरंसुखम् ॥ 17 ॥
तरसायुक्तरूपेणसानुजस्सबलानुगः ।
समुद्रमुच्छोषयतिवीर्येणान्यत्करोतिवा ॥ 18 ॥
अस्मिन्नेवङ्गतेकार्येविरुद्धेवानरैस्सह ।
हितम्पुरेचसैन्येचसर्वसम्मन्त्रयताम्मम ॥ 19 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षष्ठस्सर्गः ॥