श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिषष्टितमस्सर्गः ।
तस्यराक्षसराजस्यनिशम्यपरिदेवितम् ।
कुम्भकर्णोबभाषेदंवचनम्प्रजहास च ॥ 1 ॥
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ 2 ॥
शीघ्रङ्खल्वभ्युपेतन्त्वाम्फलम्पापस्यकर्मणः ।
निरयेष्वेवपतनंयथादुष्कृतकर्मणः ॥ 3 ॥
प्रथमंवैमहाराजकृत्यमेतदचिन्तितम् ।
केवलंवीर्यदर्पेणनानुबन्धोविचिन्तितः ॥ 4 ॥
यःपश्चातूर्वकार्याणिकुर्यादैश्वर्यमास्थितः ।
पूर्वञ्चोत्तरकार्याणि न स वेदनयानया ॥ 5 ॥
देशकालविहीनानिकर्माणिविपरीतवत् ।
क्रियमाणानिदुष्यन्तिहवींष्यप्रयतेष्विव ॥ 6 ॥
त्रयाणाम्पञ्चधायोगङ्कर्मणांयःप्रपश्यति ।
सचिवैस्समयङ्कृत्वा स सभ्येवर्ततेपथि ॥ 7 ॥
यथागमं च योराजासमयंविचिकीर्षति ।
बुध्यतेसचिवान्बध्यासुहृदश्चानुपश्यति ॥ 8 ॥
धर्ममर्थं च कामं च सर्वान्वारक्षसाम्पते ।
भजतेपुरुषःकालेत्रीणिद्वन्द्वानिवापुनः ॥ 9 ॥
त्रिषुचैतेषुयच्छ्रेष्ठंश्रुत्वातन्नावबुध्यते ।
राजावाराजमात्रोवाव्यर्थन्तस्यबहुश्रुतम् ॥ 10 ॥
उपप्रदानंसान्त्वं च भेदङ्काले च विक्रमम् ।
योगं च रक्षसांश्रेष्ठतावुभौ च नयानयौ ॥ 11 ॥
कालेधर्मार्थकामान्यस्सम्मन्त्ऱ्यसचिवैःसह ।
निषेवेतात्मवान्लोके न स व्यसनमाप्नुयात् ॥ 12 ॥
हितानुबन्धमालोच्यकार्यात्कार्यमिहात्मनः ।
राजासहार्थतत्त्वज्ञैस्सचिवैर्बुस्सहिजीवति ॥ 13 ॥
अनभिज्ञायशास्त्रार्थान् पुरुषाःपशुबुद्धयः ।
प्रागल्भ्याद्वक्तुमिच्छन्तिमन्त्रेष्वभ्यन्तरीकृताः ॥ 14 ॥
अशास्त्रविदुषान्तेषां न कार्यमभिहितंवचः ।
अर्थशास्त्रानभिज्ञानांविपुलांश्रियमिच्छताम् ॥ 15 ॥
अहितं च हिताकारन्धार्ष्ट्याज्जल्पन्तियेनराः ।
अवेक्ष्यमन्त्रबाह्यास्तेकर्तव्याःकृत्यदूषणाः ॥ 16 ॥
विनाशयन्तोभर्तारंसहिताश्शत्रुभिर्बुधैः ।
विपरीतानिकृत्यानिकारयन्तीहमन्त्रिणः ॥ 17 ॥
तान्भर्तामित्रसङ्काशानमित्रान्मन्त्रनिर्णये ।
व्यवहारेणजानीयात्सचिवानुपसम्हितान् ॥ 18 ॥
चपलस्येहकृत्यानिसहसानुप्रधावतः ।
छिद्रमन्येप्रपद्यन्तेक्रौञ्चस्य ख मिवद्विजाः ॥ 19 ॥
योहिशत्रुमवज्ञायनात्मानमभिरक्षति ।
अवाप्नोतिहिसोऽनर्थान् स्थानाच्चव्यवरोप्यते ॥ 20 ॥
यदुक्तमिहतेपूर्वङ्क्रियतामनुजेन च ।
तदेवनोहितंवाक्यंयदिच्छसि च तत्कुरु ॥ 21 ॥
तत्तुश्रुत्वादशग्रीवःकुम्भकर्णस्यभाषितम् ।
भ्रुकुटिञ्चैवसञ्चक्रेक्रुद्धश्चैनमभाषत ॥ 22 ॥
मान्योगुरुवारिचार्यःकिमान्त्वमनुशाससि ।
किमेवंवाक्छ्रमङ्कृत्वाकालेयुक्तंविधीयताम् ॥ 23 ॥
विभ्रमाच्चित्तमोहाद्वाबलवीर्याश्रयेणवा ।
नाभिपन्नमिदानींयद्व्यर्थातस्यपुनःकथाः ॥ 24 ॥
अस्मिन्कालेतुयद्युक्तन्तदिदानींविधीयताम् ।
गतन्तुनानुशोचन्तिगतन्तुगतमेवहि ॥ 25 ॥
ममापनयजन्दोषंविक्रमेणसमीकुरु ।
यदिखल्वस्तिमेस्नेहोविक्रमंवाऽवगच्छसि ॥ 26 ॥
यदिवकार्यम्मेतत्तेहृदिकार्यतमम्मतम् ।
स सुहृद्योविपन्नार्थन्दीनमभ्यवपद्यते ॥ 27 ॥
स बन्धुर्योऽपनीतेषुसाहाय्यायोपकल्पते ।
तमथैवम्ब्रुवाणन्तुवचनन्धीरदारुणम् ॥ 28 ॥
रुष्टोऽयमितिविज्ञायशनैश्श्लक्षणमुवाच ह ।
अतीवहिसमालक्ष्यभ्रातरङ्क्षुभितेन्द्रियम् ॥ 29 ॥
कुम्भकर्णश्शनैर्वाक्यम्बभाषेपरिसान्त्वयन् ।
शृणुराजन्नवहितोममवाक्यमरिन्दम ॥ 30 ॥
अलंराक्षसराजेन्द्र सन्तापमुपपद्यते ।
रोषं च सम्परित्यज्यस्वस्थोभवितुमर्हसि ॥ 31 ॥
नैतन्मनसिकर्तव्यम्मयिजीवतिपार्थिव ।
तमहन्नाशयिष्यामियत्कृतेपरितप्यते ॥ 32 ॥
अवश्यन्तुहितंवाच्यंसर्वावस्थान्तवमया ।
बन्धुभावादभिहितम्भ्रातृस्नेहाच्छपार्थिव ॥ 33 ॥
सदृशंयत्तुकालेऽस्मिन् कर्तुंस्निग्धेनबन्धुना ।
शत्रूणाङ्कदनम्पश्यक्रियमाणम्मयारणे ॥ 34 ॥
अद्यपश्यमहाबाहो मयासमरमूर्धनि ।
हतेरामेसहभ्रात्राद्रवन्तींहरिवाहिनीम् ॥ 35 ॥
अद्यरामस्यतद्दृष्टवामयानीतंरणाच्छिरः ।
सुखीभवमहाबाहो सीताभवतुदुःखिता ॥ 36 ॥
अद्यरामस्यपश्यन्तुनिधनंसुमहत्प्रियम् ।
लङ्कायांराक्षसाःसर्वेयेतेनिहतबान्धवाः ॥ 37 ॥
अद्यशोकपरीतानांस्वबन्धुवधकारणात् ।
शत्रोर्युधिविनाशेनकरोम्यस्रप्रमार्जनम् ॥ 38 ॥
अद्यपर्वतसङ्काशंससूर्यमिवतोयदम् ।
विकीर्णम्पश्यसमरेसुग्रीवम्प्लवगोत्तम ॥ 39 ॥
कथं च राक्षसैरेभिर्मया च परिरक्षितः ।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ ॥ 40 ॥
मान्निहत्यकिलत्वांहिनिहनिष्यतिराघवः ।
नाहमात्मनिसन्तापङ्गच्छेयंराक्षसाधिप ॥ 41 ॥
कामंवतिदानीमपिमांव्यादिशत्वम्परन्तप ।
न परःप्रेषणीयस्तेयुद्धायातुलविक्रम ॥ 42 ॥
अहमुत्सादयिष्यामिशत्रूंस्तवमहाबलः ।
यदिशक्रोयदियमोयदिपावकमारुतौ ॥ 43 ॥
तानहंयोधयिष्यामिकुबेरवरुणावपि ।
गिरिमात्रशरीरस्यशितशूलधरस्यमे ॥ 44 ॥
नर्दतस्तीक्षणदंष्ट्रस्यबिभीयाच्चपुरन्दरः ।
अथवात्यक्तशस्त्रस्यमृद्नतस्तरसारिपून् ॥ 45 ॥
न मेप्रतिमुखेस्थातुङ्कश्चित् शक्तोजिजीविषुः ।
नैवशक्त्या न गदयानासिनानिशितैश्शरैः ॥ 46 ॥
हस्ताभ्यामेवसम्रब्दोहनिष्याम्यपिवज्रिणम् ।
यदिमेमुष्टिवेगं स राघवोऽद्यसहिष्यते ॥ 47 ॥
ततःपाश्यन्तिबाणौघारुधिरंराघवस्यतु ।
चिन्तयाबाध्यसेराजन्किमर्थम्मयितिष्ठति ॥ 48 ॥
सोऽहंशत्रुविनाशाय तव निर्यातुमुद्यतः ।
मुञ्चरामाद्भयंराज न्हनिष्यामीहसम्युगे ॥ 49 ॥
राघवंलक्ष्मणञ्चैवसुग्रीवं च महाबलम् ।
हनूमन्तं च रक्षोघ्नंलङ्कायेनप्रदीपिता ॥ 50 ॥
हरींश्चापिहनियिष्यामिसंयुगेसमवास्थिवान् ।
असाधारणमिच्छामिनदातुम्महद्यशः ॥ 51 ॥
यदिचेन्द्राद्भयं राजन्यदि चापि स्वयम्भुवः ।
ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥ 52 ॥
अपिदेवाश्शयिष्यन्तेक्रुद्धेमयिमहीतले ।
यमं च शमयिष्यामिभक्षयिष्यामिपावकम् ॥ 53 ॥
आदित्यम्पातयिष्यामिसनक्षत्रम्महीतले ।
शतक्रतुंवधिष्यामिपास्यामिवरुणालयम् ॥ 54 ॥
पर्वतांश्चूर्णयिष्यामिदारयिष्यामिमेदिनीम् ।
दीर्घकालम्प्रसुप्तस्यकुम्भकर्णस्यविक्रमम् ॥ 55 ॥
अद्यपश्यन्तुभूतानिभक्ष्यमाणानिसर्वशः ।
नन्विदन्त्रिदिवंसर्वमाहारस्य न पूर्यते ॥ 56 ॥
वधेनतेदाशरथेःसुखार्हंसुखंसमाहर्तुमहंव्रजामि ।
निहत्यरामंसहलक्ष्मणेनखादामिन्हरियूथमुख्यान् ॥ 57 ॥
रमस्वराजन् पिबचाद्यवारुणीङ्कुरुष्वकृत्यानिविनीयताम्म् ।
मयाद्यरामेगमितेयमक्ष्यञ्चिरायसीतावशगाति ॥ 58 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिषष्टितमस्सर्गः ॥