श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ अष्टत्रिंशस्सर्गः ।
तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत्स्थ मिदमब्रवीत् ॥ 1 ॥
अयोध्याधिपति श्शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामस्स चाप्रजः ॥ 2 ॥
वैदर्भदुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ 3 ॥
अरिष्टनेमेर्दुहिता रूपेणाप्रतिमा भुवि ।
द्वितीया सगरस्यासीत्पत्नी सुमतिसञ्ज्ञिता ॥ 4 ॥
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः ।
हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ 5 ॥
अथ वर्षशते पूर्णे तपसाऽराधितो मुनिः ।
सगराय वरं प्रादाद्भृगुस्सत्यवतां वरः ॥ 6 ॥
अपत्यलाभस्सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ 7 ॥
एका जनयिता तात पुत्रं वंशकरं तव ।
षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ 8 ॥
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ 9 ॥
एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ 10 ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ 11 ॥
एको वंशकरो वाऽस्तु बहवो वा महाबलाः ।
कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ 12 ॥
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन ।
पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ 13 ॥
षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ 14 ॥
प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥ 15 ॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत ।
असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ 16 ॥
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
षष्ठिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः ॥ 17 ॥
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ 18 ॥
अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ 19 ॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥ 20 ॥
प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै ।
एवं पापसमाचारस्सज्जनप्रतिबाधकः ॥ 21 ॥
पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ 22 ॥
सम्मत स्सर्वलोकस्य सर्वस्यापि प्रियंवदः ।
ततः कालेन महता मतिस्समभिजायत ॥ 23 ॥
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ।
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे अष्टत्रिंशस्सर्गः ॥