View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.107 अयोध्याकाण्ड - सप्ताधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्ताधिकशततमस्सर्गः ।

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः ।
प्रत्युवाच तत श्श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥ 1 ॥

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।
जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् ॥ 2 ॥

पुरा भ्रातः पिता न स्स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ 3 ॥

दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः ।
सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ 4 ॥

ततस्सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ 5 ॥

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ 6 ॥

ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ 7 ॥

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तच्च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ 8 ॥

तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ 9 ॥

सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
सीतया चाप्रतिद्वन्द्व स्सत्यवादे स्थितः पितुः ॥ 10 ॥

भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ 11 ॥

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ 12 ॥

श्रूयते धीमता तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितॄन् प्रति ॥ 13 ॥

पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः ॥ 14 ॥

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ 15 ॥

एवं राजर्षय स्सर्वे प्रतीता राजनन्दन ।
तस्मात्राहि नरश्रेष्ठ पितरं नरकात्प्रभो ॥ 16 ॥

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥ 17 ॥

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।
आभ्यान्तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ 18 ॥

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छ त्वं पुरवरमद्य सम्प्रहृष्टस्संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये ॥ 19 ॥

छायां ते दिनकरभाः प्रबाधमानां वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखी श्रयिष्ये ॥ 20 ॥

शत्रुघ्नः कुशलमतिस्तु ते सहायस्सौमित्रिर्मम विदितः प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषीद ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्ताधिकशततमस्सर्गः ॥




Browse Related Categories: