View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.35 अरण्यकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

ततश्शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह ॥ 1 ॥

तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
दोषाणां च गुणानां च संप्रधार्य बलाबलम् ॥ 2 ॥

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ 3 ॥

यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।
सूतं संचोदयामास रथस्संयोज्यतामिति ॥ 4 ॥

एवमुक्तः क्षेणेनैव सारथिर्लघुविक्रमः ।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ 5 ॥

कांचनं रथमास्थाय कामगं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः कांचनभूषणैः ॥ 6 ॥

मेघप्रतिमनादेन स तेन धनदानुजः ।
राक्षसाधिपतिश्श्रीमान्ययौ नदनदीपतिम् ॥ 7 ॥

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।
स्निग्धवैदूर्यसंकाश स्तप्तकांचनकुंडलः ॥ 8 ॥

विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनींद्रघ्नो दशशीर्ष इवाद्रिराट् ॥ 9 ॥

कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।
विद्युन्मंडलवान्मेघस्सबलाक इवांबरे ॥ 10 ॥

स शैलं सागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ 11 ॥

शीतमंगलतोयाभिः पद्मिनीभिस्समंततः ।
विशालैराश्रमपदैर्वेदिमद्भिस्समावृतम् ॥ 12 ॥

कदल्याढकिसंबाधं नारिकेलोपशोभितम् ।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ 13 ॥

नागैस्सुपर्णैर्गंधैर्वैः किन्नरैश्च सहस्रशः ।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ 14 ॥

अत्यंतनियताहारैश्शोभितं परमर्षिभिः ।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ 15 ॥

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडारतिविधिज्ञाभिरप्सरोभिस्सहस्रशः ॥ 16 ॥

सेवितं देवपंतीभिश्श्रीमतीभिश्श्रियाऽऽवृतम् ।
देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥ 17 ॥

हंसक्रौंचप्लवाकीर्णं सारसैस्संप्रणादितम् ।
वैढूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ 18 ॥

पांडुराणि विशालानि दिव्यमाल्ययुतानि च ।
तूर्यगीताभिजुष्टानि विमानानि समंततः ॥ 19 ॥

तपसा जितलोकानां कामगान्यभिसंपतन् ।
गंधर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ 20 ॥

निर्यासरसमूलानां चंदनानां सहस्रशः ।
वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ 21 ॥

अगरूणां च मुख्यानां वनान्युपवनानि च ।
तक्कोलानां च जात्यानां फलानां च सुगंधिनाम् ॥ 22 ॥

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ 23 ॥

शंखानां प्रसरं चैव प्रवालनिचयं तथा ।
कांचनानि च शैलानि राजतानि च सर्वशः ॥ 24 ॥

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।
धनधान्योपपन्नानि स्त्रीरत्नैश्शोभितानि च ॥ 25 ॥

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।
तं समं सर्वतस्निग्धं मृदुसंस्पर्शमारुतम् ।
अनूपं सिंधुराजस्य ददर्श त्रिदिवोपमम् ॥ 26 ॥

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ 27 ॥

समंताद्यस्य ताश्शाखाश्शतयोजनमायताः ।
यस्य हस्तिनमादाय महाकायं च कच्छपम् ॥ 28 ॥

भक्षार्थं गरुडश्शाखामाजगाम महाबलः ।
तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ 29 ॥

सुपर्णः पर्णबहुलां बभंज च महाबलः ।
तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥ 30 ॥

अजा बभूवुर्धूम्राश्च संगताः परमर्षयः ।
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ॥ 31 ॥

जगामादाय वेगेन तौ चोभौ गजकच्छपौ ।
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ॥ 32 ॥

निषादविषयं हत्वा शाखया पतगोत्तमः ।
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ 33 ॥

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार मतिमान्मतिम् ॥ 34 ॥

अयोजालानि निर्मथ्य भित्वा रत्नमयं गृहम् ।
महेंद्रभवनाद्गुप्तमाजहारामृतं ततः ॥ 35 ॥

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ 36 ॥

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकांते रम्ये पुण्ये वनांतरे ॥ 37 ॥

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।
ददर्श नियताहारं मारीचं नाम राक्षसाम् ॥ 38 ॥

स रावणस्समागम्य विधिवत्तेन रक्षसा ।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ 39 ॥

तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 40 ॥

कच्चित्सुकुशलं राजन्लंकायां राक्षसेश्वर ।
केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ 41 ॥

एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: