श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चसप्ततितमस्सर्गः ।
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा ।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ 1 ॥
स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् ।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ 2 ॥
दृष्टोऽयमाश्रमस्सौम्य बह्वाश्चर्यो महात्मनाम् ।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ 3 ॥
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।
उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ 4 ॥
प्रणष्टमशुभं तत्तत्कल्याणं समुपस्थितम् ।
तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥ 5 ॥
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।
तदागच्छ गमिष्यामि पम्पां तां प्रियदर्शनाम् ॥ 6 ॥
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।
यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतस्सुतः ॥ 7 ॥
नित्यं वालिभयात्त्रस्तश्चतुर्भिस्सह वानरैः ।
अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥ 8 ॥
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ।
एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ॥ 9 ॥
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ।
आश्रमात्तु तत स्तस्मान्निष्क्रम्य स विशाम्पतिः ॥ 10 ॥
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः ।
स ददर्श ततः पुण्यामुदारजनसेविताम् ॥ 11 ॥
नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम् ।
पद्मैस्सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ॥ 12 ॥
नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ।
स तामासाद्य वै रामो दूरादुदकवाहिनीम् ॥ 13 ॥
मतङ्गसरसं नाम ह्रदं समवगाहत ।
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् ॥ 14 ॥
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ।
तिलकैर्बीजपूरैश्च धवैश्शुक्लद्रुमैस्तथा ॥ 15 ॥
पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः ।
मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा ॥ 16 ॥
अशोकैस्सप्तपर्णैश्च केतकैरतिमुक्तकैः ।
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् ॥ 17 ॥
समीक्षमाणौ पुषपाढ्यं सर्वतो विपुलद्रुमम् ।
कोयष्टिकैश्चार्जुनकैश्शतपत्रैश्च कीरकैः ॥ 18 ॥
एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ।
ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ ॥ 19 ॥
तद्वनं चैव सरसः पश्यन्तै शकुनैर्युतम् ।
स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् ॥ 20 ॥
तिलकाशोकपुन्नागवकुलोद्दालकाशिनीम् ।
स रामो विविधान्वृक्षान्सरांसि विविधानि च ॥ 21 ॥
पश्यन्कामाभिसन्तप्तो जगाम परमं ह्रदम् ।
पुष्पितोपवनोपेतां सालचम्पकशोभिताम् ॥ 22 ॥
षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ।
स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसन्तताम् ॥ 23 ॥
स तां दृष्ट्वा पुनः पम्पां पद्मसौगन्घिकैर्युताम् ।
इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥ 24 ॥
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।
ऋष्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥ 25 ॥
हरेः ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ।
अध्यास्ते तं महावीर्यस्सुग्रीव इति विश्रुतः ॥ 26 ॥
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ 27 ॥
राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा ।
कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ 28 ॥
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् ।
विवेश पम्पां नलिनीं मनोरमां रघूत्तमश्शोकविषादयन्त्रितः ॥ 29 ॥
ततो महद्वर्त्म सुदूरसङ्क्रमं क्रमेण गत्वा प्रविलोकयन्वनम् ।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमस्सर्गः ॥