श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तसप्ततितमस्सर्गः ।
निकुम्भोभ्रातरन्दृष्टवासुग्रीवेणनिपातितम् ।
प्रदहन्निवकोपेनवानरेन्द्रमवैक्षत ॥ 1 ॥
ततस्स्रग्दामसन्नद्धन्दत्तपञ्चाङ्गुलंशुभम् ।
आददेपरिघंवीरोमहेन्द्रशिखरोपमम् ॥ 2 ॥
हेमपट्टपरिक्षिप्तंवज्रविद्रुमभूषितम् ।
यमदण्डोपमम्भीमंरक्षसाम्भयनाशनम् ॥ 3 ॥
तमाविध्यमहातेजाश्शक्रध्वजसमन्तदा ।
निननादविवृत्तास्योनिकुम्भोभीमविक्रमः ॥ 4 ॥
उरोगतेननिष्केणभुजस्थैरङ्गदैरपि ।
कुण्डलाभ्यां च चित्राभ्याम्मालया च विचित्रया ॥ 5 ॥
निकुम्भोभूषणैर्भातितेनस्मपरिघेण च ।
यथेन्द्रधनुषामेघस्सविद्युत्स्तनयित्नुमान् ॥ 6 ॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।
प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ 7 ॥
नगर्याविटपावत्यागन्धर्वभवनोत्तमैः ।
सतारग्रहनक्षत्रंसचन्द्रंसमहाग्रहम् ॥ 8 ॥
निकुम्भपरिघाघूर्णम्भ्रमतीवनभस्थ्सलम् ।
दुरासदश्चसञ्जज्ञेपरिघाभरणप्रभः ॥ 9 ॥
कपीनांसनिकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।
राक्षसावानराश्चापि न शेकुस्स्पन्दितुम्भयात् ॥ 10 ॥
हनूमांस्तुविवृत्योरस्तस्थौतस्याग्रतोबली ।
परिघोपमबाहुस्तुपरिघम्भास्करप्रभम् ॥ 11 ॥
बलीबलवतस्तस्यपातयामासवक्षसि ।
स्थिरेतस्योरसिव्यूढेपरिघश्शतधाकृतः ॥ 12 ॥
विकीर्यमाणस्सहसाउल्काशतमिवाम्बरे ।
स तुतेनप्रहारेणविचचालमहाकपिः ॥ 13 ॥
परिघेणसमाधूतोयथाभूमिचलेऽचलः ।
तथाभिहतस्तेनहनुमान् प्लवगोत्तमः ॥ 14 ॥
मुष्टिंसम्वर्तयामासबलेनातिमहाबलः ।
तमुद्यम्यमहातेजानिकुम्भोरसिवीर्यवान् ॥ 15 ॥
अभिचिक्षेपवेगेनवेगवान् वायुविक्रमः ।
ततःपुस्फोटचर्मास्यप्रसुस्राव च शोणितम् ॥ 16 ॥
मुष्टिनातेनसञ्जज्ञेमेघेविद्युदिवोत्थिता ।
सःतुतेनप्रहारेणनिकुम्भोविचचाल ह ॥ 17 ॥
स्वस्थश्चापिनिजग्राहहनूमन्तम्महाबलम् ।
चुक्रुशुस्तदासङ्ख्येभीमंलङ्कानिवासिनः ॥ 18 ॥
निकुम्भेनोद्यतन्दृष्टवाहनूमन्तम्महाबलम् ।
तदाह्रियमाणोऽपिकुम्भकर्णात्मजेन ह ॥ 19 ॥
आजघानानिलसुतोवज्रकल्पेनमुष्टिना ।
आत्मानम्मोक्षयित्वाथक्षितावभ्यवपद्यत ॥ 20 ॥
हनूमानुन्ममाथाशुनिकुम्भम्मारुतात्मजः ।
निक्षिप्यपरमायत्तोनिकुम्भन्निष्पिपेष ह ॥ 21 ॥
उत्पत्यचास्यवेगेनपपातोरसिवीर्यवान् ।
परिगृह्य च बाहुभ्याम्परिवृत्यशिरोधराम् ॥ 22 ॥
उत्पाटयामानशिरोभैरवन्नदतोमहत् ।
अथनिनदतिसादितेनिकुम्भेपवनसुतेनरणेबभूवयुद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोस्सुभीमम् ॥ 23 ॥
व्यपेतेतुजीवेनिकुम्भस्यहृष्टाविनेदुःप्लवङ्गादिशस्सस्वनुश्च ।
चचालेवचोर्वीपफालेवचद्यौर्भयंराक्षसानाम्बलञ्चाविवेश ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमस्सर्गः ॥