श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टाशीतितमस्सर्गः ।
विभीषणवच्श्रुत्वारावणिःक्रोधमूर्छितः ।
अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपात च ॥ 1 ॥
उद्यतायुधनिस्त्रिंशोरथेसुसमलङ्कृते ।
कालाश्वयुक्तेमहतिस्थितःकालान्तकोपमः ॥ 2 ॥
महाप्रमाणमुद्यम्यविपुलंवेगवद्धृढम् ।
धनुर्बीमम्परामृश्यशरांश्चामित्रनाशनान् ॥ 3 ॥
तन्ददर्शमहेष्वासोरथस्थस्समलङ्कृतः ।
अलङ्कृतममित्रघ्नोराघवस्यानुजम्बली ॥ 4 ॥
हनुमत्पृष्ठरूढमुदस्थरविप्रभम् ।
उवाचैनंसमारब्धः सौमित्रिंसविभीषणम् ॥ 5 ॥
तांश्चवानरशार्दूलान् पश्यध्वम्मेपराक्रमम् ।
अद्यमत्कार्मुकोत्सृष्टंशरवर्षन्दुरासदम् ॥ 6 ॥
मुक्तंवर्षमिवाकाशेवारयिष्यथसंयुगे ।
अद्यवोमामकाबाणामहाकार्मुनिस्सृताः ॥ 7 ॥
विधमिष्यन्तिगात्राणितूलराशिमिवानलः ।
तीक्षणसायकनिर्भन्नान्शूलशक्त्यृष्टितोमरैः ॥ 8 ॥
अद्यवोगमयिष्यामिसर्वानेनयमक्षयम् ।
क्षिपतश्शरवर्षाणिक्षिप्रहस्तस्यसम्युगे ॥ 9 ॥
जीमूतस्येननदतःकःस्थास्यतिममाग्रतः ।
रात्रियुद्धेमयापूर्वंवज्राशनिसमैःशरैः ॥ 10 ॥
शायितौस्थोमयाभूमौविसञ्ज्ञौसपुरस्सरौ ।
स्मृतिर्नतेऽस्तिवामन्येव्यक्तंवायमसादनम् ॥ 11 ॥
आशीविषमिवक्रुद्धंयन्मांयोद्धुव्यवत्थितः ।
तच्छ्रुत्वाराक्षसेन्द्रस्यगर्जितंलक्ष्मणस्तदा ॥ 12 ॥
अभीतवदनःक्रुद्धोरावणिंवाक्यमब्रवीत् ।
उक्तश्चदुर्गमःपारःकार्याणांराक्षसत्वया ॥ 13 ॥
कार्याणाङ्कर्मणाम्पारंयोगच्छति स बुद्धिमान् ।
सत्वमर्थस्यहीनार्थोदुरवासस्यकेनचित् ॥ 14 ॥
वाचाव्याहृत्यजानीषेकृतार्थोऽस्मीतिदुर्मते ।
अन्तर्धानगतेनाजौयस्त्वयाचरितस्तदा ॥ 15 ॥
तस्कराचरितोमार्गःनैषवीरनिषेवितः ।
यथाबाणपथम्प्राप्यस्थितोऽहन्तवराक्षस ॥ 16 ॥
दर्शयस्वाद्यतत्तेजोवाचात्वङ्किंविकत्थसे ।
एवमुक्तोधनुर्भीमम्परामृश्यमहाबलः ॥ 17 ॥
ससर्जनिशितान्बाणानिन्द्रजित्समितिञ्जयः ।
तेनिसृष्टामहावेगाःशराःसर्पविषोपमाः ॥ 18 ॥
सम्प्राप्यलक्ष्मणम्पेतुःश्वसन्तैवपन्नगाः ।
रैरतिमहावेगैर्वेगवान्रावणात्मजः ॥ 19 ॥
सौमित्रिमिन्द्रजिद्युद्धेविव्याधशुभलक्षणम् ।
सशरैरतिविद्धाङ्गोरुधिरेणसमुक्षितः ॥ 20 ॥
शुशुभेलक्ष्मणःश्रीमान्विधूमैवपावकः ।
इन्द्रजित्त्वात्मनःकर्मप्रसमीक्ष्याधिगम्य च ॥ 21 ॥
विनद्यसुमहानादमिदंवचनमब्रवीत् ।
पत्रिणःशितधारास्तेकरामत्कार्मुकच्युताः ॥ 22 ॥
आदास्यन्तेऽद्यसौमित्रेजीवितञ्जीवितान्तकाः ।
अद्यगोमायुसङ्घाश्चश्येनसङ्घाश्चलक्ष्मण ॥ 23 ॥
गृध्राश्चनिपतन्तुत्वाङ्गतासुन्निहतम्मया ।
क्षत्रबन्धुंसदानार्यंरामःपरमदुर्मतिः ॥ 24 ॥
भक्तम्भ्रातरमद्यैवत्वान्द्रक्ष्यतिहतम्मया ।
विशस्तकवचम्भूमौव्यपविद्धशराससनम् ॥ 25 ॥
हृतोत्तमाङ्गंसौमित्रत्वामद्यनिहतम्मया ।
इतिब्रुवाणंसङ्कृद्धः परुषंरावणात्मजम् ॥ 26 ॥
हेतुमद्वाक्यमत्यर्थंलक्ष्मणःप्रत्युवाच ह ।
वाग्बलन्त्यजदुर्बुद्धेक्रूरकर्मासिराक्षस ॥ 27 ॥
अथकस्माद्वदस्येतत्सम्पादयसुकर्मणा ।
कृत्वाकत्थसेकर्मकिमर्थमिहराक्षस ॥ 28 ॥
कुरुतत्कर्मयेनाहंश्रद्धध्यान्तवकत्थनम् ।
अनुक्त्वापरुषंवाक्यङ्किञ्चिदप्यनवक्षिपन् ॥ 29 ॥
अविकत्थन्वधिष्यामित्वाम्पश्यपुरुषाधम ।
इत्युक्त्वापञ्चनाराचानाकर्णापूरितान् शितान् ॥ 30 ॥
निजघानमहावेगाल्लक्ष्मणोराक्षसोरसि ।
सुपत्रवाजिताबाणाज्वलिताइवपन्नगाः ॥ 31 ॥
नैरृतोरस्यभासन्तसवितूरश्मयोयथा ।
सःशरैराहतस्तेनसरोषोरावणात्मजः ॥ 32 ॥
सुप्रयुक्तैस्त्रिभिर्भाणैःप्रतिविव्याधलक्ष्मणम् ।
सःबभूवमहाभीमोनरराक्षससिंहयोः ॥ 33 ॥
विमर्दस्तुमुलोयुद्धेपरस्परजयैषिणोः ।
उभौहिबलसम्पन्नावुभौविक्रमशालिनौ ॥ 34 ॥
उभौपरमदुर्ज्ञेयावतुल्यबलतेजसौ ।
युयुधातेतदावीरौग्रहाविवनभोगतौ ॥ 35 ॥
बलवृत्राविवाभीतौयुधितौदुष्प्रधर्षणौ ।
युयुधातेमहात्मानौतदाकेसरिणाविव ॥ 36 ॥
बहूनवसृजन्तौहिमार्गणौघानवस्थितौ ।
नरराक्षससिम्होतौप्रहृष्टावभ्ययुध्यताम् ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टाशीतितमस्सर्गः ॥