श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्तमस्सर्गः ।
. तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ 1 ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ 2 ॥
धृष्टिर्जयन्तो विजयस्सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ 3 ॥
ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ ।
वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ 4 ॥
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
श्रीमन्तश्च महात्मानश्शास्त्रज्ञा दृढविक्रमाः ॥ 5 ॥
कीर्तिमन्तः प्रणिहिताः यथावचनकारिणः ।
तेजः क्षमायशःप्राप्ता स्मितपूर्वाभिभाषिणः ॥ 6 ॥
क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ।
तेषामविदितं किञ्चित्स्वेषु नास्ति परेषु वा ।
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ 7 ॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि ॥ 8 ॥
कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
अहितं चापि पुरुषं न विहिंस्युरदूषकम् ॥ 9 ॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ 10 ॥
ब्रह्म क्षत्रमहिंसन्तस्ते कोशं समपूरयन् ।
सुतीक्ष्णदण्डास्सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ 11 ॥
शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ 12 ॥
कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नरः ।
प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥ 13 ॥
सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिनः ।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ 14 ॥
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
विदेशेष्वपि विज्ञातास्सर्वतो बुद्धिनिश्चयात् ॥ 15 ॥
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥ 16 ॥
मन्त्रसंवरणे शक्ताश्श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ।
नीतिशास्त्रविशेषज्ञास्सततं प्रियवादिनः ॥ 17 ॥
ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः ।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ॥ 18 ॥
अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ।
प्रजानां पालनं कुर्वन्नधर्मान्परिवर्जयन् ॥ 19 ॥
विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गरः ।
स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ॥ 20 ॥
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ।
मित्रवान्नतसामन्तः प्रतापहतकण्टकः ॥ 21 ॥
स शशास जगद्राजा दिवं देवपतिर्यथा ।
तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तै र्वृतोऽनुरक्तैः कुशलैस्समर्थैः ।
स पार्थिवो दीप्तिमवाप युक्त स्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ 22 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तमस्सर्गः ॥