View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.64 अयोध्याकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।
विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ 1 ॥

तदज्ञानान्महत्पापं कृत्वाहं संकुलेंद्रियः ।
एकस्त्वचिंतयं बुध्या कथं नु सुकृतं भवेत् ॥ 2 ॥

ततस्तं घटमादाय पूर्णं परमवारिणा ।
आश्रमं तमहं प्राप्य यथाऽख्यातपथं गतः ॥ 3 ॥

तत्राहं दुर्बलावंधौ वृद्धावपरिणायकौ ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ 4 ॥

तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ ।
तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ 5 ॥

शोकोपहतचित्तश्च भयसंत्रस्तचेतनः ।
तच्चाऽश्रमपदं गत्वा भूयश्शोकमहं गतः ॥ 6 ॥

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ 7 ॥

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।
उत्कंठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ 8 ॥

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।
न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ 9 ॥

त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम् ।
समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ 10 ॥

मुनिमव्यक्तया वाचा तमहं सज्जमानया ।
हीनव्यंजनया प्रेक्ष्य भीतचित्त इवाब्रुवम् ॥ 11 ॥

मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् ।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ 12 ॥

क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ।
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ 13 ॥

भगवंश्चापहस्तोऽहं सरयूतीरमागतः ।
जिघांसुश्श्वापदं कंचिन्निपाने चाऽगतं गजम् ॥ 14 ॥

ततश्श्रुतो मया शब्दो जले कुंभस्य पूर्यतः ।
द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया ॥ 15 ॥

गत्वा नद्यास्तत स्तीरमपश्यमिषुणा हृदि ।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ 16 ॥

भगवच्छशब्दमालक्ष्य मया गजजिघांसुना ।
विसृप्टोऽंभसि नाराचस्तेन ते निहतस्सुतः ॥ 17 ॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बाण उधृतो मर्मतस्तदा ॥ 18 ॥

स चोधृतेन बाणेन तत्रैव स्वर्गमास्थितः ।
भवंतौ पितरौ शोचन्नंधाविति विलप्य च ॥ 19 ॥

अज्ञानाद्भवतः पुत्र स्सहसाऽभिहतो मया ।
शेषमेवं गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ 20 ॥

स तच्च्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ।
नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ॥ 21 ॥

स बाष्पपूर्णवदनो निश्श्वसन्शोककर्शितः ।
मामुवाच महातेजाः कृतांजलिमुपस्थितम् ॥ 22 ॥

यद्येतदशुभं कर्म न त्वं मे कथयेस्स्वयम् ।
फलेन्मूर्धा स्म ते राजन् सद्य श्शतसहस्रधा ॥ 23 ॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञानपूर्वं कृत स्स्थानाच्च्यावयेदपि वज्रिणम् ॥ 24 ॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतश्शस्त्रं तादृशे ब्रह्मावादिनि ॥ 25 ॥

अज्ञानाद्धिकृतं यस्मादिदं तेनैव जवसि ।
अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान् ॥ 26 ॥

नय नौ नृप तं देशमिति मां चाभ्यभाषत ।
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ 27 ॥

रुधिरेणावसिक्तांगं प्रकीर्णाजिनवाससम् ।
शयानं भुवि निस्संज्ञं धर्म राजवशं गतम् ॥ 28 ॥

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ 29 ॥

नाभिवादयसे माद्य न च माऽमभिभाषसे ।
किं नु शेषे तु भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ 30 ॥

न त्वहं ते प्रियं पुत्र मातरं पश्य धार्मिक ।
किं नु नालिंगसे पुत्र सुकुमार वचो वद ॥ 31 ॥

कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयंगमम् ।
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ 32 ॥

को मां संद्यामुपास्यैव स्नात्वा हुतहुताशनः ।
श्लाघयिष्यत्युपासीनः पुत्र शोकभयार्दितम् ॥ 33 ॥

कंदमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।
भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ 34 ॥

इमामंधां च वृद्धां च मातरं ते तपस्विनीम् ।
कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ 35 ॥

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति ।
श्वो मया सह गंतासि जनन्या च समेधितः ॥ 36 ॥

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।
क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ 37 ॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृशस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥ 38 ॥

अपापोऽसि यदा पुत्र निहतः पापकर्मणा ।
तेन सत्येन गच्छाऽऽशु ये लोकाश्शस्त्रयोधिनाम् ॥ 39 ॥

यांति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः ।
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ 40 ॥

यां गतिं सगरश्शैब्यो दिलीपो जनमेजयः ।
नहुषो दुंदुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ 41 ॥

या गति स्सर्वसाधूनां स्वाध्यायात्तपसाच या ।
या भूमिदस्याहिऽताग्नेरेकपत्नी व्रतस्य च ॥ 42 ॥

गोसहस्रप्रदातृणां या या गुरुभृतामपि ।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ 43 ॥

न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् ।
स तु यास्यति येन त्वं निहतो मम बांधवः ॥ 44 ॥

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।
ततोऽस्मै कर्तुमुदकं प्रवृत्तस्सहभार्यया ॥ 45 ॥

स तु दिव्येन रूपेण मुनिपुत्रस्स्वकर्मभिः ।
स्वर्गमध्यारुहत्क्षिप्रं शक्रेण सह धर्मवित् ॥ 46 ॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्यच मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ 47 ॥

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् ।
भवंतावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ 48 ॥

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेंद्रियः ॥ 49 ॥

स कृत्वा तूदकं तूर्णं तापस स्सह भार्यया ।
मामुवाच महातेजाः कृतांजलिमुपस्थितम् ॥ 50 ॥

अद्यैव जहिं मां राजन्मरणे नास्ति मे व्यथा ।
यच्छरेणैकपुत्रं मां त्वमकर्षीरपुत्रकम् ॥ 51 ॥

त्वया तु यदविज्ञानान्निहतो मे सुतश्शुचिः ।
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ 52 ॥

पुत्रव्यसनजं दुःखं यदेतन्मम सांप्रतम् ।
एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि ॥ 53 ॥

अज्ञानात्तु हतो यस्मात्क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ 54 ॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितांतकरो घोरो दातारमिव दक्षिणा ॥ 55 ॥

एवं शापं मयि न्यस्य विलप्य करुणं बहु ।
चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ 56 ॥

तदेतच्छिंतयानेन स्मृतं पापं मया स्वयम् ।
तदा बाल्यात्कृतं देवि शब्दवेध्यनुशिक्षिणा ॥ 57 ॥

तस्यायं कर्मणो देवि विपाकस्समुपस्थितः ।
अपथ्यैस्सहंभुक्ते व्याधिरन्नरसे यथा ॥ 58 ॥

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ।
यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ 59 ॥

चक्षुभ्यां त्वां न पश्यामि कौसल्ये साधु मां स्फृश ।
इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ 60 ॥

एतन्मे सदृशं देवि यन्मया राघवे कृतम् ।
सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ 61 ॥

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ 62 ॥

यदि मां संस्पृशेद्रामस्सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यंति न हि मानवाः ॥ 63 ॥

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।
दूता वैवस्वतस्यैते कौसल्ये त्वरयंति माम् ॥ 64 ॥

अतस्तु किं दुःखतरं यदहं जीवितक्षये ।
न हि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ 65 ॥

तस्यादर्शनजश्शोकस्सुतस्याप्रतिकर्मणः ।
उच्छोषयति मे प्राणान्वारिस्तोकमिवातपः ॥ 66 ॥

न ते मनुष्या देवास्ते ये चारुशुभकुंडलम् ।
मुखं द्रक्ष्यंति रामस्य वर्षे पंचदशे पुनः ॥ 67 ॥

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।
धन्या द्रक्ष्यंति रामस्य ताराधिपनिभं मुखम् ॥ 68 ॥

सदृशं शारदस्येंदोः पुल्लस्य कमलस्य च ।
सुगंधि मम नाथस्य धन्या द्रक्ष्यंति तन्मुखम् ॥ 69 ॥

निवृत्तवनवासं तमयोध्यां पुनरागतम् ।
द्रक्ष्यंति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ 70 ॥

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।
वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ॥ 71 ॥

चित्तनाशाद्विपद्यंते सर्वाण्येंद्रियाणि मे ।
क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ 72 ॥

अयमात्मभवश्शोको मामनाथमचेतनम् ।
संसादयति वेगेन यथा कूलं नदीरयः ॥ 73 ॥

हा राघव महाबाहो हा ममाऽयासनाशन ।
हा पितृप्रिय मे नाथ हाऽद्य क्वासि गतस्सुत ॥ 74 ॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ 75 ॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथ श्शोचंजीवितांतमुपागमत् ॥ 76 ॥

यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्त्रस्य विवासनातुरः ।
गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ 77 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: