श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ षडशीतितमस्सर्गः ।
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः ।
भरतायाप्रमेयाय गुहो गहनगोचरः ॥ 1 ॥
तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम् ।
भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमबृवम् ॥ 2 ॥
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।
प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन ॥ 3 ॥
उचितोऽयं जनस्सर्वो दुःखानां त्वं सुखोचितः ।
धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ 4 ॥
नहि रामात्प्रियतरो ममास्ति भुवि कश्चन ।
मोत्सुकोऽभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ 5 ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः ।
धर्मावाप्तिं च विपुलामर्थकामौ च केवलम् ॥ 6 ॥
सोऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणि स्सर्वै स्स्वैर्ज्ञातिभिस्सह ॥ 7 ॥
न हि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरत स्सदा ।
चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ 8 ॥
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ 9 ॥
कथं दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 10 ॥
यो न देवासुरैस्सर्वैश्शक्यः प्रसहितुं युधि ।
तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ 11 ॥
महता तपसा लब्धो विविधैश्च परिश्रमैः ।
एको दशरथस्यैष पुत्रस्सदृशलक्षणः ॥ 12 ॥
अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 13 ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषो विरतो नूनमध्य राजनिवेशने ॥ 14 ॥
कौसल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवेयुस्सर्वे ते शर्वरीमिमाम् ॥ 15 ॥
जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया ।
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ 16 ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 17 ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 18 ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादम्पन्नां सर्वरत्नविभूषिताम् ॥ 19 ॥
गजाश्वरथसम्बाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ 20 ॥
आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 21 ॥
अपिसत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ 22 ॥
परिदेवयमानस्य तस्यैवं सुमहात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ 23 ॥
प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ 24 ॥
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ।
वरेषुचापासिधरौ परन्तपौ व्यपेक्षमाणौ सह सीतया गतौ ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे षडशीतितमस्सर्गः ॥