श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ चतुर्विंशस्सर्गः ।
आश्रमं प्रति याते तु खरे खरपराक्रमे ।
तानेवौत्पातिकान्रामस्सह भ्रात्रा ददर्श ह ॥ 1 ॥
तानुत्पातान्महोघोरानुत्थितान्रोमहर्षणान् ।
प्रजानामहितान्दृष्ट्वा रामो लक्ष्मणमब्रवीत् ॥ 2 ॥
इमान्पश्य महाबाहो सर्वभूतापहारिणः ।
समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् ॥ 3 ॥
अमी रुधिरधारास्तु विसृजन्तः खरस्वनाः ।
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः ॥ 4 ॥
सधूमाश्च शरास्सर्वे मम युद्धाभिनन्दिनः ।
रुक्मपृष्ठानि चापानि विचेष्टन्ते च लक्ष्मण ॥ 5 ॥
यादृशा इह कूजन्ति पक्षिणः वनचारिणः ।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ 6 ॥
सम्प्रहारस्तु सुमहान्भविष्यति न संशयः ।
अयमाख्याति मे बाहुस्स्फुरमाणो मुहुर्मुहुः ॥ 7 ॥
सन्निकर्षे तु न श्शूर जयं शत्रोः पराजयम् ।
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥ 8 ॥
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ 9 ॥
रक्षसां नर्दतां घोरश्श्रूयते च महाध्वनिः ।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥ 10 ॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ 11 ॥
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः ।
गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम् ॥ 12 ॥
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ।
शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ 13 ॥
त्वं हि शूरश्च बलवान्हन्याह्येतान्न संशयः ।
स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥ 14 ॥
एवमुक्तस्तु रामेण लक्ष्मणस्सह सीताया ।
शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥ 15 ॥
तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ 16 ॥
स तेनाग्नि निकाशेन कवचेन विभूषितः ।
बभूव राम स्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ 17 ॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान् ।
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ॥ 18 ॥
ततो देवास्सगन्धर्वास्सिद्धाश्च सह चारणैः ।
समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥ 19 ॥
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः ।
समेत्य चोचुस्सहिता अन्योन्यं पुण्यकर्मणः ॥ 20 ॥
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः ।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ 21 ॥
चक्रहस्तो यथा युद्धे सर्वानसुर पुङ्गवान् ।
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥ 22 ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ 23 ॥
इति राजर्षयस्सिद्धास्सगणाश्च द्विजर्षभाः ।
जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥ 24 ॥
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ 25 ॥
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥ 26 ॥
ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् ।
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ॥ 27 ॥
सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ।
चापानि विस्फारयतां जृम्भतामप्यभीक्ष्णशः ॥ 28 ॥
विप्रघुष्टस्वनानां च दुन्धुभींश्चापि निघ्नताम् ।
तेषां सुतुमुलश्शब्दः पूरयामास तद्वनम् ॥ 29 ॥
तेन शब्देन वित्रस्ताश्वापदा वनचारिणः ।
दुद्रुवुर्यत्र निश्शब्दं पृष्ठतो न व्यलोकयन् ॥ 30 ॥
तत्त्वनीकं महाघोरं रामं समुपसर्पत ।
धृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥ 31 ॥
रामोऽपि चारयंश्चक्षुस्सर्वतो रणपण्डितः ।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥ 32 ॥
वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥ 33 ॥
दुष्प्रेक्ष्यस्सोऽभवत्कृद्धो युगान्ताग्निरिव ज्वलन् ।
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥ 34 ॥
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा ।
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥ 35 ॥
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ 36 ॥
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः ।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रबृन्दम् ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुर्विंशस्सर्गः ॥