श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।
अथ प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम् ।
अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ॥ 1 ॥
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ 2 ॥
मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् ।
वृतं कपिवरै श्शूरैर्महेन्द्रसदृशद्युतिम् ॥ 3 ॥
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् ।
मरीचिपुत्रान्मारीचानर्चिर्मालान्महाबलान् ॥ 4 ॥
ऋषिपुत्रांश्चतान्त्सर्वान्प्रतीचीमादिशद्दिशम् ।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ 5 ॥
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गतः ।
सुराष्ट्रान्सहबाह्लीकान् श्चन्द्रचित्रांस्तथैव च ॥ 6 ॥
स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च ।
पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् ॥ 7 ॥
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ।
प्रत्यक्स्रोतोगमाश्चैव नद्यश्शीतजलाश्शिवाः ॥ 8 ॥
तापसानामरण्यानि कान्तारा गिरयश्च ये ।
तत्रस्थलीं मरुप्रायामत्युच्चशिरसश्शिलाः ॥ 9 ॥
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ।
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ ॥ 10 ॥
तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ।
ततः केतकषण्डेषु तमालगहनेषु च ॥ 11 ॥
कपयो विहरिष्यन्ति नारिकेलवनेषु च ।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥ 12 ॥
वेलातलनिविष्टेषु पर्वतेषु वनेषु च ।
मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् ॥ 13 ॥
अवन्तीमङ्गलोपां च तथा चालक्षितं वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ 14 ॥
सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः ।
महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ 15 ॥
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः ।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ 16 ॥
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिस्वनाः ॥ 17 ॥
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ।
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ॥ 18 ॥
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ।
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् ॥ 19 ॥
दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः ।
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तपस्विनाम् ॥ 20 ॥
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ।
पावकार्चिः प्रतीकाशास्समवेतास्सहस्रशः ॥ 21 ॥
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ।
नादेयं च फलं तस्माद्देशात्किञ्चित् प्लवङ्गमैः ॥ 22 ॥
दुरासदा हि ते वीरा स्सत्त्ववन्तो महाबलाः ।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ 23 ॥
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी ।
न हि तेभ्यो भयं किञ्चित्कपित्वमनुवर्तताम् ॥ 24 ॥
तत्र वैढूर्यवर्णाभो वज्रसंस्थानसंस्थितः ।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ 25 ॥
श्रीमान्समुदितस्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्या प्रयत्नेन प्लवङ्गमाः ॥ 26 ॥
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः ।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ 27 ॥
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ 28 ॥
तस्य सानुषु चित्रेषु विशालासु गुहासु च ।
रावण स्सह वैदेह्या मार्गितव्यस्तत स्ततः ॥ 29 ॥
योजनानां चतुष्षष्टिर्वराहो नाम पर्वतः ।
सुवर्णशृङ्गस्सुश्रीमा नगाधे वरुणालये ॥ 30 ॥
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् ।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ 31 ॥
तत्र सानुषु चित्रेषु विशालासु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 32 ॥
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः ।
पर्वत स्सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ 33 ॥
तं गजाश्च वराहाश्च सिंह व्याघ्राश्च सर्वतः ।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ 34 ॥
यस्मिन्हरिहय्शीमान्महेन्द्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ 35 ॥
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् ।
षष्टि र्गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ 36 ॥
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैर्वृक्षै शोभितानि सुपुष्पितैः ॥ 37 ॥
तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ 38 ॥
तेनैव मुक्तश्शैलेन्द्रस्सर्व एव त्वदाश्रयाः ।
मत्प्रसादाद्भविष्यन्ति दिवा रात्रं च काञ्चनाः ॥ 39 ॥
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः ।
ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ 40 ॥
विश्वे देवाश्च मरूतो वसवश्च दिवौकसः ।
आगम्य पश्चिमां सन्ध्यां मेरुमुत्तमपर्वतम् ॥ 41 ॥
आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः ।
अदृश्यस्सर्वभूतानामस्तं गच्छतिपर्वतम् ॥ 42 ॥
योजनानां सहस्राणि दश तानि दिवाकरः ।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ 43 ॥
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम् ।
प्रासादगणसम्बाधं विहितं विश्वकर्मणा ॥ 44 ॥
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः ।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ 45 ॥
अन्तरा मेरुमस्तं च तालो दशशिरा महान् ।
जातरूपमय्शीमान्भ्राजते चित्रवेदिकः ॥ 46 ॥
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणस्सह वैदेह्या मार्गितव्यस्तत स्ततः ॥ 47 ॥
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः ।
मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ 48 ॥
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ 49 ॥
एताव ज्जीवलोकस्य भास्करो रजनीक्ष्ये ।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ 50 ॥
एतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 51 ॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च ।
अस्त पर्वतमासाद्य पूर्णे मासे निवर्तत ॥ 52 ॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ।
सहैव शूरो युष्माभिश्श्वशुरो मे गमिष्यति ॥ 53 ॥
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ।
गुरुरेष महाबाहुश्श्वशुरो मे महाबलः ॥ 54 ॥
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व कर्मसु ।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ 55 ॥
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः ।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ 56 ॥
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत् ।
सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ 57 ॥
ततः सुषेणप्रमुखाः प्लवङ्गामाः स्सुग्रीव वाक्यं निपुणं निशम्य ।
आमन्त्य्र सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ 58 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विचत्वारिंशस्सर्गः ॥