श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ सप्तषष्टितमस्सर्गः ।
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् ।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ 1 ॥
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः ।
विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम् ॥ 2 ॥
प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः ।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ 3 ॥
संस्तूयमानो हनुमान्व्यवर्धत महाबलः ।
समाविध्य च लाङ्गूलं हर्षाद्बलमुपेयिवान् ॥ 4 ॥
तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः ।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ 5 ॥
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे ।
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥ 6 ॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः ।
अम्बरीषमिवाऽदीप्तं विधूम इव पावकः ॥ 7 ॥
हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः ।
अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् ॥ 8 ॥
अरुजत्सर्वताग्राणि हुताशनसखोऽनिलः ।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ 9 ॥
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः ।
मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः ॥ 10 ॥
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् ।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ 11 ॥
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे ।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ 12 ॥
ममोरुजङ्घावेगेन भविष्यति समुत्थितः ।
सम्मूर्च्छितमहाग्राहस्समुद्रो वरुणालयः ॥ 13 ॥
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते ।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ 14 ॥
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् ।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ 15 ॥
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे ।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ 16 ॥
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् ।
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् ॥ 17 ॥
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः ।
हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ 18 ॥
लतानां विविधं पुष्पं पादपानां च सर्वशः ।
अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ 19 ॥
भविष्यति हि मे पन्थास्स्वातेः पन्था इवाम्बरे ।
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ॥ 20 ॥
द्रक्ष्यन्ति निपतिष्यन्तं च सर्वभूतानि वानराः ।
महामेरुप्रतीकाशं मां द्रक्ष्यथ वानराः ॥ 21 ॥
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् ।
विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् ॥ 22 ॥
सागरं शोषयिष्यामि प्लवमानस्समाहितः ।
वैनतेयस्य या शक्तिर्मम सा मारुतस्य वा ॥ 23 ॥
ऋते सुपर्णराजानं मारुतं वा महाजवम् ।
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ 24 ॥
निमेषान्तरमात्रेण निरालम्बनमम्बरम् ।
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ 25 ॥
भविष्यति हि मे रूपं प्लवमानस्य सागरे ।
विष्णोर्विक्रममाणस्य पुरा त्रीन्विक्रमानिव ॥ 26 ॥
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा ।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ 27 ॥
मारुतस्य समो वेगे गरुडस्य समो जवे ।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ 28 ॥
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः ।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ 29 ॥
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः ।
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ॥ 30 ॥
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः ।
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ 31 ॥
उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः ।
वीर केसरिणः पुत्र हनुमान्मारुतात्मज ॥ 32 ॥
ज्ञातीनां विपुलश्शोकस्त्वया तात प्रणाशितः ।
तव कल्याणरुचयः कपिमुख्यास्समागताः ॥ 33 ॥
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः ।
ऋषीणां च प्रसादेन कपिवृद्धमतेन च ॥ 34 ॥
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ।
स्थास्यामश्चैकपादेन यावदागमनं तव ॥ 35 ॥
त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् ।
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ 36 ॥
नेयं मम मही वेगं लङ्घने धारयिष्यति ।
एतानीह नगस्यास्य शिलासङ्कटशालिनः ॥ 37 ॥
शिखराणि महेन्द्रस्य स्थिराणि सुमहान्ति च ।
एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् ॥ 38 ॥
नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु ।
एतानि मम निष्पेषं पादयोः प्लवतां वराः ॥ 39 ॥
प्लवतो धारयिष्यन्ति योजनानामितश्शतम् ।
ततस्तं मारुतप्रख्यस्सहरिर्मारुतात्मजः ॥ 40 ॥
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ।
वृतं नानाविधैः वृक्षैर्मृगसेवितशाद्वलम् ॥ 41 ॥
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ।
सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् ॥ 42 ॥
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ।
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः ॥ 43 ॥
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ।
पादाभ्यां पीडितस्तेन महाशैलो महात्मना ॥ 44 ॥
रराज सिंहाभिहतो महान्मत्त इव द्विपः ।
मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः ॥ 45 ॥
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः ।
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ 46 ॥
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि ।
त्यज्यमानमहासानुस्सन्निलीनमहोरगः ॥ 47 ॥
चलशृङ्गशिलोद्घातस्तदाऽभूत्स महागिरिः ।
निश्श्वसद्भिस्तदाऽर्तैस्तु भुजङ्गैरर्धनिःसृतैः ॥ 48 ॥
सपताक इवाभाति स तदा धरणीधरः ।
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः ॥ 49 ॥
सीदन्महति कान्तारे सार्थहीन इवाध्वगः ।
सवेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता ।
मनस्समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्टितमस्सर्गः ॥