श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ एकोनचत्वारिंशस्सर्गः ।
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् ।
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ॥ 1 ॥
मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ 2 ॥
स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।
अस्मिन्कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ॥ 3 ॥
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।
हनुमन्यत्नमास्थाय दुःखक्षयकरो भव ॥ 4 ॥
तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥ 5 ॥
शिरसा वन्ध्य वैदेहीं गमनायोपचक्रमे ।
ज्ञात्वा सम्प्रस्थितं देवी वानरं मारुतात्मजम् ॥ 6 ॥
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।
कुशलं हनुमन्ब्रूयाः सहितौ रामलक्ष्मणौ ॥ 7 ॥
सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान् ।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ 8 ॥
यथा स च महाबाहुर्मां तारयति राघवः ।
अस्माद्धुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ॥ 9 ॥
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।
तत्तथा हनुमन्वाच्यं वाचा धर्ममवाप्नुहि ॥ 10 ॥
नित्यमुत्साहयुक्ताश्च वाचश्रुत्वा त्वयेरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ 11 ॥
मत्सन्देशयुता वाचस्त्वत्तश्श्रुत्वा च राघवः ।
पराक्रमविधिं वीरो विधिवत्संविधास्यति ॥ 12 ॥
सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ 13 ॥
क्षिप्रमेष्यति काकुत्स्थो हार्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन्शोकं व्यपनयिष्यति ॥ 14 ॥
न हि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।
यस्तस्य क्षिपतो बाणान्स्थातुमुत्सहतेऽग्रतः ॥ 15 ॥
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ 16 ॥
स हि सागरपर्यन्तां महीं शासितुमीहति ।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ 17 ॥
तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम् ।
जानकी बहुमेनेऽथ वचनं चेदमब्रवीत् ॥ 18 ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ 19 ॥
यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित्संवृते देशे विश्रान्तःश्वो गमिष्यसि ॥ 20 ॥
मम चेदल्पभाग्याया सान्निध्यात्तव वानर ।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ 21 ॥
गते हि हरिशार्दूल पुनरागमनाय तु ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ॥ 22 ॥
तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्धुःखपरामृष्टां दीपयन्निव वानर ॥ 23 ॥
अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वरः ॥ 24 ॥
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ 25 ॥
त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ 26 ॥
तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ॥ 27 ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ 28 ॥
बलैस्समग्रैर्यदि मां रावणं जित्य संयुगे ।
विजयी स्वपुरं यायात्तत्तस्य सदृशं भवेत् ॥ 29 ॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत् ॥ 30 ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ 31 ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमान्शेषं वाक्यमुत्तरमब्रवीत् ॥ 32 ॥
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवस्सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ॥ 33 ॥
स वानरसहस्राणां कोटीभिरभिसंवृतः ।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ 34 ॥
तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ॥ 35 ॥
येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ 36 ॥
असकृत्तैर्महोत्साहैस्ससागरधराधरा ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ 37 ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ 38 ॥
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ 39 ॥
तदलं परितापेन देवि शोको व्यपैतु ते ।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ 40 ॥
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ॥ 41 ॥
ततो वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ 42 ॥
सगणं रावणं हत्त्वा राघवो रघुनन्दनः ।
त्वामादाय वरारोहे स्वपुरीं प्रतियास्यति ॥ 43 ॥
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।
नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥ 44 ॥
निहते राक्षसेन्द्रेऽस्मिन्सपुत्रामात्यबान्धवे ।
त्वं समेष्वसि रामेण शशाङ्केनेव रोहिणी ॥ 45 ॥
क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात् ॥ 46 ॥
एवमाश्वास्य वैदेहीं हनुमान्मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ 47 ॥
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम् ॥ 48 ॥
नखदंष्ट्रायुधान्वीरान्सिम्हशार्दूलविक्रमान् ।
वानरान्वारणेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् ॥ 49 ॥
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामार्ये यूधान्यनेकशः ॥ 50 ॥
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।
न शर्म लभते रामस्सिंहार्धित इव द्विपः ॥ 51 ॥
मा रुदो देवि शोकेन माभूत्ते मनसोऽप्रियम् ।
शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ॥ 52 ॥
रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः ।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ 53 ॥
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे ।
न ते चिरादामगमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ॥ 54 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे एकोनचत्वारिंशस्सर्गः ॥