View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.20 युद्धकाण्ड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ विंशस्सर्गः ।

ततोनिविष्टान्ध्वजिनींसुग्रीवेणाभिपालिताम् ।
ददर्शराक्षसोऽभ्येत्यशार्दूलोनामवीर्यवान् ॥ 1 ॥

चारोराक्षसराजस्यरावणस्यदुरात्मनः ।
तान्दृष्ट्वासर्वतोव्यग्रम्प्रतिगम्यसराक्षसः ॥ 2 ॥

आविश्य लङ्कां वेगेन राजानमिदमब्रवीत् ।
एष वै वानरर्क्षघो लङ्कां समभिवर्तते ॥ 3 ॥

पुत्रौदशरथस्येमौभ्रातरौरामलक्ष्मणौ ॥ 4 ॥

उत्तमौरूपसम्पन्नौसीतायाःपदमागतौ ।
एतौसागरमासाद्यसन्निविष्टौमहाद्युती ॥ 5 ॥

बलञ्चामाकाशमावृत्यसर्वतोदशयोजनम् ।
तत्त्वभूतम्महाराज क्षिप्रंवेदितुमर्हसि ॥ 6 ॥

तवदूतामहाराजक्षिप्रमर्हन्त्यवेक्षितुम् ।
उपप्रदानंसान्त्वंवाभेदोवात्रप्रयुज्यताम् ॥ 7 ॥

शार्दूलस्यवचश्श्रुत्वारावणोराक्षसेश्वरः ।
उवाचसहसाव्यग्रस्सम्प्रधार्यार्थमात्मनः ॥ 8 ॥

शुकन्नामतदारक्षोवाक्यमर्थविदांवरम् ।
सुग्रीवम्ब्रूहिगत्वाशुराजानंवचनान्मम ।
यथासन्देशमक्लीबंश्लक्ष्णयापरयागिरा ॥ 9 ॥

त्वंवैमहाराजकुलप्रसूतोमहाबलश्चर् क्षरजस्सुतश्च ।
नकश्चिदार्थस्तवनास्त्यनर्थस्तथाहिमेभ्रातृसमोहरीश ॥ 10 ॥

अहंयद्यहरम्भार्यांराजपुत्रस्यधीमतः ।
किन्तत्रतवसुग्रीवः किष्किन्धाम्प्रतिगम्यताम् ॥ 11 ॥

नहीयंहरिभिर्लङ्काशक्याप्राप्तुङ्कथञ्चन ।
देवैरपिसगन्धर्वैःकिम्पुनर्नरवानरैः ॥ 12 ॥

सतथाराक्षसेन्द्रेणसन्दिष्टोरजनीचरः ।
शुकोविहङ्गमोभूत्वातूर्णमाप्लुत्यचाम्बरम् ॥ 13 ॥

सगत्वादूरमध्वानमुपर्युपरिसागरम् ।
संस्थितोह्यम्बरेवाक्यंसुग्रीवमिदमब्रवीत् ॥ 14 ॥

सर्वमुक्तंयथादिष्टंरावणेनदुरात्मना ।
तम्प्रापयन्तंवचनन्तूर्णमाप्लुत्यवानराः ॥ 15 ॥

प्रापद्यन्तदिवङ्क्षिप्रंलोप्तुंहन्तुञ्चमुष्टिभिः ।
सतैःप्लवङ्गैःप्रसभन्निगृहीतोनिशाचरः ।
गगनाद्भूतलेचाशुपरिगृह्यनिपातितः ॥ 16 ॥

वानरैःपीड्यमानस्तुशुकोवचनमब्रवीत् ।
नदूतान्घ्नन्तिकाकुत्स्थ वार्यन्तांसाधुवानराः ॥ 17 ॥

यस्तुहित्वामतम्भर्तुस्स्वमतंसम्प्रभाषते ।
अनुक्तवादीदूतस्सन् सदूतोवधमर्हति ॥ 18 ॥

शुकस्यवचनंश्रुत्वारामस्तुपरिदेवितम् ।
उवाचमावधिष्टेतिघ्नतश्शाखामृगर्षभान् ॥ 19 ॥

सचपत्रलघुर्भूत्वाहरिभिर्दर्शितेभये ।
अन्तरिक्षेस्थितोभूत्वापुनर्वचनमब्रवीत् ॥ 20 ॥

सुग्रीवःस त्त्वसम्पन्नः महाबलपराक्रमः ।
किम्मयाखलुवक्तव्योरावणोलोकरावणः ॥ 21 ॥

सएवमुक्तःप्लवगाधिपस्तदाप्लवङ्गमानामृषभोमहाबलः ।
उवाचवाक्यंरजनीचरस्यचारंशुकन्तूर्णमदीनसत्त्वः ॥ 22 ॥

नमेऽसिमित्रन्नतथानुकम्प्योनचोपकर्तापिनमेप्रियोऽसि ।
अरिश्चरामस्यसहानुबन्धस्ततोऽसिवालीववधार्हवध्यः ॥ 23 ॥

निह्नन्म्यहन्त्वांससुतंसबन्धुंसज्ञातिवर्गरजनीचरेश ।
लङ्काञ्चसर्वाम्महताबलेनक्षिप्रङ्करिष्यामिसमेत्यभस्म ॥ 24 ॥

नमोक्षयसेरावणः राघवस्यसुरैस्सहेन्द्रैदपिमूढगुप्तः ।
अन्तर्हितस्सूर्यपथङ्गतोऽवा ।
तथैवपातालमनुप्रविष्टः ॥ 25 ॥

गिरीशपादम्बुजसङ्गतोवाहतोऽसिरामेणसहानुजस्त्वम् ॥ 26 ॥

तस्यतेत्रिषुलोकेषुनपिशाचन्नराक्षसम् ।
त्रातारमनुपश्यामिनगन्धर्वन्नचासुरम् ॥ 27 ॥

अवधीर्यजरावृद्दङ्गृध्रराजञ्जटायुषम् ।
किन्नुतेरामसान्निध्येसकाशेलक्ष्मणस्यवा ॥ 28 ॥

हृतासीताविशालाक्षीयान्त्वङ्गृह्यनबुध्यसे ।
महाबलम्महात्मानन्दुर्धर्षममरैरपि ।
नबुध्यसेरघुश्रेष्ठंयस्तेप्राणान्हरिष्यति ॥ 29 ॥

ततोऽब्रवीद्वालिसुतस्त्वङ्गदोहरिसत्तमः ।
नायन्दूतोमहाराजचारिकःप्रतिभातिमे ॥ 30 ॥

तुलितंहिबलंसर्वमनेनात्रैवतिष्ठता ।
गृह्यताम्मागमल्लङ्कामेतद्दिममरोचते ॥ 31 ॥

ततोराज्ञासमादिष्टास्समुत्पत्यवलीमुखाः ।
जगृहुश्चबबन्धुश्चविलपन्तमनाथवत् ॥ 32 ॥

शुकस्तुवानरैश्चण्डैस्तत्रतैस्सम्प्रपीडितः ।
व्याचुक्रोशमहात्मानंरामन्दशरथात्मजम् ॥ 33 ॥

लुप्येतेमेबलात्पक्षौभिद्येतेमेतथाऽक्षिणी ॥ 34 ॥

याञ्चरात्रिम्मरिष्यामिजायेरात्रिञ्चयामहम् ।
एतस्मिन्नन्तरेकालेयन्मयाह्यशुभङ्कृतम् ॥ 35 ॥

सर्वन्त्वमुपपद्येधाजह्याञ्चेद्यदिजीवितम् ।
नाघातयत्तदारामश्श्रुत्वातत्परिदेवनम् ।
वानरानब्रवीद्रामोमुच्यतान्दूतआगतः ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे विंशस्सर्गः ॥




Browse Related Categories: