श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रिंशस्सर्गः ।
ततस्तमक्षोभ्यबलंलङ्काधिपतयेचराः ।
सुवेलेराघवंशैलेनिविष्टम्प्रत्यवेदयन् ॥ 1 ॥
चाराणांरावणश्श्रुत्वाप्राप्तंरामम्महाबलम् ।
जातोद्वेगोऽभवत्किञ्चिच्छार्दूलंवाक्यमब्रवीत् ॥ 2 ॥
अयथावच्चतेवर्णोदीनश्चासिनिशाचर ।
नासिकच्चिदमित्राणाङ्क्रुद्धानांवशमागतः ॥ 3 ॥
इतितेनानुशिष्टस्तुवाचम्मन्दमुदीरयत् ।
तदाराक्षसशार्दूलंशार्दूलोभयविह्वलः ॥ 4 ॥
नतेचारयितुंशक्याराजन्वानरपुङ्गवाः ।
विक्रान्ताबलवन्तश्चराघवेणचरक्षिताः ॥ 5 ॥
नापिसम्भाषितुंशक्यास्सम्प्रश्नोऽत्रनलभ्यते ।
सर्वतोरक्ष्यतेपन्थावानरैःपर्वतोपमै ॥ 6 ॥
प्रविष्टमात्रेज्ञातोऽहम्बलेतस्मिन्नचारिते ।
बलाद्गृहीतोरक्षोभिर्बहुधाऽस्मिविचालितः ॥ 7 ॥
जानुभिर्मुष्टिभिर्दन्तेस्तलैश्चाभिहतोभृशम् ।
परिणीतोऽस्मिहरिभिर्बलवद्भिरमर्षणैः ॥ 8 ॥
परिणीयचसर्वत्रनीतोऽहंरामसंसदम् ।
रुधिरादिग्धसर्वाङ्गोविह्वलश्चलितेन्द्रियः ॥ 9 ॥
हरिभिर्वध्यमानश्चयाचमानःकृताञ्जलिः ।
राघवेणपरित्रातोजीवामीतियदृच्छया ॥ 10 ॥
एषशैलैश्शिलाभिश्चपूरयित्वामहार्णवम् ।
द्वारमाश्रित्यलङ्कायारामस्तिष्ठतिसायुधः ॥ 11 ॥
गरुडव्यूहमास्थायसर्वतोहरिभिर्वृतः ।
मांविसृज्यमहातेजालङ्कामेवाभिवर्तते ॥ 12 ॥
पुराप्राकारमायातिक्षिप्रमेकतरङ्कुरु ।
सीतांवास्मैप्रयच्छाशुयुद्धंवाप्रदीयताम् ॥ 13 ॥
मनसातन्तदाप्रेक्ष्यतच्छ्रुत्वाराक्षसाधिपः ।
शार्दूलंसुमहद्वाक्यमथोवाचसरावणः ॥ 14 ॥
यदिमाम्प्रतियुध्येरन्देवगन्धर्वदानवाः ।
नैवसीताम्प्रदास्यामिसर्वलोकभयादपि ॥ 15 ॥
एवमुक्त्वामहातेजारावणःपुनरब्रवीत् ।
चरिताभवतासेनाकेऽत्रशूराःप्लवङ्गमाः ॥ 16 ॥
कीदृशाः किम्प्रभाः सौम्यवानरायेदुरासदाः ।
कस्यपुत्राश्चपौत्राश्चतत्त्वमाख्याहिराक्षसः ॥ 17 ॥
तथात्रप्रतिपत्स्यामिज्ञात्वातेषाम्बलाबलम् ।
अवश्यम्बलसङ् ख्यानङ्कर्तव्यंयुद्धमिच्छताम् ॥ 18 ॥
अथैवमुक्तश्शार्दूलोरावणेनोत्तमश्चरः ।
इदंवचनमारेभेवक्तुंरावणसन्निधौ ॥ 19 ॥
अथर्क्षरजसःपुत्रोयुधिराजासुदुर्जयः ।
गद्गदस्याथपुत्त्रोऽत्रजाम्बवानितिविश्रुतः ॥ 20 ॥
गद्गदस्यैवपुत्त्रोऽन्योगुरुपुत्रः शतक्रतोः ।
कदनंयस्यपुत्रेणकृतमेकेनरक्षसाम् ॥ 21 ॥
सुषेणश्चापिधर्मात्मापुत्रोधर्मस्यवीर्यवान् ।
सौम्यस्सोमात्मजश्चात्रराजन् दधिमुखःकपिः ॥ 22 ॥
सुमुखोदुर्मुखश्चात्रवेगदर्शीचवानरः ।
मृत्युर्वानररूपेणनूनंसृष्टस्स्वयम्भुवा ॥ 23 ॥
पुत्त्रोहुतवहस्याथनीलस्सेनापतिस्स्वयम् ।
अनिलस्यचपुत्त्रोऽत्रहनूमानितिविश्रुतः ॥ 24 ॥
नप्ताशक्रस्यदुर्धर्षोबलवानङ्गदोयुवा ।
मैन्दश्चद्विविदश्चोभौबलिनावश्विसम्भवौ ॥ 25 ॥
पुत्त्रावैवस्वतस्यात्रपञ्चकालान्तकोपमाः ।
गजोगवाक्षोगवयश्शरभोगन्धमादनः ॥ 26 ॥
दशवानरकोट्यश्चशूराणांयुद्धकाङ्क्षिणाम् ।
श्रीमतान्देवपुत्त्राणांशेषन्नाख्यातुमुत्सहे ॥ 27 ॥
पुत्त्रोदशरथस्यैषसिंहसंहनोयुवा ।
दूषणोनिहतोयेनखरश्चत्रिशिरास्तथा ॥ 28 ॥
नास्तिरामस्यसदृशोविक्रमेभुविकश्चन ।
विराधोनिहतोयेनकबन्धश्चान्तकोपमः ॥ 29 ॥
वक्तुन्नशक्तोरामस्यनरःकश्चिद्गुणान् क्षितौ ।
जनस्थानगतायेनयावन्तोराक्षसाहताः ॥ 30 ॥
लक्ष्मणश्चात्रधर्मात्मामातङ्गानामिवर्षभः ।
यस्यबाणपथम्प्राप्यनजीवेदपिवासवः ॥ 31 ॥
श्वेतोज्योतिर्मुखश्चात्रभास्करस्यात्मसम्भवौ ।
वरुणस्यचपुत्त्रोऽन्योःहेमकूटःप्लवङ्गमः ॥ 32 ॥
विश्वकर्मसुतोवीरोनलःप्लवगसत्तमः ।
विक्रान्तोबलवानत्रवसुपुत्रस्सदुर्धरः ॥ 33 ॥
राक्षसानांवरिष्ठश्चतवभ्रातावीभीषणः ।
प्रतिगृह्यपुरींलङ्कांराघवस्यहितेरतः ॥ 34 ॥
इतिसर्वंसमाख्यातन्तवेदंवानरम्बलम् ।
सुवेलेऽधिष्ठितंशैलेशेषकार्येभवान्गतिः ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रिंशस्सर्गः ॥