श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चत्वारिंशस्सर्गः ।
ततोरामस्सुवेलाग्रंयोजनद्वयमण्डलम् ।
अरुरोहससुग्रीवोहरियूधपसम्वृतः ॥ 1 ॥
स्थित्वामुहूर्तन्तत्रैवदिशोदशविलोकयन् ।
त्रिकूटशिखरेरम्येनिर्मितांविश्वकर्मणा ॥ 2 ॥
ददर्शलङ्कांसुन्यस्तांरम्यकाननशोभिताम् ।
तस्याङ्गोपुरशृङ्गस्थंराक्षसेन्द्रन्दुरासदम् ॥ 3 ॥
श्वेतचामरपर्यन्तंविजयच्छत्रशोभितम् ।
रक्तचन्दनसंलिप्तंरत्नाभरणभूषितम् ॥ 4 ॥
नीलजीमूतसङ्काशंहेमसञ्छादिताम्बरम् ।
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ 5 ॥
शशलोहितरागेणसंवीतंरक्तवाससा ।
सन्ध्यातपेनसंवीतम्मेघराशिमिवाम्बरे ॥ 6 ॥
पश्यतांवानरेन्द्राणांराघवस्यापिपश्यतः ।
दर्शनाद्राक्षसेन्द्रस्यसुग्रीवस्सहसोत्थितः ॥ 7 ॥
क्रोधवेगेनसंयुक्तस्सत्त्वेनचबलेनच ।
अचलाग्रादथोत्थायपुप्लुवेगोपुरस्थले ॥ 8 ॥
स्थित्वामुहूर्तंसम्प्रेक्ष्यनिर्भयेनान्तरात्मना ।
तृणीकृत्यचतद्रक्षस्सोऽब्रवीत्परुषंवचः ॥ 9 ॥
लोकनाथस्यरामस्यसखादासोऽस्मिराक्षस ।
नमयामोक्ष्यसेऽद्यत्वम्पार्थिवेन्द्रस्यतेजसा ॥ 10 ॥
इत्युक्त्वासहसोत्पत्यपुप्लुवेतस्यचोपरि ।
आकृष्यमुकुटञ्चित्रम्पातयित्वाऽपतद्भुवि ॥ 11 ॥
समीक्ष्यतूर्णमायान्तमबभाषेनिशाचरः ।
सुग्रीवस्त्वपरोक्षं मेहीनग्रीवोभविष्यसि ॥ 12 ॥
इत्युक्त्वोत्थायतङ्क्षिप्रम्बाहुभ्यामाक्षिपत्तले ।
कन्तुवत्तंसमुत्थायबाहुभ्यामाक्षिपद्धरि ॥ 13 ॥
परस्परंस्वेदविदग्धगात्रौपरस्परंशोणितदिग्धदेहौ ।
परस्परंलशिष्टनिरुद्धचेष्टौपरस्परंशाल्मलिकिंशुकौयधा ॥ 14 ॥
मुष्टिप्रहारैश्चतलप्रहारैररत्निघातैश्चकराग्रघातैः ।
तौचक्रतुर्युद्धमसह्यरूपम्महाबलौराक्षसवानरेन्द्रौ ॥ 15 ॥
कृत्वानियुद्धम्भृशमुग्रवेगौकालञ्चिर, गोपुरवेदिमध्ये ।
उत्क्षिप्यचोत्क्षिप्यविनम्यदेहौपादक्रमाद्गोपुरवेदिलग्नौ ॥ 16 ॥
अन्योन्यमाविध्यवेदिलग्नौतौपेततुस्सालनिखातमध्ये ।
उत्पेततुर्भूतलमस्पृशन्तौस्थित्वामुहूर्तन्त्वभिनिश्श्वसन्तौ ॥ 17 ॥
आलिङ् ग्यचालिङ् ग्यचबाहुयोक्स्रैस्संयोजयामासतुराहवेतौ ।
सम्रम्भशिक्षाबलसम्प्रयुक्तौसञ्चेरतुस्सम्प्रतियुद्धमार्गैः ॥ 18 ॥
शार्दूरसिंहाविवजातदर्पौगजेन्द्रपोताविवसम्प्रयुक्तौ ।
संहत्यचापीड्यचतावुरोभ्यान्निपेततुर्वैयुगपद्धरण्याम् ॥ 19 ॥
उद्यम्यचान्योन्यमधिक्षिपन्तौसञ्चक्रमातेबहुयुद्धमार्गेः ।
व्यायामशिक्षाबलसम्प्रयुक्तौक्लमन्नतौजग्मतुराशुवीरौ ॥ 20 ॥
बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौवरवारणाभौ ।
चिरेणकालेनतुसम्प्रयुक्तौसञ्चेरतुर्मण्डलमार्गमाशु ॥ 21 ॥
तौपरस्परमासाद्ययत्तावन्योन्यसूदने ।
मार्जाराविवभक्ष्यार्थेऽवितस्थातेमुहुर्मुहुः ॥ 22 ॥
मण्डलानिविचित्राणिस्थानानिविविधानिच ।
मूत्रकाणिचित्राणिगतप्रत्यागतानिच ॥ 23 ॥
तिरच्शीनगतान्येवतथावक्रगतानिच ।
परिमोक्षम्प्रहाराणांवर्जनम्परिधावनम् ॥ 24 ॥
अभिद्रवणमाप्लावमावस्थानंसविग्रहम् ।
परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ 25 ॥
उपन्यस्तपमन्यस्तंयुद्धमार्गविशारदौ ।
तौसञ्चेचेरतुरन्योन्यंवानरेन्द्रश्चरावणः ॥ 26 ॥
एतस्मिन्नन्तरेरक्षोमायाबलमथात्मनः ।
आरब्धुमुपसम्पेदेज्ञात्वातंवानराधिपः ॥ 27 ॥
उत्पपाततदाकाशञ्जितकाशीजितक्लमः ।
रावणःस्थितएवात्रहरिराजेववञ्चितः ॥ 28 ॥
अथहरिवरनाथःप्राप्यसङ्ग्रामकीर्तिन्निशिचरपतिमाजौयोजयित्वाश्रमेण ।
गगनमतिविशालंलङ्घयित्वार्कसूनुर्हरिगणमध्येरामपार्श्वञ्जगाम ॥ 29 ॥
इतिससवितृसूनुस्तत्रतत्कर्मकृत्वापवनगतिरनीकम्प्राविशत्ससम्प्रहृष्टः ।
रघुवरनृपसूनोद्वर्धयन्युद्धहर्षन्तरुमृगगणमुख्यैःपूज्यमानोहरीन्द्रः ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चत्वारिंशस्सर्गः ॥