View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.65 अरण्यकाण्ड - पञ्चषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ पञ्चषष्टितमस्सर्गः ।

तप्यमानं तथा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं सांवर्तकमिवानलम् ॥ 1 ॥

वीक्षमाणं धनुस्सज्यं निश्श्वसन्तं पुनः पुनः ।
दग्धुकामं जगत्सर्वं युगान्ते च यथा हरम् ॥ 2 ॥

अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।
अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ 3 ॥

पुरा भूत्वा मृदुर्दान्तस्सर्वभूतहिते रतः ।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ 4 ॥

चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
एतत्तु नियतं सर्वं त्वयि चानुत्तमं यशः ॥ 5 ॥

एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि ।
न तु जानामि कस्यायं भग्नस्साङ्ग्रामिको रथः ॥ 6 ॥

केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः ।
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्धुभिः ॥ 7 ॥

देशो निर्वृत्तसङ्ग्रामस्सुघोरः पार्थिवात्मज ।
एकस्य तु विमर्धोऽयं न द्वयोर्वदतांवर ॥ 8 ॥

न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ।
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ॥ 9 ॥

युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ।
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥ 10 ॥

को नु दारप्रणाशं ते साधु मन्येत राघव ।
सरितस्सागराश्शैला देवगन्धर्वदानवाः ॥ 11 ॥

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ।
येन राजन्हृता सीता तमन्वेषितुमर्हसि ॥ 12 ॥

मद्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः ।
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥ 13 ॥

गुहाश्च विविधा घोरा नदी पद्मवनानि च ।
देवगन्धर्वलोकांश्च विचेष्यामस्समाहिताः ॥ 14 ॥

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।
न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ॥ 15 ॥

कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि ।
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र ।
ततस्समुत्सादय हेमपुङ्खै र्महेन्द्रवज्रप्रतिमैश्शरौघैः ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे पञ्चषष्टितमस्सर्गः ॥




Browse Related Categories: