View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.65 अरण्यकांड - पंचषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचषष्टितमस्सर्गः ।

तप्यमानं तथा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं सांवर्तकमिवानलम् ॥ 1 ॥

वीक्षमाणं धनुस्सज्यं निश्श्वसंतं पुनः पुनः ।
दग्धुकामं जगत्सर्वं युगांते च यथा हरम् ॥ 2 ॥

अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।
अब्रवीत्प्रांजलिर्वाक्यं मुखेन परिशुष्यता ॥ 3 ॥

पुरा भूत्वा मृदुर्दांतस्सर्वभूतहिते रतः ।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ 4 ॥

चंद्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
एतत्तु नियतं सर्वं त्वयि चानुत्तमं यशः ॥ 5 ॥

एकस्य नापराधेन लोकान् हंतुं त्वमर्हसि ।
न तु जानामि कस्यायं भग्नस्सांग्रामिको रथः ॥ 6 ॥

केन वा कस्य वा हेतोस्सायुधस्सपरिच्छदः ।
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिंधुभिः ॥ 7 ॥

देशो निर्वृत्तसंग्रामस्सुघोरः पार्थिवात्मज ।
एकस्य तु विमर्धोऽयं न द्वयोर्वदतांवर ॥ 8 ॥

न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ।
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ॥ 9 ॥

युक्तदंडा हि मृदवः प्रशांता वसुधाधिपाः ।
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ॥ 10 ॥

को नु दारप्रणाशं ते साधु मन्येत राघव ।
सरितस्सागराश्शैला देवगंधर्वदानवाः ॥ 11 ॥

नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ।
येन राजन्हृता सीता तमन्वेषितुमर्हसि ॥ 12 ॥

मद्वितीयो धनुष्पाणिस्सहायैः परमर्षिभिः ।
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥ 13 ॥

गुहाश्च विविधा घोरा नदी पद्मवनानि च ।
देवगंधर्वलोकांश्च विचेष्यामस्समाहिताः ॥ 14 ॥

यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ।
न चेत्साम्ना प्रदास्यंति पत्नीं ते त्रिदशेश्वराः ॥ 15 ॥

कोसलेंद्र ततः पश्चात्प्राप्तकालं करिष्यसि ।
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेंद्र ।
ततस्समुत्सादय हेमपुंखै र्महेंद्रवज्रप्रतिमैश्शरौघैः ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचषष्टितमस्सर्गः ॥




Browse Related Categories: