View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.44 सुंदरकांड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

संदिष्टो राक्षसेंद्रेण प्रहस्तस्य सुतो बली ।
जंबुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ 1 ॥

रक्तमाल्यांबरधरस्स्रग्वी रुचिरकुंडलः ।
महान्विवृत्तनयनश्चंडस्समरदुर्जयः ॥ 2 ॥

धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।
विष्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ 3 ॥

तस्य विष्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ 4 ॥

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान्वेगसंपन्नो जहर्ष च ननाद च ॥ 5 ॥

तं तोरणविटंकस्थं हनुमंतं महाकपिम् ।
जंबुमाली महाबाहुर्विव्याध निशितैश्शरैः ॥ 6 ॥

अर्धचंद्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ 7 ॥

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवांबुजं फुल्लं विद्धं भास्कररश्मिना ॥ 8 ॥

तत्तस्य रक्तं रक्तेन रंजितं शुशुभे मुखम् ।
यथाकाशे महापद्मं सिक्तं चंदनबिंदुभिः ॥ 9 ॥

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ 10 ॥

तरसा तां समुत्पाट्य चिक्षेप बलवद्भली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ 11 ॥

विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चंडविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ 12 ॥

भ्रामयंतं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून्बाणान्जंबुमाली महाबलः ॥ 13 ॥

सालं चतुर्भिश्चिच्छेद वानरं पंचभिर्भुजे ।
उरस्येकेन बाणेन दशभिस्तु स्तनांतरे ॥ 14 ॥

स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगितः ॥ 15 ॥

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जंबुमालेर्महोरसि ॥ 16 ॥

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यंत नेषवः ॥ 17 ॥

स हतस्सहसा तेन जंबुमाली महाबलः ।
पपात निहतो भूमौ चूर्णितांगविभूषणः ॥ 18 ॥

जंबुमालिं च निहतं किंकरांश्च महाबलान् ।
चुक्रोध रावणश्शुत्वा कोपसंरक्तलोचनः ॥ 19 ॥

स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले ।
अमात्यपुत्त्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: