View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.44 सुन्दरकाण्ड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ॥ 1 ॥

रक्तमाल्याम्बरधरस्स्रग्वी रुचिरकुण्डलः ।
महान्विवृत्तनयनश्चण्डस्समरदुर्जयः ॥ 2 ॥

धनुश्शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।
विष्फारयाणो वेगेन वज्राशनिसमस्वनम् ॥ 3 ॥

तस्य विष्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ॥ 4 ॥

रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान्वेगसम्पन्नो जहर्ष च ननाद च ॥ 5 ॥

तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् ।
जम्बुमाली महाबाहुर्विव्याध निशितैश्शरैः ॥ 6 ॥

अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ॥ 7 ॥

तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ॥ 8 ॥

तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।
यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ॥ 9 ॥

चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम् ॥ 10 ॥

तरसा तां समुत्पाट्य चिक्षेप बलवद्भली ।
तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ॥ 11 ॥

विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ॥ 12 ॥

भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून्बाणान्जम्बुमाली महाबलः ॥ 13 ॥

सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।
उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ॥ 14 ॥

स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगितः ॥ 15 ॥

अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जम्बुमालेर्महोरसि ॥ 16 ॥

तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ॥ 17 ॥

स हतस्सहसा तेन जम्बुमाली महाबलः ।
पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ॥ 18 ॥

जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।
चुक्रोध रावणश्शुत्वा कोपसंरक्तलोचनः ॥ 19 ॥

स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्त्रे निहते महाबले ।
अमात्यपुत्त्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: