View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.26 युद्धकाण्ड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षड्विंशस्सर्गः ।

तद्वचःपथ्यमक्लीबंसारणेनाभिभाषितम् ।
निशम्यरावणोराजाप्रत्यभाषतसारणम् ॥ 1 ॥

यदिमामभियुञ्जीरन्देवगन्धर्वदानवाः ।
नैवसीताम्प्रदास्यामिसर्वलोकभयादपि ॥ 2 ॥

त्वन्तुसौम्यपरित्रस्तोहरिभिर्निर्जितोभृशम् ।
प्रतिप्रदानमद्यैवसीतायास्साधुमन्यसे ॥ 3 ॥

कोहिनामसपत्नोमांसमरेजेतुमर्हति ।
इत्युक्त्वापरुषंवाक्यंरावणोराक्षसाधिपः ॥ 4 ॥

आरुरोहततश्रशीमान् प्रासादंहिमपाण्डुरम् ।
बहुतालसमुत्सेधंरावणोऽथदिदृक्ष्या ॥ 5 ॥

ताभ्याञ्चराभ्यांसहितोरावणःक्रोधमूर्छितः ।
पश्यमानस्समुद्रञ्चपर्वतांश्चवनानिच ॥ 6 ॥

ददर्शपृथिवीदेशंसुसम्पूर्णम्प्लवङ्गमैः ।
तदपारमसङ्ख्ख्येयंवानराणाम्महद्बलम् ।
अलोक्यरावणोराजापरिपप्रच्छसारणम् ॥ 7 ॥

एषांवानरमुख्यानाङ्केशूराःकेमहाबलाः ।
केपूर्वमभिवर्तन्तेमहोत्साहास्समन्ततः ॥ 8 ॥

केषांशृणोतिसुग्रीवःकेवायूथपयूथपाः ।
सारणाचक्ष्वतत्त्वेनकेप्रधानाःप्लवङ्गमाः ॥ 9 ॥

सारणोराक्षसेन्द्रस्यवचनम्परिपृच्छतः ।
आचचक्षेऽथमुख्यज्ञोमुख्यांस्तांस्तुवनौकसः ॥ 10 ॥

एषयोऽभिमुखोलङ्कान्नर्दंस्तिष्ठतिवानरः ।
यूथपानांसहस्राणांशतेनपरिवारितः ॥ 11 ॥

यस्यघोषेणमहतासप्राकारासतोरणा ।
लङ्काप्रवेपतेसर्वासशैलवनकानना ॥ 12 ॥

सर्वशाखामृगेन्द्रस्यसुग्रीवस्यमहात्मनः ।
बलाग्रेतिष्ठतेवीरोनीलोनामैषयूथपः ॥ 13 ॥

बाहूप्रगृह्ययःपद् भ्याम्महीङ्गच्छतिवीर्यवान् ।
लङ्कामभिमुखःक्रोधादभीक्ष्णञ्चविजृम्भते ॥ 14 ॥

गिरिशृङ्गप्रतीकाशःपद्मकिञ्जल्कसन्निभः ।
स्पोटयत्यभिसंरब्धोलाङ्गूलञ्चपुनःपुनः ॥ 15 ॥

यस्यलाङ्गूलशब्देनस्वनन्तिप्रदिशोदश ।
एषवानरराजेनसुग्रीवेणाभिषेचितः ॥ 16 ॥

यौवराज्येऽङ्गदोनामत्वामाह्वयतिसंयुगे ॥ 17 ॥

वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः ।
राघवार्थेपराक्रान्तश्शक्रार्थेवरुणोयथा ॥ 18 ॥

एतस्यसामतिस्सर्वायद्दृष्टाजनकात्मजा ।
हनूमतावेगवताराघवस्यहितैषिणा ॥ 19 ॥

बहूनिवानरेन्द्राणामेषयूथानिवीर्यवान् ।
परिगृह्याभियातित्वांस्वेनानीकेनमर्दितुम् ॥ 20 ॥

अनुवालिसुतस्यापिबलेनमहताऽवृतः ।
वीरस्तिष्ठतिसङ्ग्रामेसेतुहेतुरयन्नलः ॥ 21 ॥

येतुविष्टभ्यगात्राणिक्ष्वेलयन्तिनदन्तिच ।
उत्थायचविजृम्भन्तेक्रोधेनहरिपुङ्गवाः ॥ 22 ॥

एतेदुष्प्रसहाघोराश्चण्डाश्चण्डपराक्रमाः ।
अष्टौशतसहस्राणिदशकोटिशतानिच ॥ 23 ॥

यएनमनुगच्छन्तिवीराश्चन्दनवासिनः ।
एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ॥ 24 ॥

श्वेतोरजतसङ्काशश्चपलोभीमविक्रमः ।
बुद्धिमान्वानरश्शूरस्त्रिषुलोकेषुविश्रुतः ॥ 25 ॥

तूर्णंसुग्रीवमागम्यपुनर्गच्छतिसत्वरः ।
विभजन्वानरींसेनामनीकानिप्रहर्षयन् ॥ 26 ॥

यःपुरागोमतीतीरेरम्यम्पर्येतिपर्वतम् ।
नाम्नासङ्कोचनोनामनानानगयुतोगिरिः ॥ 27 ॥

तत्रराज्यम्प्रशास्त्येषकुमुदोनामयूथपः ।
योऽसौशतसहस्राणिसहस्रम्परिकर्षति ॥ 28 ॥

यस्यवालाबहुव्यामादीर्घलाङ्गूलमाश्रिता ।
ताम्रापीतास्सीताश्श्वेताःप्रकीर्णाघोरदर्शना ॥ 29 ॥

अदीनोरोषणश्चण्डस्सङ्ग्राममभिकाङ् क्षति ।
एषोऽप्याशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ॥ 30 ॥

यस्त्वेषसिंहसङ्काशःकपिलोदीर्घलोचनः ।
निभृतःप्रेक्षतेलङ्कान्दिधक्षन्निवचक्षुषा ॥ 31 ॥

विन्ध्यङ्कृष्णगिरिंसह्यम्पर्वतञ्चसुदर्शनम् ।
राजन्सततमध्यास्तेरम्भोनामयूथपः ॥ 32 ॥

शतंशतसहास्राणान्त्रिंशच्चहरिपुङ्गवाः ।
यमेतेवानराश्शूराश्चण्डाश्चण्डपराक्रमाः ॥ 33 ॥

परिवार्यानुगच्छन्तिलङ्काम्मर्दितुमोजसा ।
यस्तुकर्णौविवृणुतेजृम्बतेचपुनःपुनः ।
नचसंविजतेमृत्योर्नचयुद्धाद्विधावति ॥ 34 ॥

न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥ 35 ॥

महाजवोवीतभयोरम्यंसाल्वेयपर्वतम् ।
राजन्सततमध्यास्तेशरभोनामयूथपः ॥ 36 ॥

एतस्यबलिनस्सर्वेविहारानामयूथपाः ।
राजन् शतसहस्राणिचत्वारिंशस्तथैवच ॥ 37 ॥

राजन् शत सहस्राणि चत्वारिंशत् तथैव च ।
यस् तु मेघ इव आकाशं महान् आवृत्य तिष्ठति ॥ 38 ॥

भेरीणामिवसन्नादोयस्यैषश्रूयतेमहान् ।
घोषश्शाखामृगेन्द्राणांसङ्ग्राममभिकाङ्क्षिताम् ॥ 39 ॥

एषपर्वतमध्यास्तेपारियात्रमनुत्तमम् ।
युद्धेदुष्प्रसहोनित्यम्पनसोनामयूथपः ॥ 40 ॥

एनंशतसहस्राणांशतार्धम्पर्युपासते ।
यूथपायूथपश्रेष्ठंयेषांयूथानिभागशः ॥ 41 ॥

यूथपा यूथप श्रेष्ठं येषां यूथानि भागशः ।
यस् तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ॥ 42 ॥

एषदर्दरसङ्काशोविनतोनामयूथपः ।
पिबंश्चरतिपर्णासान्नदीनामुत्तमान्नदीम् ॥ 43 ॥

षष्टिश्शतसहस्राणिबलमस्यप्लवङ्गमाः ॥ 44 ॥

त्वामाह्वयतियुद्धायक्रोधनोनामयूधपः ।
विक्रान्ताबलवन्तश्चयथायूथानिभागशः ॥ 45 ॥

यस्तुगैरिकवर्णाभंवपुःपुष्यतिवानरः ।
अवमत्यसदासर्वान्वानरान्बलदर्पितान् ॥ 46 ॥

गवयोनामतेजस्वीत्वाङ्क्रोधादभिवर्तते ।
एनंशतसहस्राणिसप्ततिःपर्युपासते ।
एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ॥ 47 ॥

एतेदुष्प्रसहाघोराबलिनःकामरूपिणः ।
यूथपायूथपश्रेष्ठामेषांयूथानिभागशः ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षड्विंशस्सर्गः ॥




Browse Related Categories: