श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षड्विंशस्सर्गः ।
तद्वचःपथ्यमक्लीबंसारणेनाभिभाषितम् ।
निशम्यरावणोराजाप्रत्यभाषतसारणम् ॥ 1 ॥
यदिमामभियुंजीरंदेवगंधर्वदानवाः ।
नैवसीतांप्रदास्यामिसर्वलोकभयादपि ॥ 2 ॥
त्वंतुसौम्यपरित्रस्तोहरिभिर्निर्जितोभृशम् ।
प्रतिप्रदानमद्यैवसीतायास्साधुमन्यसे ॥ 3 ॥
कोहिनामसपत्नोमांसमरेजेतुमर्हति ।
इत्युक्त्वापरुषंवाक्यंरावणोराक्षसाधिपः ॥ 4 ॥
आरुरोहततश्रशीमान् प्रासादंहिमपांडुरम् ।
बहुतालसमुत्सेधंरावणोऽथदिदृक्ष्या ॥ 5 ॥
ताभ्यांचराभ्यांसहितोरावणःक्रोधमूर्छितः ।
पश्यमानस्समुद्रंचपर्वतांश्चवनानिच ॥ 6 ॥
ददर्शपृथिवीदेशंसुसंपूर्णंप्लवंगमैः ।
तदपारमसंख्ख्येयंवानराणांमहद्बलम् ।
अलोक्यरावणोराजापरिपप्रच्छसारणम् ॥ 7 ॥
एषांवानरमुख्यानांकेशूराःकेमहाबलाः ।
केपूर्वमभिवर्तंतेमहोत्साहास्समंततः ॥ 8 ॥
केषांशृणोतिसुग्रीवःकेवायूथपयूथपाः ।
सारणाचक्ष्वतत्त्वेनकेप्रधानाःप्लवंगमाः ॥ 9 ॥
सारणोराक्षसेंद्रस्यवचनंपरिपृच्छतः ।
आचचक्षेऽथमुख्यज्ञोमुख्यांस्तांस्तुवनौकसः ॥ 10 ॥
एषयोऽभिमुखोलंकांनर्दंस्तिष्ठतिवानरः ।
यूथपानांसहस्राणांशतेनपरिवारितः ॥ 11 ॥
यस्यघोषेणमहतासप्राकारासतोरणा ।
लंकाप्रवेपतेसर्वासशैलवनकानना ॥ 12 ॥
सर्वशाखामृगेंद्रस्यसुग्रीवस्यमहात्मनः ।
बलाग्रेतिष्ठतेवीरोनीलोनामैषयूथपः ॥ 13 ॥
बाहूप्रगृह्ययःपद् भ्यांमहींगच्छतिवीर्यवान् ।
लंकामभिमुखःक्रोधादभीक्ष्णंचविजृंभते ॥ 14 ॥
गिरिशृंगप्रतीकाशःपद्मकिंजल्कसन्निभः ।
स्पोटयत्यभिसंरब्धोलांगूलंचपुनःपुनः ॥ 15 ॥
यस्यलांगूलशब्देनस्वनंतिप्रदिशोदश ।
एषवानरराजेनसुग्रीवेणाभिषेचितः ॥ 16 ॥
यौवराज्येऽंगदोनामत्वामाह्वयतिसंयुगे ॥ 17 ॥
वालिनस्सदृशःपुत्रस्सुग्रीवस्यसदाप्रियः ।
राघवार्थेपराक्रांतश्शक्रार्थेवरुणोयथा ॥ 18 ॥
एतस्यसामतिस्सर्वायद्दृष्टाजनकात्मजा ।
हनूमतावेगवताराघवस्यहितैषिणा ॥ 19 ॥
बहूनिवानरेंद्राणामेषयूथानिवीर्यवान् ।
परिगृह्याभियातित्वांस्वेनानीकेनमर्दितुम् ॥ 20 ॥
अनुवालिसुतस्यापिबलेनमहताऽवृतः ।
वीरस्तिष्ठतिसंग्रामेसेतुहेतुरयंनलः ॥ 21 ॥
येतुविष्टभ्यगात्राणिक्ष्वेलयंतिनदंतिच ।
उत्थायचविजृंभंतेक्रोधेनहरिपुंगवाः ॥ 22 ॥
एतेदुष्प्रसहाघोराश्चंडाश्चंडपराक्रमाः ।
अष्टौशतसहस्राणिदशकोटिशतानिच ॥ 23 ॥
यएनमनुगच्छंतिवीराश्चंदनवासिनः ।
एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 24 ॥
श्वेतोरजतसंकाशश्चपलोभीमविक्रमः ।
बुद्धिमान्वानरश्शूरस्त्रिषुलोकेषुविश्रुतः ॥ 25 ॥
तूर्णंसुग्रीवमागम्यपुनर्गच्छतिसत्वरः ।
विभजन्वानरींसेनामनीकानिप्रहर्षयन् ॥ 26 ॥
यःपुरागोमतीतीरेरम्यंपर्येतिपर्वतम् ।
नाम्नासंकोचनोनामनानानगयुतोगिरिः ॥ 27 ॥
तत्रराज्यंप्रशास्त्येषकुमुदोनामयूथपः ।
योऽसौशतसहस्राणिसहस्रंपरिकर्षति ॥ 28 ॥
यस्यवालाबहुव्यामादीर्घलांगूलमाश्रिता ।
ताम्रापीतास्सीताश्श्वेताःप्रकीर्णाघोरदर्शना ॥ 29 ॥
अदीनोरोषणश्चंडस्संग्राममभिकाङ् क्षति ।
एषोऽप्याशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 30 ॥
यस्त्वेषसिंहसंकाशःकपिलोदीर्घलोचनः ।
निभृतःप्रेक्षतेलंकांदिधक्षन्निवचक्षुषा ॥ 31 ॥
विंध्यंकृष्णगिरिंसह्यंपर्वतंचसुदर्शनम् ।
राजन्सततमध्यास्तेरंभोनामयूथपः ॥ 32 ॥
शतंशतसहास्राणांत्रिंशच्चहरिपुंगवाः ।
यमेतेवानराश्शूराश्चंडाश्चंडपराक्रमाः ॥ 33 ॥
परिवार्यानुगच्छंतिलंकांमर्दितुमोजसा ।
यस्तुकर्णौविवृणुतेजृंबतेचपुनःपुनः ।
नचसंविजतेमृत्योर्नचयुद्धाद्विधावति ॥ 34 ॥
न च सम्विजते मृत्योर् न च यूथाद् विधावति ।
प्रकंपते च रोषेन तिर्यक्च पुनरीक्षते ॥ 35 ॥
महाजवोवीतभयोरम्यंसाल्वेयपर्वतम् ।
राजन्सततमध्यास्तेशरभोनामयूथपः ॥ 36 ॥
एतस्यबलिनस्सर्वेविहारानामयूथपाः ।
राजन् शतसहस्राणिचत्वारिंशस्तथैवच ॥ 37 ॥
राजन् शत सहस्राणि चत्वारिंशत् तथैव च ।
यस् तु मेघ इव आकाशं महान् आवृत्य तिष्ठति ॥ 38 ॥
भेरीणामिवसन्नादोयस्यैषश्रूयतेमहान् ।
घोषश्शाखामृगेंद्राणांसंग्राममभिकांक्षिताम् ॥ 39 ॥
एषपर्वतमध्यास्तेपारियात्रमनुत्तमम् ।
युद्धेदुष्प्रसहोनित्यंपनसोनामयूथपः ॥ 40 ॥
एनंशतसहस्राणांशतार्धंपर्युपासते ।
यूथपायूथपश्रेष्ठंयेषांयूथानिभागशः ॥ 41 ॥
यूथपा यूथप श्रेष्ठं येषां यूथानि भागशः ।
यस् तु भीमां प्रवल्गंतीं चमूं तिष्ठति शोभयन् ॥ 42 ॥
एषदर्दरसंकाशोविनतोनामयूथपः ।
पिबंश्चरतिपर्णासांनदीनामुत्तमांनदीम् ॥ 43 ॥
षष्टिश्शतसहस्राणिबलमस्यप्लवंगमाः ॥ 44 ॥
त्वामाह्वयतियुद्धायक्रोधनोनामयूधपः ।
विक्रांताबलवंतश्चयथायूथानिभागशः ॥ 45 ॥
यस्तुगैरिकवर्णाभंवपुःपुष्यतिवानरः ।
अवमत्यसदासर्वान्वानरान्बलदर्पितान् ॥ 46 ॥
गवयोनामतेजस्वीत्वांक्रोधादभिवर्तते ।
एनंशतसहस्राणिसप्ततिःपर्युपासते ।
एषैवाशंसतेलंकांस्वेनानीकेनमर्दितुम् ॥ 47 ॥
एतेदुष्प्रसहाघोराबलिनःकामरूपिणः ।
यूथपायूथपश्रेष्ठामेषांयूथानिभागशः ॥ 48 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षड्विंशस्सर्गः ॥