View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.1 बालकांड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ प्रथमस्सर्गः ।

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥ 1 ॥

कोन्वस्मिन्सांप्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ 2 ॥

चारित्रेण च को युक्तस्सर्वभूतेषु को हितः ।
विद्वान्कः कस्समर्थश्च कश्चैकप्रियदर्शनः ॥ 3 ॥

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥ 4 ॥

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥ 5 ॥

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत् ॥ 6 ॥

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नरः ॥ 7 ॥

इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुतः ।
नियतात्मा महावीर्यो द्युतिमांधृतिमान् वशी ॥ 8 ॥

बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥ 9 ॥

महोरस्को महेष्वासो गूढजत्रुररिंदमः ।
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ॥ 10 ॥

समस्समविभक्तांगस्स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥ 11 ॥

धर्मज्ञस्सत्यसंधश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसंपन्नश्शुचिर्वश्यस्समाधिमान् ॥ 12 ॥

प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥ 13 ॥

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदांगतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥ 14 ॥

सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् ।
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ॥ 15 ॥

सर्वदाभिगतस्सद्भिस्समुद्र इव सिंधुभिः ।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ॥ 16 ॥

स च सर्वगुणोपेतः कौसल्यानंदवर्धनः ।
समुद्र इव गांभीर्ये धैर्येण हिमवानिव ॥ 17 ॥

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ 18 ॥

धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥ 19 ॥

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥ 20 ॥

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः ।
तस्याभिषेकसंभारांदृष्ट्वा भार्याऽथ कैकयी ॥ 21 ॥

पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ 22 ॥

स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ 23 ॥

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ 24 ॥

तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसंपन्नस्सुमित्रानंदवर्धनः ॥ 25 ॥

भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥ 26 ॥

जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ॥ 27 ॥

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥ 28 ॥

शृंगिबेरपुरे सूतं गंगाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥ 29 ॥

गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ 30 ॥

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ 31 ॥

देवगंधर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ॥ 32 ॥

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥ 33 ॥

देवगंधर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥ 34 ॥

राजा दशरथस्स्वर्गं जगाम विलपन्सुतम् ।
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ॥ 35 ॥

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥ 36 ॥

गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम् ।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः ॥ 37 ॥

त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारस्सुमुखस्सुमहायशाः ।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः ॥ 38 ॥

पादुके चास्य राज्याय न्यासं दत्वा पुनःपुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥ 39 ॥

स काममनवाप्यैव रामपादावुपस्पृशन् ॥ 40 ॥

नंदिग्रामेऽकरोद्राज्यं रामागमनकांक्षया ।
गते तु भरते श्रीमान् सत्यसंधो जितेंद्रियः ॥ 41 ॥

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दंडकान्प्रविवेश ह ॥ 42 ॥

प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विराधं राक्षसं हत्वा शरभंगं ददर्श ह ॥ 43 ॥

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैंद्रं शरासनम् ॥ 44 ॥

खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
वसतस्तस्य रामस्य वने वनचरैस्सह ।
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ 45 ॥

स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥ 46 ॥

प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ।
ऋषीणामग्निकल्पानां दंडकारण्यवासिनाम् ॥ 47 ॥

तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ 48 ॥

ततश्शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥ 49 ॥

निजघान वने रामस्तेषां चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥ 50 ॥

रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥ 51 ॥

सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥ 52 ॥

न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥ 53 ॥

जगाम सह मारीचस्तस्याश्रमपदं तदा ।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ 54 ॥

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ 55 ॥

राघवश्शोकसंतप्तो विललापाकुलेंद्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥ 56 ॥

मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
कबंधन्नाम रूपेण विकृतं घोरदर्शनम् ॥ 57 ॥

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्मचारिणीम् ॥ 58 ॥

श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।
1151 सोऽभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदनः ॥ 59 ॥

शबर्या पूजितस्सम्यग्रामो दशरथात्मजः ।
पंपातीरे हनुमता संगतो वानरेण ह ॥ 60 ॥

हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ 61 ॥

आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥ 62 ॥

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।
ततो वानरराजेन वैरानुकथनं प्रति ॥ 63 ॥

रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ 64 ॥

वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवश्शंकितश्चासीन्नित्यं वीर्येण राघवे ॥ 65 ॥

राघवप्रत्ययार्थं तु दुंदुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ 66 ॥

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादांगुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ 67 ॥

बिभेद च पुनस्सालान्सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन्प्रत्ययं तथा ॥ 68 ॥

ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।
किष्किंधां रामसहितो जगाम च गुहां तदा ॥ 69 ॥

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिंगलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ 70 ॥

अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥ 71 ॥

ततस्सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ 72 ॥

स च सर्वान्समानीय वानरान्वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ 73 ॥

ततो गृध्रस्य वचनात्संपातेर्हनुमान्बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ 74 ॥

तत्र लंकां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायंतीमशोकवनिकां गताम् ॥ 75 ॥

निवेदयित्वाऽऽभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ 76 ॥

पंच सेनाग्रगान्हत्वा सप्तमंत्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ 77 ॥

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन्राक्षसान्वीरो यंत्रिणस्तान्यदृच्छया ॥ 78 ॥

ततो दग्ध्वा पुरीं लंकामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ 79 ॥

सोऽधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ 80 ॥

ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ 81 ॥

दर्शयामास चात्मानं समुद्रस्सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ 82 ॥

तेन गत्वा पुरीं लंकां हत्वा रावणमाहवे ।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥ 83 ॥

तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ 84 ॥

ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
बभौ रामस्संप्रहृष्टः पूजितस्सर्वदैवतैः ॥ 85 ॥

कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ 86 ॥

अभिषिच्य च लंकायां राक्षसेंद्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ 87 ॥

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ 88 ॥

भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः ।
भरतस्यांतिकं रामो हनूमंतं व्यसर्जयत् ॥ 89 ॥

पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः ।
पुष्पकं तत्समारुह्य नंदिग्रामं ययौ तदा ॥ 90 ॥

नंदिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः ।
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ 91 ॥

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ 92 ॥

न पुत्रमरणं किंचिद्द्रक्ष्यंति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यंति पतिव्रताः ॥ 93 ॥

न चाग्निजं भयं किंचिन्नाप्सु मज्जंति जंतवः ।
न वातजं भयं किंचिन्नापि ज्वरकृतं तथा ॥ 94 ॥

न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ 95 ॥

नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा ।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥ 96 ॥

गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति ।
असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥ 97 ॥

राजवंशान्शतगुणान्स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ 98 ॥

दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥ 99 ॥

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ 100 ॥

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥ 101 ॥

पठंद्विजो वागृषभत्वमीयात् स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयात् जनश्च शूद्रोऽपि महत्वमीयात् ॥ 102 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे प्रथमस्सर्गः ॥




Browse Related Categories: