View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.59 अयोध्याकांड - एकोनषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनषष्टितमस्सर्गः ।

इति ब्रुवंतं तं सूतं सुमंत्रं मंत्रिसत्तमम् ।
ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत् ॥ 1 ॥

तस्य तद्वचनं श्रुत्वा सुमंत्रो बाष्पविक्लबः ।
कथयामास भूयोऽपि रामसंदेशविस्तरम् ॥ 2 ॥

जटाः कृत्वा महाराज चीरवल्कलधारिणौ ।
गंगामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ ॥ 3 ॥

अग्रतो लक्ष्मणो यातः पालयन्रघुनंदनम् ।
तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा ॥ 4 ॥

ममत्वश्वा निवृत्तस्य न प्रावर्तंत वर्त्मनि ।
उष्णमश्रु प्रमुंचंतो रामे संप्रस्थिते वनम् ॥ 5 ॥

उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमंजलिम् ।
प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ 6 ॥

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून् ।
आशया यदि मां रामः पुन श्शब्दापयेदिति ॥ 7 ॥

विषये ते महाराज रामव्यसनकर्शिताः ।
अपि वृक्षाः परिम्लानास्सपुष्पांकुरकोरकाः ॥ 8 ॥

उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कपलाशानि वनान्युपवनानि च ॥ 9 ॥

न च सर्पंति सत्त्वानि व्यासा न प्रचरंति च ।
रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ 10 ॥

लीनपुष्करपत्राश्च नरेंद्र कलुषोदकाः ।
संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः ॥ 11 ॥

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
नाद्य भांत्यल्पगंधीनि फलानि च यथापुरम् ॥ 12 ॥

अत्रोद्यानानि शून्यानि प्रलीनविहगनि च ।
न चाभिरामा नारामान्पश्यामि मनुजर्षभ ॥ 13 ॥

प्रविशंतमयोध्यां मां न कश्चिदभिनंदति ।
नरा राममपश्यंतो निश्श्वसंति मुहुर्मुहुः ॥ 14 ॥

देव राजरथं दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखस्सर्वो राजमार्गगतो जनः ॥ 15 ॥

हर्म्यैर्विमानैः प्रासादैरवेक्ष्यरथमागतम् ।
हाहाकारकृतानार्यो रामादर्शनकर्शिताः ॥ 16 ॥

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षंतेऽव्यक्तमार्ततराः स्त्रियः ॥ 17 ॥

नामित्राणां न मित्राणामुदासीनजनस्य च ।
अहमार्ततया किंचिद्विशेषमुपलक्षये ॥ 18 ॥

अप्रहृष्टमनुष्या च दीननागतुरंगमा ।
आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्स्वना ॥ 19 ॥

निरानंदा महाराज रामप्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ 20 ॥

सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ 21 ॥

कैकेय्या विनियुक्तेन पापाभिजनभावया ।
मया न मंत्रकुशलैर्वृद्धैस्सह समर्थितम् ॥ 22 ॥

न सुहृद्भिर्नचामात्यैर्मंत्रयित्वा न नैगमैः ।
मयायमर्थस्सम्मोहात् स्त्रीहेतो स्सहसा कृतः ॥ 23 ॥

भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ 24 ॥

सूत यद्यस्ति ते किंचिन्मया तु सुकृतं कृतम् ।
त्वं प्रापयाऽऽशु मां रामं प्राणास्संत्वरयंतिमाम् ॥ 25 ॥

यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥ 26 ॥

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ 27 ॥

लोहिताक्षं महाबाहुमामुक्तमणिकुंडलम् ।
रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ 28 ॥

अतो नु किं दुःखतरं सोऽहमिक्ष्वाकुनंदनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ 29 ॥

हा राम रामानुज हा हा वैदेहि तपस्विनि ।
न मां जानीत दुःखेन म्रियमाणतमनाथवत् ॥ 30 ॥

स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढस्सुदुष्पारं शोकसागरमब्रवीत् ॥ 31 ॥

रामशोकमहाभोगस्सीताविरहपारगः ।
श्वसितोर्मि महावर्तो बाष्पफेनजालाविलः ॥ 32 ॥

बाहुविक्षेपमीनौघो विक्रंदित महास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥ 33 ॥

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशंसाया रामप्रव्राजनायतः ॥ 34 ॥

यस्मिन्बत निमग्नोऽहं कौसल्ये राघवं विना ।
दुस्तरो जीवता देवि मयाऽयं शोकसागरः ॥ 35 ॥

अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन्महायशाः पपात तूर्णं शयने समूर्छितः ॥ 36 ॥

इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनषष्टितमस्सर्गः ॥




Browse Related Categories: