श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकादशस्सर्गः ।
भूय एव हि राजेंद्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ 1 ॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः ॥ 2 ॥
अंगराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शांता नाम भविष्यति ॥ 3 ॥
पुत्रस्तु सोऽंगराजस्य रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥ 4 ॥
अनपत्योऽस्मि धर्मात्मन् शांताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तस्संतानार्थं कुलस्य च ॥ 5 ॥
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिंत्य च ।
प्रदास्यते पुत्रवंतं शांताभर्तारमात्मवान् ॥ 6 ॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनांतरात्मना ॥ 7 ॥
तं च राजा दशरथो यष्टुकामः कृतांजलिः ।
ऋश्यशृंगं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ 8 ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद्विशांपतिः ॥ 9 ॥
पुत्राश्चास्य भविष्यंति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकरास्सर्वलोकेषु विश्रुताः ॥ 10 ॥
एवं स देवप्रवरः पूर्वं कथितवान्कथाम् ।
सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः ॥ 11 ॥
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥ 12 ॥
अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।
सांतःपुरस्सहामात्यः प्रययौ यत्र स द्विजः ॥ 13 ॥
वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनैः ।
अभिचक्राम तं देशं यत्र वै मुनिपुंगवः ॥ 14 ॥
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ 15 ॥
ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनांतरात्मना ॥ 16 ॥
रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं संबंधकं चैव तदा तं प्रत्यपूजयत् ॥ 17 ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत् ॥ 18 ॥
शांता तव सुता राजन् सह भर्त्रा विशांपते ।
मदीयनगरं यातु कार्यं हि महदुद्यतम् ॥ 19 ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ 20 ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ 21 ॥
तावन्योन्यांजलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।
ननंदतुर्दशरथो रोमपादश्च वीर्यवान् ॥ 22 ॥
ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनंदनः ।
पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः ॥ 23 ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ।
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् ॥ 24 ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ 25 ॥
ततस्स्वलंकृतं राजा नगरं प्रविवेश ह ।
शंखदुंदुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ 26 ॥
ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
प्रवेश्यमानं सत्कृत्य नरेंद्रेणेंद्रकर्मणा ॥ 27 ॥
अंतःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ 28 ॥
अंतःपुरस्त्रियस्सर्वाश्शांतां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानंदमुपागमन् ॥ 29 ॥
पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कंचित्कालं सहर्त्विजा ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकादशस्सर्गः ॥