View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.14 अयोध्याकांड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुर्दशस्सर्गः ।

पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि ।
विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 1 ॥

पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2 ॥

आहु स्सत्यं हि परमं धर्मं धर्मविदो जनाः ।
सत्यमाश्रित्य हि मया त्वं च धर्मं प्रबोधितः ॥ 3 ॥

संश्रुत्य शैब्यश्श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणे राज न्जगाम गतिमुत्तमाम् ॥ 4 ॥

तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ 5 ॥

सरितां तु पतिस्स्वल्पां मर्यादां सत्यमन्वितः ।
सत्यानुरोधात्समये स्वां वेलां नातिवर्तते ॥ 6 ॥

सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्टितः ।
सत्यमेवाक्षया वेदा सत्येनैवाप्यते स्परम् ॥ 7 ॥

सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
सफलस्स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥ 8 ॥

धर्मस्यैहाभिकामार्थं मम चैवाभिचोदनात् ।
प्रव्राजय सुतं रामं त्रिःखलु त्वां ब्रवीम्यहम् ॥ 9 ॥

समयं च ममार्येमं यदि त्वं न करिष्यसि ।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 10 ॥

एवं प्रचोदितो राजा कैकेय्या निर्विशंकया ।
नाशकत्पाशमुन्मोक्तुं बलिरिंद्रकृतं यथा ॥ 11 ॥

उद्भ्रांतहृदयश्चापि विवर्णवदनोऽभवत् ।
स धुर्योवैपरिस्पंदन्युगचक्रांतरं यथा ॥ 12 ॥

विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः ।
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 13 ॥

यस्ते मंत्रकृतः पाणिरग्नौ पापे मया धृतः ।
तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह ॥ 14 ॥

प्रयाता रजनी देवि सूर्यस्योदयनंप्रति ।
अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 15 ॥

रामाभिषेकसंभारैस्तदर्थमुपकल्पितैः ।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 16 ॥

त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया ।
व्याहंताऽस्यशुभाचारे यदि रामाभिषेचनम् ॥ 17 ॥

न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् ।
हतहर्षं निरानंदं पुनर्जनमवाङ्मुखम् ॥ 18 ॥

तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
प्रभाता शर्वरी पुण्या चंद्रनक्षत्रशालिनी ॥ 19 ॥

ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ 20 ॥

किमिदं भाषसे राजन्वाक्यं गररुजोपमम् ।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 21 ॥

स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 22 ॥

स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 23 ॥

धर्मबंधेन बध्दोऽस्मि नष्टा च मम चेतना ।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 24 ॥

ततः प्रभातां रजनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ॥ 25 ॥

वसिष्ठो गुणसंपन्न श्शिष्यै परिवृतस्तदा ।
उपगृह्याशु संभारान्प्रविवेश पुरोत्तमम् ॥ 26 ॥

सिक्तसम्मार्जितपथां पताकोत्तम भूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 27 ॥

संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 28 ॥

चंदनागरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम् ॥ 29 ॥

ददर्शांतःपुरश्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ॥ 30 ॥

यज्ञविद्भि स्सुसंपूर्णं सदस्यैः परमद्विजैः ।
तदंतःपुरमासाद्य व्यतिचक्राम तं जनम् ॥ 31 ॥

वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।
सत्वपश्यद्विनिष्क्रांतं सुमंत्रं नाम सारथिम् ॥ 32 ॥

द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम् ।
तमुवाच महातेजा स्सूतपुत्रं विशारदम् ॥ 33 ॥

वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ।
इमे गंगोदकघटा स्सागरेभ्यश्च कांचनाः ॥ 34 ॥

औदुंबरं भद्रपीठमभिषेकार्थमागतम् ।
सर्वबीजानि गंधाश्च रत्नानि विविधानि च ॥ 35 ॥

क्षौद्रं दधि घृतं लाजा दर्भास्सुमनसः पयः ।
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः ॥ 36 ॥

चतुरश्वो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ 37 ॥

श्वेते च वालव्यजने भृंगारुश्च हिरण्मयः ।
हेमदामपिनध्दश्च ककुद्मान्पांडुरो वृषः ॥ 38 ॥

केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ।
सिंहासनं व्याघ्रतनु स्समिद्धश्च हुताशनः ॥ 39 ॥

सर्ववादित्रसंघाश्च वेश्याश्चालंकृता स्स्त्रयः ।
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः ॥ 40 ॥

पौरजानपदश्रेष्ठा नैगमाश्च गणै स्सह ।
एते चान्ये च बहवो नीयमानाः प्रियंवदाः ॥ 41 ॥

अभिषेकाय रामस्य सह तिष्ठंति पार्थिवैः ।
त्वरयस्व महाराजं यथा समुदितेऽहनि ॥ 42 ॥

पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।
इति तस्य वच श्श्रुत्वा सूतपुत्रो महात्मनः ॥ 43 ॥

स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ।
तं तु पूर्वोदितं वृध्दं द्वारस्था राज सम्मतम् ॥ 44 ॥

न शेकुरभिसंरोध्दुं राज्ञः प्रियचिकीर्षवः ।
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ॥ 45 ॥

वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।
तत स्सूतो यथाकालं पार्थिवस्य निवेशने ॥ 46 ॥

सुमंत्रः प्रांजलिर्भूत्वा तुष्टाव जगतीपतिम् ।
यथा नंदति तेजस्वी सागरो भास्करोदये ॥ 47 ॥

प्रीतः प्रीतेन मनसा तथाऽनंदघन स्स्वतः ।
इंद्रमस्यां तु वेलायामभितुष्टाव मातलिः ॥ 48 ॥

सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।
वेदास्सहांगविद्याश्च यथाह्यात्मभुवं विभुम् ॥ 49 ॥

ब्रह्माणं बोधयंत्यद्य तथा त्वां बोधयाम्यहम् ।
आदित्यस्सह चंद्रेण यथा भूतधरां शुभाम् ॥ 50 ॥

बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ।
उत्तिष्ठाशु महाराज कृतकौतुकमंगलः ॥ 51 ॥

विराजमानो वपुषा मेरोरिव दिवाकरः ।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ 52 ॥

वरुणश्चाग्निरिंद्रश्च विजयं प्रदिशंतु ते ।
गता भगवती रात्रिः कृतं कृत्यमिदं तव ॥ 53 ॥

बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनंतरम् ।
उदतिष्ठत रामस्य समग्रमभिषेचनम् ॥ 54 ॥

पौरजानापदैश्चापि नैगमैश्च कृतांजलिः ।
स्वयं वशिष्ठो भगवान्ब्राह्मणै स्सह तिष्ठति ॥ 55 ॥

क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम् ।
यथा ह्यपालाः पशवो यथा सेना ह्यनायका ॥ 56 ॥

यथा चंद्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥ 57 ॥

इति तस्य वच श्शृत्वा सांत्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 58 ॥

तत स्सराजा तं सूतं सन्नहर्ष स्सुतं प्रति ।
शोकरक्तेक्षण श्श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ 59 ॥

वाक्यैस्तु खलु मर्माणि मम भूयो निकृंतसि ।
सुमंत्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
प्रगृहीतांजलिः किंचित्तस्माद्देशादपाक्रमत् ॥ 60 ॥

यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ॥ 61 ॥

तदा सुमंत्रं मंत्रज्ञा कैकेयी प्रत्युवाच ह ।
सुमंत्र राजा रजनीं रामहर्षसमुत्सुकः ॥ 62 ॥

प्रजागरपरिश्रांतो निद्राया वशमुपेयिवान् ।
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥ 63 ॥

राममानय भद्रं ते नात्र कार्या विचारणा ।
स मन्यमानः कल्याणं हृदयेन ननंद च ॥ 64 ॥

निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।
सुमंत्रश्चिंतयामास त्वरितं चोदितस्तया ॥ 65 ॥

व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।
इति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः ॥ 66 ॥

निर्जगाम महाबाहो राघवस्य दिदृक्षया ।
सागरह्रदसंकाशात्सुमंत्रोऽंतःपुराच्छुभात् ॥ 67 ॥

निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।
ततः पुरस्तात्सहसा विनिर्गतो महीपतींद्वारगतो विलोकयन् ।
ददर्श पौरान्विविधान्महाधना नुपस्थितांद्वारमुपेत्य विष्ठितान् ॥ 68 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुर्दशस्सर्गः ॥




Browse Related Categories: