View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.15 किष्किंधाकांड - पंचदश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचदशस्सर्गः ।

अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ।
शुश्रावांतः पुर गतो वाली भ्रातुरमर्षणः ॥ 1 ॥

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकंपनम् ।
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ 2 ॥

स तु रोषपरीतांगो वाली संध्याकनकप्रभः ।
उपरक्त इवादित्यस्सद्यो निष्प्रभतां गतः ॥ 3 ॥

वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।
भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥ 4 ॥

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ 5 ॥

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदाः ।
उवाच त्रस्तसंभ्रांता हितोदर्कमिदं वचः ॥ 6 ॥

साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।
शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ 7 ॥

काल्यमेतेन संग्रामं करिष्यसि च वानर ।
वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ 8 ॥

सहसा तव निष्क्रामो मम तावन्न रोचते ।
श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ 9 ॥

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ।
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ 10 ॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
इहैत्य पुनराह्वानं शंकां जनयतीव मे ॥ 11 ॥

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।
निनादश्चापि संरंभो नैतदल्पं हि कारणम् ॥ 12 ॥

नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ 13 ॥

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।
अपरीक्षितवीर्येण सुग्रीवस्सहनैष्यति ॥ 14 ॥

पूर्वमेव मया वीर श्रुतं कथयतो वचः ।
अंगदस्य कुमारस्य वक्ष्यामित्वा हितं वचः ॥ 15 ॥

अंगदस्तु कुमारोऽयं वनांतमुपनिर्गतः ।
प्रवृत्तिस्तेन कथिता चारै राप्तैर्निवेदिता ॥ 16 ॥

अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ ।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥ 17 ॥

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ।
तव भ्रातुर्हि विख्यातस्सहायो रणकर्कशः ।
रामः परबलामर्दी युगांताग्निरिवोत्थितः ॥ 18 ॥

निवासवृक्षः साधूनामापन्नानां परा गतिः ।
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ 19 ॥

ज्ञानविज्ञानसंपन्नो निदेशे निरतः पितुः ।
धातूनामिव शैलेंद्रो गुणानामाकरो महान् ॥ 20 ॥

तत्क्षमं न विरोधस्ते सह तेन महात्मना ।
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ 21 ॥

शूर वक्ष्यामि ते किंचिन्न चेच्छाम्यभ्यसूयितुम् ।
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ 22 ॥

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।
विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ॥ 23 ॥

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ।
सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥ 24 ॥

लालनीयो हि ते भ्राता यवीयानेष वानरः ।
तत्र वा सन्निहस्थो वा सर्वथा बंधुरेव ते ॥ 25 ॥

न हि तेन समं बंधुं भुवि पश्यामि कंचन ॥ 26 ॥

दानमानादिसत्कारैः कुरुष्व प्रत्यनंतरम् ।
वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥ 27 ॥

सुग्रीवो विपुलग्रीवस्तवबंधुस्सदा मतः ।
भ्रातृस्सौहृदमालंब नान्या गतिरिहास्ति ते ॥ 28 ॥

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ 29 ॥

प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातुमर्हसि ।
क्षमो हि ते कोसलराजसूनुना न विग्रहश्शक्रसमानतेजसा ॥ 30 ॥

तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे ।
न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचदशस्सर्गः ॥




Browse Related Categories: