View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.16 अरण्यकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षोडशस्सर्गः ।

वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्व्यपाये हेमंतऋतुरिष्टः प्रवर्तत ॥ 1 ॥

स कदाचित्प्रभातायां शर्वर्यां रघुनंदनः ।
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ 2 ॥

प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।
पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ 3 ॥

अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद ।
अलंकृत इवाभाति येन संवत्सरः शुभः ॥ 4 ॥

नीहारपरुषो लोकः पृथिवी सस्यशालिनी ।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ 5 ॥

नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।
कृताग्रयणकाः काले संतो विगतकल्मषाः ॥ 6 ॥

प्राज्यकामा जनपदास्संपन्नतरगोरसाः ।
विचरंति महीपाला यात्रास्था विजिगीषवः ॥ 7 ॥

सेवमाने दृढं सूर्ये दिशमंतक सेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥ 8 ॥

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम् ।
यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ 9 ॥

अत्यंतसुखसंचारा मध्याह्ने स्पर्शतस्सुखाः ।
दिवसास्सुभगादित्याश्चायासलिलदुर्भगाः ॥ 10 ॥

मृदुसूर्यास्सनीहाराः पटुशीतास्समारुताः ।
शून्यारण्या हिमध्वस्ता दिवसा भांतिसांप्रतम् ॥ 11 ॥

निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः ।
शीता वृद्धतरायामास्त्रियामा यांति सांप्रतम् ॥ 12 ॥

रविसंक्रांतसौभाग्य स्तुषारारुणमंडलः ।
निश्श्वासांध इवादर्शन्छंद्रमा न प्रकाशते ॥ 13 ॥

ज्योत्स्न तुषारमलिना पौर्णमास्यां न राजते ।
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ 14 ॥

प्रकृत्या शीतलस्पर्शो हिमविद्धश्च सांप्रतम् ।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ 15 ॥

बाष्पच्छन्नान्यरण्यानि यवगोधूमवंति च ।
शोभंतेऽभ्युदिते सूर्ये नद्भि क्रौंचसारसैः ॥ 16 ॥

खर्जूरपुष्पाकृतिभिश्शिरोभिः पूर्णतंडुलैः ।
शोभंते किंचिदानम्राश्शालयः कनकप्रभाः ॥ 17 ॥

मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।
दूरमभ्युदितस्सूर्यश्शशांक इव लक्ष्यते ॥ 18 ॥

अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतस्सुखः ।
संरक्तः किंचिदापांडुरातपश्शोभते क्षितौ ॥ 19 ॥

अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला ।
वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ 20 ॥

स्पृशंस्तु विमलं शीतमुदकं द्विरदस्सुखम् ।
अत्यंततृषितो वन्यः प्रतिसंहरते करम् ॥ 21 ॥

एते हि समुपासीना विहगा जलचारिणः ।
नावगाहंति सलिलमप्रगल्भा इवाहवम् ॥ 22 ॥

अवश्यायतमोनद्धा नीहारतमसाऽवृताः ।
प्रसुप्ता इव लक्ष्यंते विपुष्पा वनराजयः ॥ 23 ॥

बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ।
हिमार्द्रवालुकैस्तीरैस्सरितो भांति सांप्रतम् ॥ 24 ॥

तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च ।
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ 25 ॥

जराजर्जरितैः पद्मैशशीर्णकेसरकर्णिकैः ।
नालषेर्हिमध्वस्सैर्न भंति कमलाकराः ॥ 26 ॥

अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ।
तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ 27 ॥

त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून् ।
तपस्स्वी नियताहारश्शेते शीते महीतले ॥ 28 ॥

सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः ।
वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ॥ 29 ॥

अत्यंतसुखसंवृद्धस्सुकुमारस्सुखोचितः ।
कथं न्वपररात्रेषु सरयूमवगाहते ॥ 30 ॥

पद्मपत्रेक्षणो वीरश्श्यामो निरुदरो महान् ।
धर्मज्ञ स्सत्यवादी च ह्रीनिषेधो जितेंद्रियः ॥ 31 ॥

प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः ।
संत्यज्य विविधान्भोगानार्यं सर्वात्मना श्रितः ॥ 32 ॥

जितस्स्वर्गस्तव भ्रात्रा भरतेन महात्मना ।
वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ 33 ॥

न पित्र्यमनुवर्तंते मातृकं द्विपदा इति ।
ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ 34 ॥

भर्ता दशरथो यस्यास्साधुश्च भरतस्सुतः ।
कथं नु साऽंबा कैकेयी तादृशी क्रूरशीलिनी ॥ 35 ॥

इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धार्मिके ।
परिवादं जनन्यास्तमसहन्राघवोऽब्रवीत् ॥ 36 ॥

स तेऽंबा मध्यमा तात गर्हितव्या कथंचन ।
तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ 37 ॥

निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता ।
भरतस्नेहसंतप्ता बालिशीक्रियते पुनः ॥ 38 ॥

संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ।
हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥ 39 ॥

कदान्वहं समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥ 40 ॥

इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम् ।
चक्रेऽभिषेकं काकुत्स्थस्सानुजस्सह सीतया ॥ 41 ॥

तर्पयित्वाऽथ सलिलैस्ते पितृंदैवतानि च ।
स्तुवंति स्मोदितं सूर्यं देवताश्च समाहिताः ॥ 42 ॥

कृताभिषेकस्सरराज रामः सीताद्वितीयस्सह लक्ष्मणेन ।
कृताभिषेको गिरिराजपुत्र्या रुद्रस्सनंदी भगवानिवेशः ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षोडशस्सर्गः ॥




Browse Related Categories: