View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.65 युद्धकांड - पंचषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचषष्टितमस्सर्गः ।

स तथोक्तस्तुनिर्भर्त्स्यकुंभकर्णोमहोदरम् ।
अब्रवीद्राक्षसश्रेष्ठंभ्रातरंरावणंततः ॥ 1 ॥

सोऽहंतवभयंघोरंवधात्तस्यदुरात्मनः ।
रामस्याद्यप्रमार्जामिनिर्वैरोहिसुखीभव ॥ 2 ॥

गर्जंति न वृथाशूरानिर्जलाइवतोयदाः ।
पश्यसंपद्यमानंतुगर्जितंयुधिकर्मणा ॥ 3 ॥

न मर्षयंतिचात्मानंसंभावयतिनात्मना ।
अदर्शयित्वाशूरास्तुकर्मकुर्वंतिदुष्करम् ॥ 4 ॥

विक्लबानामबुद्धीनांराज्ञापंडितमानिनाम् ।
श्रृण्वतासदितमिदंत्वाद्विधानांमहोदर ॥ 5 ॥

युद्धेकापुरुषैर्नित्यंभवद्भिःप्रियवादिभिः ।
राजानमनुगच्छद्भिःसर्वंकृत्यमोद्धिसादितम् ॥ 6 ॥

राजशेषाकृतालंकाक्षीणःकोशोबलंहतम् ।
राजानमिममासाद्यसुहृचचिह्नममित्रकम् ॥ 7 ॥

एषनिर्याम्यहंयुद्धमुद्यतश्शत्रुनिर्जये ।
दुर्नयंभवतामद्यसमीकर्तुंमिहाहवे ॥ 8 ॥

एवमुक्तवतोवाक्यंकुंभकर्णस्यधीमतः ।
प्रत्युवाचततोवाक्यंप्रहसन्राक्षसाधिपः ॥ 9 ॥

महोदरोऽयंरामात्तुपरित्रस्तो न संशयः ।
न हिरोचयतेतात युद्धंयुद्धविशारद ॥ 10 ॥

कश्चिन्मेत्वत्समोनास्तिसौहृदेनबलेन च ।
गच्छशत्रुवधायत्वंकुंभकर्णजयाय च ॥ 11 ॥

तस्मात्तुशत्रुनाशार्थंभवान्संबोधितोमया ।
अयंहिकालस्सुहृदांराक्षसानामरिंदम ॥ 12 ॥

तद्गच्छ शूलमादाय पाशहस्त इवांतकः ।
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥ 13 ॥

समालोक्यतुतेरूपंविद्रविष्यंतिवानराः ।
रामलक्ष्मणयोश्चापिहृदयेप्रस्फुटिष्यतः ॥ 14 ॥

एवमुक्त्वामहातेजाःकुंभकर्णंमहाबलम् ।
पुनर्जातमिवात्मानंमेनेराक्षसपुंगवः ॥ 15 ॥

कुंभकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् ।
बभूव मुदितो राजा शशांक इव निर्मलः ॥ 16 ॥

इत्येवमुक्तःसम्हृष्टोनिर्जगाममहाबलः ।
राज्ञस्तुवचनंश्रुत्वाकुंभकर्णस्समुद्यतः ॥ 17 ॥

आददेनिशितंशूलंवेगाच्छत्रुनिबर्हणम् ।
सर्वकालायसंदीप्तंतप्तकांचनभूषणम् ॥ 18 ॥

इंद्राशनिसमंभीमंवज्रप्रतिमगौरवम् ।
देवदानवगंधर्वयक्षपन्नगसूदनम् ॥ 19 ॥

रक्तमाल्यंमहाधामंस्वतश्चोद्गतपावकम् ।
आदायनिशितंशूलंशत्रुशोणितरंजितम् ॥ 20 ॥

कुंभकर्णोमहातेजारावणंवाक्यमब्रवीत् ।
गमिष्याम्यहमेकाकीतिष्ठत्विहबलंमम ॥ 21 ॥

अद्यतान् क्षुभितान् क्रुद्धोभक्षयिष्यामिवानरान् ।
कुंभकर्णवचश्श्रुत्वारावणोवाक्यमब्रवीत् ॥ 22 ॥

सैन्यैःपरिवृतोगच्छशूलमुद्गतपाणिभिः ।
वानराहिमहात्मानश्शीघ्रास्सव्यवसायिनः ॥ 23 ॥

एकाकिनंप्रमत्तंवानयेयुद्धशनैःक्ष्यम् ।
तस्मात्परमदुर्धर्षैः सैन्यैःपरिवृतोव्रज ॥ 24 ॥

रक्षसामहितंसर्वंशत्रुपक्षंनिषूदय ।
अथासनात्समुत्पत्यस्रजं मणिकृतांतराम् ॥ 25 ॥

आबबंधमहातेजाःकुंभकर्णस्यरावणः ।
अंगदान्यंगुलीवेष्टान्वराण्याभरणानि च ॥ 26 ॥

हारं च श्शिसंकाशमाबबंदमहात्मनः ।
दिव्यानि च सुगंधीनिमाल्यदामानिरावणः ॥ 27 ॥

श्रोत्रिचासंजयामासश्रीमतीचास्यकुंडले ।
कांचनांगदकेयूरोनिष्काभरणभूषितः ॥ 28 ॥

कुंभकर्णोबृहत्कर्णस्सुहुतोऽग्निरिवाबभौ ।
श्रोणीसूत्रेणमहतामेचकेनव्यराजत ॥ 29 ॥

अमृतोत्पादनेनद्धोभुजंगेनेवमंदरः ।
स कांचनंभारसहंनिवातंविद्युत्प्रभंदीप्तमिवात्मभासा ।
आबध्यमानःकवचंरराजसंध्याभ्रसम्वीतराजः ॥ 30 ॥

सर्वाभरणनद्धांगः शूलपाणिः स राक्षसः ।
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ 31 ॥

भ्रातरंसंपरिष्वज्यकृत्वाचापिप्रदक्षिणम् ।
प्रणम्यशिरसातस्मैसंप्रतस्थेमहाबलः ॥ 32 ॥

निष्पतंतंमहाकायंमहानादंमहाबलम् ।
तमाशीर्भिःप्रशस्ताभिःप्रेषयामासरावणः ॥ 33 ॥

शंखदुंदुभिनिर्घोषैस्सैन्यैश्चापिवरायुथैः ।
तंगजैश्चतुरंगैश्चस्यंदनैश्चांबुदस्वनैः ॥ 34 ॥

अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।
सर्पैरुष्ट्रैःखरैरश्वैस्सिम्हद्विपमृगद्विजैः ।
अनुजग्मुश्चतंघोरंकुंभकर्णंमहाबलम् ॥ 35 ॥

स पुष्पवर्षैरवकीर्यमाणोधृतातपत्रःशितशूलपाणिः ।
मदोत्कटःशोणितगंधमत्तोविनिर्ययौदावनदेवशत्रुः ॥ 36 ॥

पदातयश्चबहवोमहानादामहाबलाः ।
अन्वयूराक्षसाभीमाभीमाक्षाश्शस्त्रपाणयः ॥ 37 ॥

रक्ताक्षास्सुमहाकायानीलांचनचयोपमाः ।
शूलानुद्यम्यखडगांश्चनिशितांश्चपरश्वधान् ॥ 38 ॥

बहुव्यामांश्चपरिघान्गदाश्चमुसलानि च ।
तालस्कंधांश्चविपुलान्क्षेपणीयांदुरासदान् ॥ 39 ॥

अथान्यद्वपुरादायदारुणंरोमहर्षणम् ।
निष्पपातमहातेजाःकुंभकर्णोमहाबलः ॥ 40 ॥

धनुःशतपरीणाहः स षट्छत्रसमुच्छ्रितः ।
रौद्रःशकटचक्राक्षोमहापर्वतसन्निभः ॥ 41 ॥

सन्निपत्य च रक्षांसिदग्धशैलोपमामहान् ।
कुंभकर्णोमहावक्त्रःप्रहसन्निदमब्रवीत् ॥ 42 ॥

अद्यवानरमुख्यानांतानियूथानिभागश ।
निर्दहिष्यामिसंख्रुद्धश्शलाभानिवपावकः ॥ 43 ॥

नापराध्यंतिमेकामंवानराः वनचारिणः ।
जातिरस्मद्विधानांसापुरोद्यानविभूषणम् ॥ 44 ॥

पुररोधस्यमूलंतुराघवस्सहलक्ष्मणः ।
हतेतस्मिन् हतंसर्वंतंवधिष्यामिसंयुगे ॥ 45 ॥

एवं तस्य ब्रुवाणस्य कुंभकर्णस्य राक्षसाः ।
नादं चक्रुर्महाघोरं कंपयंत इवार्णवम् ॥ 46 ॥

तस्यनिष्पततस्तूर्णंकुंभकर्णस्यधीमतः ।
बभूवुर्घोररूपाणिनिमित्तानिसमंततः ॥ 47 ॥

उल्काशनियुतामेघाबभूवुर्गर्धभारुणाः ।
ससागरवनाचैववसुधासमकंपत ॥ 48 ॥

घोररूपाश्शिवानेदुस्सज्वालकबलैर्मुखैः ।
मंडलान्यपसव्यानिबबंधुश्चविहंगमाः ॥ 49 ॥

निष्पपात च गृध्रोमालेवाऽस्यपथिगच्छतः ।
प्रास्फुरन्नयनंचास्यसव्योबाहुश्चकंपत ॥ 50 ॥

निष्पपाततदाचोल्काज्वलंतीभीमनिश्श्वना ।
आदित्योनिष्प्रभश्चासीन्नप्रवाति च ऽनिलः ॥ 51 ॥

अचिंतयन्महोत्पातानुदितान्रोमहर्षणान् ।
निर्ययौकुंभकर्णस्तुकृतांतबलचोदितः ॥ 52 ॥

न लंघयित्वाप्राकारंपद्भ्यांपर्वतसन्निभः ।
ददर्शाभ्रघनप्रख्यंवानरानीकमद्भुतम् ॥ 53 ॥

तेदृष्टवाराक्षसश्रेष्ठंवानराःपर्वतोपमम् ।
वायुनुन्नाइवघनाययुस्सर्वादिशस्तदा ॥ 54 ॥

तद्वानरानीकमतिप्रचंडंदिशोद्रवद्भिन्नमवाभ्रजालम् ।
स कुंभकर्णस्समवेक्ष्यहर्षान्ननादभूयोघनवद्घनाभः ॥ 55 ॥

तेतस्यघोरंनिनदंनिशम्ययथानिनादंदिविवारिदस्य ।
पेतुर्धरण्यांबहवःप्लवंगानिकृत्तमूलाइवशालवृक्षाः ॥ 56 ॥

विपुलपरिघवान् स कुंभकर्णोरिपुनिधनायविनिस्पृतोत्मा ।
कपिषणभयमाददत्सुभीमंप्रभुरिवदंडवान्युगांते ॥ 57 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचषष्टितमस्सर्गः ॥




Browse Related Categories: