View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.23 सुंदरकांड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रयोविंशस्सर्गः ।

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ 1 ॥

निष्क्रांते राक्षसेंद्रे तु पुनरंतःपुरं गते ।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ 2 ॥

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।
परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ 3 ॥

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।
दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे ॥ 4 ॥

ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।
आमंत्य्र क्रोधाताम्राक्षी सीतां करतलोदरीम् ॥ 5 ॥

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ 6 ॥

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ 7 ॥

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।
तस्य त्वं राक्षसेंद्रस्य भार्या भवितुमर्हसि ॥ 8 ॥

मयोक्तं चारुसर्वांगिः वाक्यं किं नानुमन्यसे ।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ 9 ॥

विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ।
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः ॥ 10 ॥

तस्य त्वं राक्षसेंद्रस्य भार्या भवितुमर्हसि ।
ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता ॥ 11 ॥

भर्त्सयंती तदा घोरमिदं वचनमब्रवीत् ।
वीर्योत्सिक्तस्य शूरस्य संग्रामेषु निवर्तिनः ॥ 12 ॥

बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे ।
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ॥ 13 ॥

सर्वासां च महाभागां त्वामुपैष्यति रावणः ।
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ॥ 14 ॥

अंतःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ।
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ 15 ॥

असकृद्देवता युद्धे नागगंधर्वदानवाः ।
निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ 16 ॥

तस्य सर्वसमृद्धस्य रावणस्य महात्मनः ।
किमद्य राक्षसेंद्रस्य भार्यात्वं नेच्छसेऽधमे ॥ 17 ॥

ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः ॥ 18 ॥

न वाति स्मायतापांगे किं त्वं तस्य न तिष्ठसि ।
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ॥ 19 ॥

शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति ।
तस्य नैरृतराजस्य राजराजस्य भामिनि ॥ 20 ॥

किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।
साधु ते तत्त्वतो देवि कथितं साधु भामिनि ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रयोविंशस्सर्गः ॥




Browse Related Categories: