View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.29 अयोध्याकांड - एकोनत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनत्रिंशस्सर्गः ।

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।
प्रसक्ताश्रुमुखी मंदमिदं वचनमब्रवीत् ॥ 1 ॥

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ॥ 2 ॥

मृगा स्सिंहा गजाश्चैव शार्दूला श्शरभास्तथा ।
पक्षिण स्सृमराश्चैव ये चान्ये वनचारिणः ॥ 3 ॥

अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।
रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति ॥ 4 ॥

त्वया च सह गंतव्यं मया गुरुजनाज्ञया ।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ 5 ॥

न हि मां त्वत्समीपस्थामपि शक्नोतिराघव ।
सुराणामीश्वर श्शक्रः प्रधर्षयितुमोजसा ॥ 6 ॥

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।
काममेवं विधं राम त्वया मम निदर्शितम् ॥ 7 ॥

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ 8 ॥

लक्षणिभ्यो द्विजातिभ्य श्शृत्वाऽहं वचनं पुरा ।
वनवासकृतोत्साहा नित्यमेव महाबल ॥ 9 ॥

आदेशो वनवासस्य प्राप्तव्य स्स मया किल ।
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥ 10 ॥

कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।
कालश्चायं समुत्पन्न स्सत्यवाग्भवतु द्विजः ॥ 11 ॥

वनवासेऽभिजानामि दुःखानि बहुथा किल ।
प्राप्यंते नियतं वीर पुरुषैरकृतात्मभिः ॥ 12 ॥

कन्यया च पितुर्गेहे वनवास श्शृतो मया ।
भिक्षिण्या स्साधुवृत्ताया मम मातुरिहाग्रतः ॥ 13 ॥

प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो ।
गमनं वनवासस्य कांक्षितं हि सह त्वया ॥ 14 ॥

कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव ।
वनवासस्य शूरस्य चर्या हि मम रोचते ॥ 15 ॥

शुद्धात्मन्प्रेमभावाध्दि भविष्यामि विकल्मषा ।
भर्तारमनुगच्छंती भर्ता हि मम दैवतम् ॥ 16 ॥

प्रेत्यभावे हि कल्याण स्संगमो मे सह त्वया ।
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ 17 ॥

इहलोके च पितृभिर्या स्त्री यस्य महामते ।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ 18 ॥

एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ 19 ॥

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
नेतुमर्हसि काकुत्स्थ समान सुखदुःखिनीम् ॥ 20 ॥

ययदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।
विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ॥ 21 ॥

एवं बहुविधं तं सा याचते गमनं प्रति ।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ 22 ॥

एवमुक्ता तु सा चिंतां मैथिली समुपागता ।
स्नापयंतीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ 23 ॥

चिंतयंतीं तथा तां तु निवर्तयितुमात्मवान् ।
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसांत्वयत् ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनत्रिंशस्सर्गः ॥




Browse Related Categories: