View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.61 किष्किंधाकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकषष्टितमस्सर्गः ।

ततस्तद्दारुणं कर्म दुष्करं सहसात्कृतम् ।
आचचक्षे मुनेस्सर्वं सूर्यानुगमनं तथा ॥ 1 ॥

भगवन्व्रणयुक्तत्वाल्लज्जया व्याकुलेंद्रियः ।
परिश्रांतो न शक्नोमि वचनं परिभाषितुम् ॥ 2 ॥

अहं चैव जटायुश्च संघर्षाद्धर्पमोहितौ ।
आकाशं पतितौ वीरौ जिज्ञासंतौ पराक्रमम् ॥ 3 ॥

कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् ।
रविस्स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ 4 ॥

अथाऽवां युगपत्प्राप्तावपश्याव महीतले ।
रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ॥ 5 ॥

क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः ।
गायंतीश्चांगना बह्वीः पश्यावो रक्तवाससः ॥ 6 ॥

तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ ।
आवामालोकयावस्तद्वनं शाद्वलसन्निभम् ॥ 7 ॥

उपलैरिव संछन्ना दृश्यते भूश्शिलोच्चयैः ।
आपगाभिश्च संवीता सूत्रैरिव वसुंधरा ॥ 8 ॥

हिमवांश्चैव विंध्यश्च मेरुश्च सुमहान्नगः ।
भूतले संप्रकाशंते नागा इव जलाशये ॥ 9 ॥

तीव्रस्स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः ।
समाविशति मोहश्च तमो मूर्छा च दारुणा ॥ 10 ॥

न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी ।
युगांते नियतो लोको हतो दग्ध इवाग्निना ॥ 11 ॥

मनश्च मे हतं भूयस्सन्निवर्त्यतु संश्रयम् ।
यत्नेन महता ह्यस्मिन्पुनस्संधाय चक्षुषी ॥ 12 ॥

यत्नेन महता भूयो भास्करः प्रतिलोकितः ।
तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ 13 ॥

जटायुर्मामनापृच्छ्य निपपात महीं ततः ।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ 14 ॥

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते ।
प्रमादात्तत्र निर्दग्धः पतन्वायुपथादहम् ॥ 15 ॥

आशंके तं निपतितं जनस्थाने जटायुषम् ।
अहं तु पतितो विंध्ये दग्धपक्षो जडीकृतः ॥ 16 ॥

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।
सर्वथा मर्तुमेवेच्छन्पतिष्ये शिखराद्गीरेः ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: