View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.58 अरण्यकांड - अष्टपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टपंचाशस्सर्गः ।

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ 1 ॥

प्रस्थितं दंडकारण्यं या मामनुजगाम ह ।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ 2 ॥

राज्यभ्रष्टस्य दीनस्य दंडकान्परिधावतः ।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ 3 ॥

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ 4 ॥

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ।
तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ 5 ॥

कच्चिज्जीवति वैदेहि प्राणैः प्रियतरा मम ।
कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ॥ 6 ॥

सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ।
कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ॥ 7 ॥

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।
उपस्थास्यतिकौसल्या कच्चित्सौम्य न केकयीम् ॥ 8 ॥

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।
सुवृत्ता यदि वृत्ता प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ 9 ॥

यदि मामाश्रमगतं वैदेही नाभिभाषते ।
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ 10 ॥

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ 11 ॥

सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ 12 ॥

सर्वदा रक्षसा तेन जिह्मेन सुदुरात्मना ।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ 13 ॥

श्रुतस्तु शंके वैदेह्या स स्वरस्सदृशो मम ।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ 14 ॥

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमंतरम् ॥ 15 ॥

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।
तैस्सीता निहता घोरैर्भविष्यति न संशयः ॥ 16 ॥

अहोऽस्मिन् व्यसने मग्नस्सर्वथा शत्रुसूदन ।
किं न्विदानीं करिष्यामि शंके प्राप्तव्यमीदृशम् ॥ 17 ॥

इति सीतां वरारोहां चिंतयन्नेव राघवः ।
आजगाम जनस्थानं त्वरया सह लक्ष्मणः ॥ 18 ॥

विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च ।
विनिश्श्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ 19 ॥

स्वमाश्रमं संप्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।
एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टपंचाशस्सर्गः ॥




Browse Related Categories: