View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.6 किष्किंधाकांड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षष्ठस्सर्गः ।

पुनरेवाब्रवीत्प्रीतो राघवं रघुनंदनम् ।
अयमाख्याति मे राम सचिवो मंत्रिसत्तमः ॥ 1 ॥

हनुमान्यन्निमित्तं त्वं निर्जनं वनमागतः ।
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥ 2 ॥

रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ 3 ॥

अंतरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ 4 ॥

भार्यावियोगजं दुःखं न चिरात्त्वं विमोक्ष्यसे ।
अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ 5 ॥

रसातले वा वर्तंतीं वर्तंती वा नभस्थले अहमानीय दास्यामि तव भार्यामरिंदम ॥ 6 ॥

इदं तथ्यं मम वचस्त्वमवेहि च राघव ।
न शक्या सा जरयितुं सेंद्रैरपि स्सुरासुरैः ॥ 7 ॥

तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ।
त्यज शोकं महाबाहो तां कांतामानयामि ते ॥ 8 ॥

अनुमानात्तु जानामि मैथिली सा न संशयः ।
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ॥ 9 ॥

क्रोशंती राम रामेति लक्ष्मणेति च विस्वरम् ।
स्फुरंती रावणस्यांके पन्नगेंद्रवधूर्यथा ॥ 10 ॥

आत्मना पंचमं मां हि दृष्ट्वा शैलतटे स्थितम् ।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ 11 ॥

तान्यस्माभिगृहीतानि निहितानि च राघव ।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ 12 ॥

तमब्रवीत्ततो रामस्सुग्रीवं प्रियवादिनम् ।
आनयस्व सखे शीघ्रं किमर्थं प्रविलंबसे ॥ 13 ॥

एवमुक्तस्तु सुग्रीवश्शैलस्य गहनां गुहाम् ।
प्रविवेश ततशशीघ्रं राघवप्रियकाम्यया ॥ 14 ॥

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।
इदं पश्येति रामाय दर्शयामास वानरः ॥ 15 ॥

ततो गृहीत्वा वासस्तु श्शुभान्याभरणानि च ।
अभवद्बाष्पसंरुद्धो नीहारेणेव चंद्रमाः ॥ 16 ॥

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।
हा प्रियेति रुदंधैर्यमुत्सृज्य न्यपतत्क्षितौ ॥ 17 ॥

हृदि कृत्वा तु बहुशस्तमलंकारमुत्तमम् ।
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ 18 ॥

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।
परिदेवयितुं दीनं रामस्समुपचक्रमे ॥ 19 ॥

पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया ।
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ॥ 20 ॥

शाद्वलिन्यां ध्रुवं भूमौ सीतया ह्रियमाणया ।
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ 21 ॥

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
नाहं जानामि केयूरे नाहं जानामि कुंडले ॥ 22 ॥

नूपुरे त्वभिजानामि नित्यं पादाभिवंदनात् ।
ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत् ॥ 23 ॥

ब्रूहि सुग्रीव कं देशं ह्रियंती लक्षिता त्वया ।
रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ 24 ॥

क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥ 25 ॥

हरता मैथिलीं येन मां च रोषयता भृशम् ।
आत्मनो जीवितांताय मृत्युद्वारमपावृतम् ॥ 26 ॥

मम दयिततरा हृता वनांता द्रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुं तमद्य वै प्लवगपते यमसादनं नयामि ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षष्ठस्सर्गः ॥




Browse Related Categories: