View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.10 किष्किंधाकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ दशमस्सर्गः ।

ततः क्रोधसमाविष्टं सम्रब्धं तमुपागतम् ।
अहं प्रसादयांचक्रे भ्रातरं प्रियकाम्यया ॥ 1 ॥

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनंदनः ॥ 2 ॥

इदं बहुशलाकं ते पूर्णचंद्रमिवोदितम् ।
छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम् ॥ 3 ॥

आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप ।
दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ 4 ॥

शोकसंविग्नहृदयो भृशं व्याकुलितेंद्रियः ।
अपिधाय बिलद्वारं शैलशृंगेण तत्तथा ॥ 5 ॥

तस्माद्देशादपाक्रम्य किष्किंधां प्राविशं पुनः ।
विषादात्विह मां दृष्ट्वा पौरैर्मंत्रिभिरेव च ॥ 6 ॥

अभिषिक्तो न कामेन तन्मेत्वं क्षंतुमर्हसि ।
त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम् ॥ 7 ॥

राजभावनियोगोऽयं मम त्वद्विरहात्कृतः ।
सामात्यपौरनगरं स्थितं निहतकंटकम् ॥ 8 ॥

न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।
मा च रोषं कृथास्सौम्य मयि शत्रुनिबर्हण ॥ 9 ॥

याचे त्वां शिरसा राजन्मया बद्धोऽयमंजलिः ।
बलादस्मिन् समागम्य मंत्रिभिः पुरवासिभिः ॥ 10 ॥

राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ।
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ॥ 11 ॥

धिक्त्वामिति च मा मुक्त्वा बहु तत्तदुवाच ह ।
प्रकृतीश्च समानीय मुंत्रिणश्चैव सम्मतान् ॥ 12 ॥

मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ।
विदितं वो यथा रात्रौ मायावी स महासुरः ॥ 13 ॥

मां समाह्वयत क्रूरो युद्धाकांक्षी सुदुर्मतिः ।
तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात् ॥ 14 ॥

अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ।
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ॥ 15 ॥

प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां समुपागतौ ।
अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ 16 ॥

तं प्रविष्टं विदित्वा सुघोरं सुमहद्बिलम् ।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ 17 ॥

अहत्वा नास्ति मे शक्तिः प्रतिगंतुमितः पुरीम् ।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ 18 ॥

स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ।
तं च मे मार्गमाणस्य गतस्संवत्सरस्तदा ॥ 19 ॥

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।
निहतश्च मया तत्र सोऽसुरो बंधुभिस्सह ॥ 20 ॥

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ।
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ 21 ॥

सूदयित्वा तु तं शत्रुं विक्रांतं दुंदुभेस्सुतम् ।
निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ॥ 22 ॥

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ 23 ॥

पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ।
ततोऽहं तेन निष्क्रम्य यथा पुरमुपागतः ॥ 24 ॥

अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ 25 ॥

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।
निर्वासयामास तदा वाली विगतसाध्वसः ॥ 26 ॥

तेनाहमपविद्धश्च हृतदारश्च राघव ।
तद्भयाच्छ महीकृत्स्ना क्रांतेयं सवनार्णवा ॥ 27 ॥

ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः ।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणांतरे ॥ 28 ॥

एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ 29 ॥

वालिनस्तु भयार्तस्य सर्वलोकभयंकर ।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ 30 ॥

एवमुक्तस्स तेजस्वी धर्मज्ञो धर्मसंहितम् ।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ 31 ॥

अमोघास्सूर्यसंकाशा ममैते निशिता श्शराः ।
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यंति वेगिताः ॥ 32 ॥

यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥ 33 ॥

आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे ।
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ 34 ॥

तस्य तद्वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे दशमस्सर्गः ॥




Browse Related Categories: